74020: वच उम् ============= **Padacheda:** वचः | S | 6 | 1 | उम् | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The augment उ is added after the अ of वच् in the Aorist अङ्। Vasu English Translation ------------------------ The augment उ is added after the अ of वच् in the Aorist अङ्। As अवोचत्, अवोचताम्, अवोचन् ॥ See (3.1.52). Kashika ------- वचेः अङ्गस्य अङि परतः उमागमो भवति। अवोचत्, अवोचताम्, अवोचन्। Siddhanta Kaumudi ----------------- अङि परे । अवोचत् । अवोचत ॥ अथ शास्यान्ताः परस्मैपदिनः । इङ् त्वात्मनेपदी ।{$ {!1045 इण्!} गतौ$} । एति । इतः ॥ Laghu Siddhanta Kaumudi ----------------------- अङि परे। अवोचत्, अवोचत। अवक्ष्यत्, अवक्ष्य । <=चर्करीतं च=> (गणसूत्रम्) (धातुपाठे (02.0076)) । चर्करीतमिति यङ्लुगन्तस्य संज्ञा, तददादौ बोध्यम्॥ {$ {! 25 ऊर्णुञ् !} आच्छादने $} (धातुपाठे (02.0034)) ॥ Balamanorama ------------ **वच उम्** - वच उम् । शेषपूरणेन सूत्रं व्याचष्टे - अङि परे इति ।ऋदृशोऽङी त्यतस्तदनुवृत्तेरिति भावः । मित्त्वादन्त्यादचः परः । आद्गुणः । तदाह — अवोचदिति । अवक्ष्यत् अवक्ष्यत । इङ् त्विति । 'इङ् अध्ययने' इति धातुस्तु ङित्त्वादात्मनेपदीत्यर्थः । इण्गताविति ।इणो य॑णित्यादौ विशेषणार्थो णकारः । एतीति । शपो लुकि तिपः पित्त्वेन ङित्त्वाऽभावाद्गुणः । इत इति । अपित्त्वेन ङित्त्वान्न गुणः । इ — अन्तीत्यत्र ङित्त्वाद्गुणाऽभावे इयङि प्राप्ते - Nyaas ----- `अवोचत्` इति। `वच परिभाषणे` (धातुपाठः-1842), `अस्यतिक्तिख्यातिभ्यः` (3.1.52) इत्यादिनाङ्। मकारसय तदेव प्रयोजनम्॥