74018: श्वयतेरः

Padacheda: श्वयतेः | S | 6 | 1 |

अः | S | 1 | 1 |

Sutrartha


Vasu English Summary

The अ is substituted for the final of श्वि in the Aorist अङ्।

Vasu English Translation

The अ is substituted for the final of श्वि in the Aorist अङ्। As अश्वत्, अश्वताम्, अश्वन् ॥ For the अ of the stem and the अ of the affix, there is the single substitute of the last by (6.2.97). See (3.1.58).

Kashika

श्वयतेः अङ्गस्य अकारादेशो भवति अङि परतः। अश्वत्, अश्वताम्, अश्वन्।

Siddhanta Kaumudi

श्वयतेरिकारस्य अकारः स्यादङि । पररूपम् । अश्वत् । अश्वताम् । अश्वन् । विभाषा धेट्श्व्योः (SK2375) इति चङ् । इयङ् । अशिश्वियत् । ह्म्यन्त - (SK2299) इति न वृद्धिः । अश्वयीत् ॥ वृत् । यजादयो वृत्ताः । भ्वादिस्तवाकृतिगणः । तेन चुलुम्पतीत्यादिसंग्रहः ॥ इति तिङन्ते भ्वादयः ॥

Balamanorama

श्वयतेरः - आयतेरः । आयतेः — अ इति च्छेदः । आयतेरिति श्तिपा निर्देशः । इआधातोरित्यर्थः ।अलोऽन्त्यस्ये॑त्यन्त्यस्य इकारस्येति लभ्यते । ‘ऋदृशोऽङो’ इत्यतोऽङीत्यनुवर्तते । तदाह — आयतेरिकारस्येति । अआ अ त् इति स्थिते सवर्णदीर्घमाशङ्क्याह — पररूपमिति । आर्धधातुकोपदेशे अदन्तत्वाऽभावान्न अल्लोपः । अआन्निति । अआः अआतमआत । अआमआआव अआआम । अङभावपक्षे त्वाह — विभाषेति । इयङिति ।चङी॑ति द्वित्वमित्यपि ज्ञेयम् । तदाह — अशिइआयदिति । अङश्चङश्चाऽभावे तु अइआ ईत् इति स्थिते इकारस्य सिचि वृद्धौ सत्यामायादेशे अआआयीदित प्राप्ते आह — ह्म्यन्तेति न वृद्धिरिति । इआग्रहणादिति भावः । न चनेटी॑त्येव सिचि अइआ ईत् इति स्तिते सिचि वृद्ध्यपेक्षया परत्वादन्तरङ्गत्वाच्च इकारस्य गुणे एकारे कृते इगन्तत्वाऽभावेन सिचि वृद्ध्यप्राप्त्या अयादेशे कृते यान्तत्वादेव हलन्तलक्षणवृद्धेर्निषेधसिद्धेःह्म्यन्ते॑त्यत्र इआग्रहणं व्यर्तमिति व्याच्यम्, अनवकाशतया अपवादत्वेन गुणं बाधित्वा सिचि वृद्धेः प्राप्तौ तन्निषेधार्थत्वादित्यलम् । वृदित्यस्य व्याख्यानम् — यजादयो वृत्ता इति । ननु भ्वादयो वृत्ता इति कुतो न व्याख्यायते इत्यत आह — भ्वादिस्त्वाकृतिगण इति । चुलुम्पतीति । चुलुम्पधातुर्लोपार्थकः, तस्यापि भ्वादिगणे पाठाच्छब्विकरणत्वमिति भावः । इति भ्वादय इति । नचैवं सति ‘अद भक्षणे’ इत्यादीनां वक्ष्यमाणानां धातुत्वं क्थमिति शङ्क्यं, शब्विकरणा भ्वादयः समाप्ता इत्यर्थात् । इति बालमनोरमायां भ्वादयः ।अथ चातुरर्थिक प्रकरणम् । — — — — — — — — -

Tattvabodhini

श्वयतेरः - आयतेरः । अलोऽन्त्यपरिभाषालभ्यमाह — इकारस्येति । पररूपमिति । अतो लोपस्तु न भवति,आर्धधातुकोपदेशे यदकारान्त॑ मिति व्याख्यातत्वात् । इयङिति॥ लघूपधगुणापेक्षयाऽन्तरङ्गत्वादिति भावः । अआयीदिति । नन्विहान्तरङ्गत्वाद्गुणायादेशयोः कृतयोर्यान्तत्वादेव वृद्धिनिषेधो भवेदिति किमनेन णिइआग्रहणेनेति । चेत् । अत्राहुः -न सिच्यन्तरङ्गमस्ती॑ति ज्ञापनार्थं णिइआग्रहणम् । तेन चिरिणोतिजिरिणोत्योर्यङ्लुगन्तानां चिनीप्रभृतीनां च सिचि बहिरङ्गा वृद्धिरेव भवति । अचिरायीत् । अजिरायीत् । अचेचायीत् । अनेनायीदिति । तेनेति । उक्तं च वार्तिककृता — कास्यनेकाज्घणं चुलुम्पाद्यर्थ॑मिति । चुलुम्पतीति । लुम्पतीत्यर्थः, चुलुम्प लोपे इति कविकल्पद्रुमे उक्तत्वात् । इति तत्त्वबोधिन्यां भ्वादयः ।

Padamanjari

अश्वदिति ।’जृस्तम्भु’ इत्यादिनाङ् ॥

Nyaas

अआत् इति। टु ओइआ गतिवृद्ध्योः (धातुपाठः-1010)। जृस्तम्भुभ्रुचु (3.2.58) इत्यादिनाङ् द्वयोरकारयोः पररूपत्वम्॥

Prakriyasarvasvam

श्वयतेरङि अकारोऽन्तादेशः स्यात् । ‘अतो गुणे’ । अश्वत् । अश्वताम् । अश्वन् । अश्वः । अश्वम् । अश्वाव । पक्षे सिच् । तस्येट् । ‘ह्रन्यन्त—’ इत्यवृद्धौ गुणः । अश्वयीत् । अश्वयिष्टाम् । ‘विभाषा धेट्श्व्योः । इति वा चङ् । इयङ् । स्थानिवत्त्वात् द्वित्वम् । ‘हलादिः शेषः अशिश्वियत् । अशिश्वियताम् । कर्मणि चङ्डोरभावात् सिचि वा चिण्वदिट् । अश्वायि । अश्वायिषाताम्, अश्वयिषाताम् । लिटि,

Sutra Prayogas

  • अश्वताम् (भट्टिकाव्यम्): श्वयतेरः इत्यकारः।

  • अश्वतां (भट्टिकाव्यम्): श्वयतेरः इत्यत्वम् ।