74007: उर्ऋत्¶
Padacheda: उः | S | 6 | 1 |
ऋत् | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
Short ऋ is optionally substituted for the penultimate ऋ and ॠ of a Causative अङ्ग (stem) in the reduplicated Aorist.
Vasu English Translation¶
Short ऋ is optionally substituted for the penultimate ऋ and ॠ of a Causative अङ्ग (stem) in the reduplicated Aorist. This debars the इर् (7.3.101), अर् (7.3.86), and आर् (7.2.114) substitutes. Thus अचिकीर्तत् (7.1.101) or अचिकिर्तत् from कॄत् (Churadi III) : अववर्तत् (7.3.86), or अवीवृतत्; अममार्जत् (7.2.114) or अमीमृजत् ॥ Though the इर्, अर् and आर् substitutes are antaranga operations, they are prohibited by the express text of this sutra. The short ऋ is substituted even for a long ॠ : the त् of ऋत् shows that, as in अचीकृतत् (8.2.77). In fact, this ऋ substitute does not take place after the operations of इर्, अर् and आर् substitutions have taken effect, but it is a form which suspends the operation of all those rules.
Kashika¶
णौ चङि उपधायाः ऋवर्णस्य स्थाने वा ऋकारादेशो भवति। इररारामपवादः। इर् अचिकीर्तत्, अचीकृतत्। अर् अववर्तत्, अवीवृतत्। आर् अममार्जत्, अमीमृजत्। वचनसामर्थ्यादन्तरङ्गा अपि इररारो बाध्यन्ते। तप्रकरणं दीर्घेऽपि स्थानिनि ह्रस्व एव यथा स्यात्, अचीकृततिति। न च अयं भाव्यमानः, किन्तु आदेशान्तरनिवृत्त्यर्थं स्वरूपम् एव एतदभ्यनुज्ञायते।
Siddhanta Kaumudi¶
उपधाया ऋवर्णस्य स्थाने ऋत्स्याद्वा चङ्परे णौ । इररारामपवादाः । अपीपृथत् । अपपर्थत् । पथ इत्येके । पाथयति ।{$ {!1555 षम्ब!} सम्बन्धने$} । सम्बयति- अससम्बत् ।{$ {!1556 शम्ब!} च$} । अशशम्बत् । साम्ब इत्येके ।{$ {!1557 भक्ष!} अदने$} ।{$ {!1558 कुट्ट!} छेदनभर्त्सनयोः$} । पूरण इत्येके । कुट्टयति ।{$ {!1559 पुट्ट!} {!1560 चुट्ट!} अल्पीभावे$} ।{$ {!1561 अट्ट!} {!1562 षुट्ट!} अनादरे$} । अट्टयति । अयं दोपधः । ष्टुत्वस्यासिद्धत्वात् नन्द्राः - (SK2246) इति निषेधः । आट्टिटत् ।{$ {!1563 लुण्ठ!} स्तेये$} । लुण्ठति । लुण्ठतीति । लुठि स्तेये इति भौवादिकस्य ।{$ {!1564 शठ!} {!1565 श्वठ!} असंस्कारगत्योः$} । श्वठि इत्येके ।{$ {!1566 तुजि!} {!1567 पिजि!} हिंसाबलादाननिकेतनेषु $}। तुञ्जयति । पिञ्जयति । इदित्करणात्तुञ्जति । पिञ्जति । तुज पिजेति केचित् । लजि लुजि इत्येके ।{$ {!1568 पिस!} गतौ$} । पेसयति । पेसतीति तु शपि गतम् ।{$ {!1569 षान्त्व!} सामप्रयोगे$} ।{$ {!1570 श्वल्क!} {!1571 वल्क!} परिभाषणे$} ।{$ {!1572 ष्णिह!} स्नहने$} । स्फिट इत्येके ।{$ {!1573 स्मिट!} अनादरे$} । अषोपदेशत्वान्न षः । असिस्मिटत् । ष्मिङ् अनादर इत्येके । ङित्त्वस्यावयवेऽचरितार्थत्वाण्णिजन्तात्तङ् । स्माययते ।{$ {!1574 श्लिष!} श्लेषणे$} ।{$ {!1575 पथि!} गतौ$} । पन्थयति । पन्थति ।{$ {!1576 पिच्छ!} कुट्टने$} ।{$ {!1577 छदि!} संवरणे$} । छन्दयति । छन्दति ।{$ {!1578 श्रण!} दाने$} । प्रायेणायं विपूर्वः । विश्राणयति ।{$ {!1579 तड!} आघाते$} । ताडयति ।{$ {!1580 खड!} {!1581 खडि!} {!1582 कडि!} भेदने$} । खाडयति । खण्डयति । खण्डति । कण्डयति । कण्डति ।{$ {!1583 कुडि!} रक्षणे$} ।{$ {!1584 गुडि!} वेष्टने$} । रक्षण इत्येके । कुठि इत्यन्ये । अवकुण्ठयति अकुण्ठति । गुठि इत्यपरे ।{$ {!1585 खुडि!} खण्डने$} ।{$ {!1586 वटि!} विभाजने$} । वडि इत्येके ।{$ {!1587 मडि!} भूषायां हर्षे च$} ।{$ {!1588 भडि!} कल्याणे$} ।{$ {!1589 छर्द!} वमने$} ।{$ {!1590 पुस्त!} {!1591 बुस्त!} आदरानादरयोः$} ।{$ {!1592 चुद!} संचोदने {!1593 नक्क!} {!1594 धक्क!} नाशने$} । णोपदेशलक्षणे पर्युदस्तोऽयम् । प्रनक्कयति ।{$ {!1595 चक्क!} {!1596 चुक्क!} व्यथने$} ।{$ {!1597 क्षल!} शौचकर्मणि$} ।{$ {!1598 तल!} प्रतिष्ठायाम्$} ।{$ {!1599 तुल!} उन्माने$} । तोलयति । लोलयामास । अतूतुलत् । कथं तुलयति तुलना इत्यादि । तुलोपमाभ्याम् - (SK630) इति निपातनादङन्तस्य तुलाशब्दस्य सिद्धौ ततो णिच् ।{$ {!1600 दुल!} उत्क्षेपणे$} । दोलयति । दोलयामास । अदूदुलत् ।{$ {!1601 पुल!} महत्त्वे$} ।{$ {!1602 चुल!} समुच्छ्राये$} ।{$ {!1603 मूल!} रोहणे$} ।{$ {!1604 कल!} {!1605 बिल!} क्षेपे$} । कालयति ।{$ {!1606 बिल!} भेदने$} ।{$ {!1607 तिल!} स्नेहने$} ।{$ {!1608 चल!} भृतौ$} ।{$ {!1609 पाल!} रक्षणे$} ।{$ {!1610 लूष!} हिंसायाम्$} ।{$ {!1611 शुल्ब!} माने$} ।{$ {!1612 शूर्प!} च$} ।{$ {!1613 चुट!} छेदने$} ।{$ {!1614 मुट!} संचूर्णने$} ।{$ {!1615 पडि!} {!1616 पसि!} नाशने$} । पण्डयति । पण्डति । पंसयति । पंसति ।{$ {!1617 व्रज!} {!1618 मार्ग!} संस्कारगत्योः$} ।{$ {!1619 शुल्क!} अतिस्पर्शने$} ।{$ {!1620 चपि!} गत्याम्$} । चम्पयति । चम्पति ।{$ {!1621 क्षपि!} क्षान्त्याम्$} । क्षम्पयति । क्षम्पति ।{$ {!1622 छजि!} कृच्छ्रजीवने$} ।{$ {!1623 श्वर्त!} गत्याम्$} ।{$ {!1624 श्वभ्र!} च$} ।{$ {!1625 ज्ञप!} मिच्च $}। अयं ज्ञाने ज्ञापने च वर्तते ॥
Balamanorama¶
उरृत् - उरृत् । ‘ऋ’ इत्स्यउ॑रिति षष्ठन्तं रूपम् ।णौ चङ्युपधायाः॑इत्यनुवर्तते ।जिघ्रतेर्वे॑त्यतो वेति । तदाह — उपधाया इति । ननु ऋकारस्य ऋकारविधिव्र्यर्थ इत्यत आह — इररारामपवाद इति । ‘कृत संशब्दने’अचीकृत॑दिदित्यादौउपधायाश्चे॑ति इत्त्वे रपरत्वे इर्प्राप्तः,अमीमृज॑दित्यत्र तुमृजेर्वृद्धि॑रित्यार्प्राप्तः, प्रकृतपृथधातौ तु चङि णिलोपे प्रत्ययलक्षणेन णिचमाश्रित्य लघूपधगुणे रपरत्वे अर्प्राप्तः, तेषामपवाद इत्यर्थः । अपीपृथदिति । णिचमाश्रित्य प्राप्तं गुणं बाधित्वा ऋकारे, द्वित्वे, उरदत्त्वे, हलादिशेष सन्वत्त्वादित्वे, दीर्गे, रूपमिति भावः । अपपर्थदिति । ऋत्वाऽभावपक्षेद्वर्वचनेऽची॑ति निषेधाद्गुणात्प्राक् द्वित्वे उरदत्वे हलादिशेषे ऋकारस्य णिचमाश्रित्य गुणे रपरत्वे अपपर्थदित्यतर्लघुपरकत्वाऽभावेन सन्वत्त्वविरहादित्त्वदीर्घौ नेति भावः । अट्ट षुट्ट अनादरे । अयं दोपध इति । अट्टधातुरित्यर्थः । दकारस्य ष्टुत्वचर्त्वाभ्यां निर्देशैति भावः । दोपधत्वस्य प्रयोजनमाह — ष्टुत्वस्येति । तथाच दकारं विहाय ‘टि’ इत्यस्य द्वित्व अद् टिटत् इति स्थिते दस्य ष्टुत्वे चत्व चआट्टिट॑दिति रूपमिष्टं सिद्ध्यति । स्वाभाविकटोपधत्वे तु ‘न न्द्रा’ इति निषेधाऽभावाट्टकारद्वयसहितस्य ण्यन्तस्य द्वित्वे हलादिशेषेणाऽभ्यासे प्रथमटकारस्य अनिवृत्तौ आटिट्टदिति अनिष्टं रूपं स्यादिति भावः । ष्मिङ् अनादरे । ननु णिचश्चेत्यात्मनेपदसिद्धेः किमर्थं ङित्करणमित्यताअह - णिजन्तात्तङिति । तङेवेत्यर्थः । अकत्र्रभिप्रायेऽपि फले णिजन्तादात्मेपदार्थं ङित्करणमिति यावत् । ननु कृतेऽपि ङित्करणे णिजन्तस्य ङित्त्वाऽभावात्कथमुक्तप्रयोजनलाभ इत्यत आह — अवयवेऽचरितार्थत्वादिति । ण्यन्तावयवे ष्मिङ्धातौ ङित्त्वं व्यर्थं, तस्य णिचं विना प्रयोगाऽभावात् । ततश्चाऽवयवे श्रुतं ङित्त्वं ण्यन्तादेव कार्यं साधयतीत्यर्थः । स्माययते इति । णिचि वृद्धौ आयादेशे स्मायीति ण्यन्ताल्लटस्तिपि शपि गुणाऽयादेशाविति भावः । असिष्मयत । तुल उन्माने । कथमिति । लघूपधगुणप्रसङ्गादिति भावः । तुलनेति ।ण्यासश्रन्थो यु॑जिति भावः । समाधत्ते — अतुलोपमाभ्यामिति । आदन्तस्येति । तुलधातोण्र्यन्तात्पचाद्यचि निपातनाद्गुणाऽभावे स्त्रीत्वे तुलाशब्द आदन्तः ।ततस्तत्करोति तदाचष्टे॑ इतिणिचि इष्ठवत्त्वाट्टिलोपे तुलीति ण्यनताल्लटस्तिपि युचि चचुलयती॑तितुलने॑ति च रूपम् । अकारलोपस्यअचः परस्मि॑न्निति स्थानिवत्त्वान्न गुण इति भावः । व्रज मार्गेति । व्राजयति । मार्गयति । यद्वा — मार्गेति न धात्वन्तरम् । व्रजधातुर्मार्गसंस्कारे गतौ चेत्यर्थः । ज्ञप मिच्चेति । ज्ञपधातुर्णिचं लभते, मित्संज्ञश्चेत्यर्थः । मित्त्वकार्यभागिति वा । धातुपाठेऽर्थनिर्देशाऽभावादाह — अयमिति ।प्रच्छ ज्ञीप्साया॑मित्यत्र ज्ञाने,श्लाघङ्नुङ्स्थाशपां ज्ञीप्स्यमानः॑ इत्यत्र ज्ञापने च प्रयोगदर्शनादिति भावः ।
Tattvabodhini¶
उरृत् - उरृत् ।जिघ्रतेर्वे॑त्यतो वेति वर्तते । इररारामिति । ऋकारोपधे तुउपधायाश्चे॑त्यचीकृतदित्यादौ इर्प्राप्तः, अमीमृजदित्यत्रमृजेर्वृद्धिरार्प्राप्तः, इतरेषांमृदुपधानां गुणेन अपीपृथदित्यादावरिति विवेकः । नन्विह उरित्यनूद्यमानः सवर्णान् गृह्णाति, ऋदिति विधीयमानस्तु न गृह्णाति । तथा च अचीकॢपदित्यत्रउरृ॑दित्यनेन ऋवर्णे सति अचीकृपदिति प्रसज्येतेति चेत् । मैवम् । लत्वस्याऽसिद्धत्वेन प्रतमम्उरृ॑दित्यस्य प्रवृत्तौ पश्चात्कृपो रो लः॑ इत्यनेन ऋकारैकदेशस्यऌकारैकदेशविधानादिष्टसिद्धेः । न च चलीकॢप्यत इत्यादौ रीगागमादेर्लत्वार्थंकृपो रो लः॑ इत्य्सयावश्यकत्वेऽपि कृपूदातुःकॢपू सामर्थ्ये॑ इत्येव पठताम्, एवं हि प्रक्रियालाघवं लभ्यते, ऋकारैकदेशस्य ऌकारैकदेश इति व्याख्यानक्लेशोऽपि न भवतीति वाच्यम्, अचीकॢपदित्यत्रउऋ॑दित्यस्य प्रवृत्तावनिष्टरूपप्रसङ्गात् । कृपो रो लः॑ इत्यनेन ऋकारैकदेशस्यऌकारैकदेश इत्यभ्युपगमे तु उक्तव्याख्यानक्लेशध्रौव्यात् । [इदं च कैयटरीत्योक्तम् । नत्विदं क्षोदक्षमम्,ऋत उत् इत्यनेन तपरकरणेन ऌवर्णग्राहकत्वेरूपसिद्धेः स्पष्टत्वात्] अयं दोपध इति । टोपधत्वे त्वाटिट्टदिति स्यादिति भावः । शठ आठ । शाठयति । असंस्कृतो भवति, गच्छति वेत्यर्थः । स्माययत इति.आत्वं तु नेह भवति,नित्यं स्मयते॑रिति निर्देशेनस्मिङ् ईषद्धसने॑ इति भौवादिकादेव हेतुमण्णौ तद्विधानात् । श्रण दाने । विश्राणनं — वितरणम् । चुद संचोदने ।ण्यासश्रन्थः॑ इति युचि — चोदना । वज मार्ग । वाजयति । मार्गयति । केचित्तु मार्गेति न धात्वन्तरं किं तु वजेत्येक दातुर्मार्गसंस्कारे गतौ चेति व्याचख्युः । ज्ञप मिच्च । चाद्गत्यामत्येके । ज्ञपधातुर्णिचं लभते मित्संज्ञकश्चेत्यन्ये ज्ञाने ज्ञापने चेति ।प्रतिपज्ज्ञप्तिचेतनाः॑ । प्रच्छ ज्ञीप्सायामित्यत्र ज्ञाने,श्लाघह्नु॑ङिति सूत्रेज्ञीप्स्यमानो बोधयितुमिष्यमाण॑ इति व्याख्यायां ज्ञापने च प्रयोगदर्शनादिति भावः ।
Padamanjari¶
उपधाया ऋवर्णस्येति । अथ अर्तेर्धातोर्ग्रहणं कस्मान्न भवति, मा भवानर्पिपद् इति यथा स्यादिति ? तपरकरणात् । तद्धि दीर्घेऽपि स्थानिनि ह्रस्व एव यथा स्यादिति । हररारामपवाद इति ।’कृत संशब्दने’ - इत्यस्य ठृत इद्धातोःऽ इतीत्वं प्राप्नोति,’वृतु वर्तने’ इत्यादीनां गुणः,’मृजेर्वृद्धिः’ - ते च रपराः सन्त हररारो भवन्ति । अचिकीर्तदिति । णौ कृतमपीत्वं न स्थानिवद् भवति । यत्र द्विरुक्ते परभागस्याद्योऽजवर्णस्तत्र स्थानिवत्वम् । तथा च ठोः पुयण्ज्यपरेऽ इति ज्ञापकमप्येतादृशमेव । ननु चान्तरङ्गा इररारः, णिज्मात्रापेक्षत्वात्; ऋकारस्तु बहिरङ्गः, स हि पश्चाद्भाविनं चङ्मपेक्षते, तत्कथं तेनैते बाध्यन्ते ? अत आह - वचनसामर्थ्यादिति । यद्यन्तरङ्गत्वादिररारः स्युः, व्यर्थमेवेदं वचनं स्यात् । तपरकरणमित्यादि । असति तस्मिन्यत्र स्थानी दीर्घस्तत्रान्तरतम्याद्दीर्घ एव स्यात् । ननु भाव्यमानोऽण् सवर्णान्न गृह्णाति, तत्कथं दीर्घस्य प्रसङ्गः ? अत आह - न चायमिति । असति तपरकरणे इति भावः । कथमभाव्यमानः ? अत आह - आदेशान्तरेति । अयमभिप्रायः - प्राप्तप्रतिषेधस्य प्रतिप्रसवे सम्भवति नापूर्वविधानं युक्तमिति तावन्न्यायः, ततश्चासति तपरकरणे आदेशान्तराणामिररारां निवृत्यर्थं यथावस्थितमृवर्णस्वरूपमेवाभ्यनुज्ञायेत । सम्भावने लिङ्, सम्भवति च सवर्णग्रहणे सति स्वरूपाभ्यनुज्ञानम् । तत्र स्वरूपमेवाभ्यनुज्ञायतामिति सवर्णग्रहणं स्यात्, तपरकरणे तु सति स्वरूपाभ्यनुज्ञानं न सम्भवति, अतो भाव्यमानत्वसम्पतये तपरकरणमिति । प्रायेण तु अभ्यनुज्ञायते इति उडन्तं पठ।ल्ते, न तत्र समीचीनोऽर्थः; क्रियमाणानुवादे हि लड् भवति । अन्ये तु व्याचक्षते - आदेशान्तरनिवृत्यर्थ स्वरूपमेवाभ्यनुज्ञायत इत्येवमापद्येतेति ॥
Nyaas¶
अत्र ऋकारः स्थानित्वेनोपात्तः, तस्य चान्तरङ्गत्वादिररार एव प्राप्नुवन्ति, न हि बहिरङ्गो ह्रस्वः, तस्मात्? तेषामपवादौ विज्ञायत इत्यत आह - इररारामपवादः इति। उपघायाश्च (7.1.101) इतीकारः, पुगन्तलघूपघस्य (7.3.86) इति गुणोऽकारः, मृजेर्बृद्धिः (7.2.114) इत्याकारः - इत्येते च ऋकारस्य स्थाने उरण्रपरः (1.1.50) इति रपरा भवन्तो यताक्रममिररारो भवन्ति, तेषामपवादः। अचीकृतत् इति। कृत संशब्देने (धातुपाठः-1653), चुरादिः, णिच्। अवीवृतत् इति। वृतु वर्तने (धातुपाठः-758) अमीमृजत् इति। मृजू शुद्धौ (धातुपाठः-1066) हेतुमण्णिच्। ननु चान्तरङ्गत्वादिररार्भिरेव भवितव्यम्, अन्तरङ्गत्वं तु पुनस्तेषां ण्ज्मात्राश्रयत्वात्। ऋकारस्तु चङ्परं णिचमाश्रित्य भवतीति बहिरङ्गः। तत्कथं तेनेररारो बाध्यन्ते? इत्यत आह - वचनसामर्थ्यात् इत्यादि। यद्यन्तरङ्गत्वादिररारः स्युः, वचनस्य तदा वैयथ्र्य स्यात्; अनवकाशत्वात्। तस्मादन्तरङ्गा अपि ते बाध्यन्ते। तपरकरणम् इत्यादि। असति हि तपरकरणे यत्र दीर्घः स्थानी, तत्रान्तरतम्याद्दीर्घः प्रसज्येत तस्मा द्दीर्घेऽपि स्थानिनि ह्रस्व एव यथा स्यादित्येवमर्थं तपरकरणम्। ननु भाष्यमानोऽण्? सवर्णान्न ग्रृह्णाति (व्या।प।35) इति दीर्घस्यापि स्थानिनो ह्रस्व एव भविष्यति, न दीर्घः? इत्यत आह - न चायं भाव्यमानः इत्यादि। किं कारणम्? इत्यत आह - आदेशान्तरनिवृत्त्यर्थम् इति। इति। आदेशान्तरमिररारादि; तस्य निवृत्त्यर्थमीकारस्यास्मीयरूपेणैवाभ्यनुज्ञायते, न त्वपूर्व एव ऋकारो विधीयते, तत्कुतोऽस्य भाव्यमानता!॥
Prakriyasarvasvam¶
णौ चङ्युपधाया ऋवर्णस्य स्थाने ऋद्वा स्यात् । इत्त्वाद्यपवादः । कृत् अ त् ! अभ्यासस्योरदत्त्वम् । ‘सन्वल्लघुनि—’ (७-४-९३) इति सन्वत्त्वात् ‘सन्यतः’ (७-४-७९) इतीत्त्वम् । लघूपरत्वाद् दीर्घः१ । अचीकृतत्, अचीकृतत इत्यादि । ऋदुपदस्य णिज्विकल्पोऽस्ति । तेन णिजभावे शेषात् परस्मैपदं शप् च । कीतति कीर्तैदित्यादि । लुङादौ अकीर्तीत्२ । चिकीर्त । चिकीर्ततुः । चिकीर्तिथ । कीर्त्यात् । कीर्तिता । इत्यादि । सर्वचुरादीनां णिज्विकल्पः कौमुद्युक्तो माधवदूषितत्वान्नोक्तः । चिति स्मृत्याम् । चिन्तयति, चिन्तयते । चङि अचिचिन्तदित्यादि । चुरादिष्विदितां णिज्विकल्प इत्यणिच्त्वे प्राग्वत् परस्मैपदशपौ । चिन्तति । अचिन्तीत् । चिचिन्त । मत्रि गुप्तभाषणे । चे३तयत्याद्या आकुस्मीया णिच्यात्मनेपदिन एव । मन्त्रयते । चङि धातोर्लघुत्वाभावान्न सन्वदित्त्वदीर्घौ । अममन्त्रत इत्यादि । णिच्येव तङ्क्तेरिदिस्वान्णिजभावे तङ् न । मन्त्रतीत्यादि चिन्ततिवत् । मान पूजायाम् । युजादीनाम् ‘आधृषाद्वा’ (ग–सू) इति णिज्विकल्पः। मानयति४, मानयते, मानति । चङि ह्रस्वः । द्वित्वम् । सन्वदित्त्वदीर्घौ। अमीमन५त्, अमीमनत । तङ् चोह्यः । अणिच्त्वे अमानीत् । ममान । ममानतुः । ममानिथ । मान्यात् । इत्यादि । कथादयश्चुरादि (समाप्ति) पर्यन्ता अदन्ताः । कथ वाक्यप्रबन्धने । णिच्यतो लोपः । तस्य स्थानिवत्त्वान्नोपधावृद्धिः । कथयति, कथयते । चङि-अग्लोपित्वान्न सन्वदित्त्वम् । अचकथत्, अचकथत । कथेरभ्यास ईत्त्वं वेति कौमुदी । अचीकथत् । अचीकथत । अस्य चिणि चिण्वदिट्यप्यल्लोपस्य स्थानिवत्त्वान्न वृद्धिः । अकथि । अकथिषाताम्, अकथयिषाताम् । ‘कथादिपातिस्कायो णौ पुग्लुगवत्त्वम्’ इति शाकटायनसूत्रमते कथादीनां णौ पुगिति माधवः । कथप् इ । उपधावृद्धिः कथापयति । चङ््युपधाह्रस्वः । अग्लोपित्वाभावात् सन्वद्वत्त्वम् । दीघश्च । अचीकथपत् । चिणि अकथापि । तङ् चोद्यः । गण सङ्ख्याने । गणयति, गणयते ।
Sutra Prayogas¶
न्यवीवृतत् (भट्टिकाव्यम्): उरृत् इत्यपवाद ऋकारादेशः ।
अचिकीर्तच्च (भट्टिकाव्यम्): उर्ऋत् इति इकाराभावपक्षे रूपम्।