74019: पतः पुम्¶
Padacheda: पतः | S | 6 | 1 |
पुम् | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
The augment प् is added after the vowel of a root पत् ‘to fall’ in the Aorist अङ्।
Vasu English Translation¶
The augment प् is added after the vowel of a root पत् ‘to fall’ in the Aorist अङ्। As अपप्तत्, अपप्तताम्, अपप्तन् ॥ The पत् takes the अङ् Aorist as it has an indicatory ऋ in the Dhatupatha (3.1.55).
Kashika¶
पतेरङ्गस्य पुमागमो भवति अङि परतः। अपप्तत्, अपप्तताम्, अपप्तन्।
Siddhanta Kaumudi¶
अङि परे । अपप्तत् ।नेर्गद - (SK2285) इति णत्वम् । प्रण्यपप्तत् ।{$ {!846 क्वथे!} निष्पाके$} । क्वथिति । चक्वाथ । अक्वथीत् ।{$ {!847 पथे!} गतौ$} । अपथीत् ।{$ {!848 मथे!} विलोडने$} । मेथतुः । अमथीत् ।{$ {!849 टुवम!} उद्गिरणे$} । इहैव निपातनादॄत इत्त्वमिति सुधाकरः । ववाम । ववमतुः । वादित्यादेत्वाभ्यासलोपौ न । भागवृत्तौ तु वेमतुरित्याद्यप्युदाहृतं तद्भाष्यादौ न दृष्टम् ।{$ {!850 भ्रमु!} चलने$} । वा भ्राश - (SK2321) इति श्यन्वा । भ्रम्यति । भ्रमति । भ्राम्यतीति तु दिवादेर्वक्ष्यते ॥
Tattvabodhini¶
पतः पुम् - पतः पुम् । मित्त्वादन्त्यादचः परः । अक्वथीदिति । एदित्त्वान्न वृद्धिः । एवम् — अपथीत् । अमथीदित्यत्रापि । टुवम् । केचिदमुमुदितं पठित्वा वान्त्वा वमित्वेत्युदाहरन्ति , तत्तु वामनेन विरुध्यते । तेन हिआदितश्चे॑ति चकारस्यानुक्तसमुच्चयार्थत्वमाश्रित्यवान्त॑ इत्यत्र इडभावः साधितः । उदित्त्वे तुयस्य विभाषे॑त्येनेनैववान्त॑ इति सिद्धेस्तदसङ्गतं स्यात् । एवं च क्त्वाप्रत्यये वमित्वेत्येव साधु । निपातनादिति । अन्यथा गुणे सति उद्गरण इति स्यात् । यद्यपि अर्थनिर्देश आधुनिकस्तथापि पृषोदरादित्वमित्यत्रैव तात्पर्यं बोध्यत् । इत्याद्यप्युदाहृतमिति ।वेमुश्च केचिद्रुधिर॑ मित्यादिप्रयोगानुरोधेन तथोदाहृतमित्याहुः । ननु वादित्वेन निषेधादेत्त्वाब्यासलोपौ कथमिह स्यातामिति चेत् । अत्राहुः — न शसददवादिगुणाना॑मिति सूत्रितेऽपि वेत्यकारान्तसङ्घातग्रहणेनेष्टसिद्धेरादिग्रहणमौपदेशिकप्रतिपत्त्यर्थम् ।एकान्ता अनुबन्धा॑ इति च स्वीक्रियते । तथा च नायं वादिः, किं तु ट्वादिरिति । अन्ये तु वमेरादौलोपो व्यो॑रिति लोपेन यकारः प्रश्लिष्यते । ततश्चोपदेशे वादित्वाऽभावान्निषेधो नेत्याहुः । भ्रमु चलने । मण्डलाकारेण चलनमेव धात्वर्थो, न तु चलनमात्रम् । तदभाववद्विशेष्यकं तत्प्रकारकज्ञानं च धात्वर्थः ।शुकिंत पश्यन् रजतमिति भ्रमती॑ति प्रयोगात् ।उदितो वे॑ ति क्त्वायां वेट् । भ्रमित्वा । भ्रान्त्वा ।यस्य विभाषे॑ति निष्ठायां नेट् । भ्रान्तः । नन्वस्य ज्वलादिगणे पाठः किमर्थः । न चात्र णप्रत्ययार्थमेव पाठ इति वाच्यं, पचादेराकृतिगणत्वादच्प्रत्ययेनाऽपिभ्रम॑ इति रूपसिद्धेः,नोदात्तोपदेशस्ये॑ति वृद्धिनिषेधाण्णप्रत्यये अच्प्रत्यये च रूपस्य तुल्यत्वादिति चेत् । अत्राहुः- यदि पचादित्वादच्प्रत्ययः स्यात्तर्हिअभ्रम॑ इत्यत्रअच्कावशक्तौ॑ इति नञः परमन्तोदात्तं स्यात् । णप्रत्यये त्विहतत्पुरुषे तुल्यार्थे॑ त्याद्युदात्तमेव भवतीति ।
Padamanjari¶
अपप्तदिति । लृदित्वादङ् ॥
Nyaas¶
अपप्तत् इति। `शल हुल पत्लृ गतौ (धातुपाठः-843,844,845), पुषादिनाङ। मकारो देशविध्यर्थः॥
Prakriyasarvasvam¶
पतेरङि पुमागमः स्यात् । अपप्तत् । अपप्तताम् । लिटि पपात पेततुः । पेतिथ । पपात पपत । पेतिव । पत्यात्, पतिता इत्यादि । भावे अपाति । पेते । पतिषीष्ट । अभिपतति शत्रुमित्यादौ कर्मण्यपि । अभ्यपाति । अभ्यपतिषाताम् । अभ्यपतिषत । अभ्यपतिष्ठाः । ‘धि च’ इति सलोपे पक्षभेदाद् वा ढः । अभ्यपतिढ्वम्, अभ्यपतिष्वम् । अभ्यपतिषि । अभिपते । अभिपेतिषे । अभिपेतिध्वे ।
Sutra Prayogas¶
प्रापप्तन् (भट्टिकाव्यम्): पंतः पुम् इति पुमागमः।