74006: जिघ्रतेर्वा

Padacheda: जिघ्रतेः | S | 6 | 1 |

वा | S | 0 | 0 |

Sutrartha


Vasu English Summary

Short इ is optionally substituted for the penultimate vowel of the Causative अङ्ग (stem) of घ्रा in the Aorist.

Vasu English Translation

Short इ is optionally substituted for the penultimate vowel of the Causative अङ्ग (stem) of घ्रा in the Aorist. As अजिघ्रिपत् or अजिघ्रपत्, अजिघ्रिपताम् or अजिघ्रपताम्, अजिघ्रिपम् or अजिघ्रपम् ॥ Thus घ्रा + णि + अत् = घ्राप् + इ + अत् (7.3.36) = घ्रिप् + इ + अत् (7.4.6) = घ्रिप् + अत् (6.4.51) = जिघ्रिपत् ॥ When इ is not substituted, आ is shortened by (7.4.1).

Kashika

जिघ्रतेः अङ्गस्य नौ चङि उपधाया इकारादेशो वा भवति। अजिघ्रिपत्, अजिघ्रिपताम्, अजिघ्रिपन्। अजिघ्रपत्, अजिघ्रपताम्, अजिघ्रपन्।

Siddhanta Kaumudi

अजिघ्रिपत् । अजिघ्रपत् । उर्ऋत् (SK2567) । अचीकृतत् । अचिकीर्तत् । अवीवृतत् । अवर्तत् । अमीमृजत् । अममार्जत् ।<!पातेर्णौ लुग्वक्तव्यः !> (वार्तिकम्) ॥ पुकोऽपवादः । पालयति ॥

Balamanorama

जिघ्रतेर्वा - जिघ्रतेर्वा । घ्राधातोरुपधाया इद्वा स्याच्चङ्परे णावित्यर्थः । अजिघ्रप् अ त् इति स्थिते उपधाया विकल्पः । उरृदिति । धातोरुपधाया ऋकारस्य ऋद्वा चङ्परे णाविति व्याख्यातं चुरादौ । अचीकृतदिति.कृत् इ अ त् इति स्थिते ऋत्त्वपक्षे कृत् इत्यस्य द्वित्वे उरदत्वे हलादिशेषे अभ्यासचुत्वे सन्वत्त्वादित्त्वे तस्यदीर्गे रूपम् । अचिकीर्तदिति । कृत् इ अ त् इति स्थिते ‘उरृ’ दित्युपधाया ऋत्वाऽभावपक्षेउपधायाश्चे॑ति इत्त्वे रपरत्वे ‘किर्न्’ इत्यस्य द्वित्वे उत्तरखण्डेउपधायां चे॑ति दीर्घे रूपम् । अवीवृतदिति ।वृतु वर्तने॑ । णिचि लघूपधगुणं बाधित्वाउरृत् । चङिवृत्इत्यस्य द्वित्वे उरदत्वे सन्वत्तवादित्त्वं दीर्घश्चेति भावः । अववर्तदिति । ऋत्त्वाऽभावपक्षे वृद्धित्यस्य द्वित्वे उरदत्त्वे उत्तरखण्डस्य लघूपधगुणे रूपम् । लघुपरकत्वाऽभावान्न सन्वत्तवदीर्घौ । अमीमृजदिति । उपधाया ऋत्त्वपक्षे रूपम् । अममार्जिदिति । उपधाया ऋत्तवाऽभावपक्षे द्वित्वे उरदत्त्वे उत्तरखण्डेमृजेर्वृद्धि॑रिति वृद्धौ रपरत्वे रूपम् । लघुपरत्वाऽभावान्न सन्वत्त्वम् । पातर्णौ लुगिति । लुगागम इत्यर्थः । पुकोऽपवाद इति । आदन्तलक्षणपुकोऽपवादैत्यर्थः ।यद्यपि ‘पाल रक्षणे’ इति धातोरेव सिद्धं,तथापि पुको निवृत्तिः फलम् ।

Tattvabodhini

जिघ्रतेर्वा - ॒उरृत् । चुरादौ व्याख्यातम् । अचिकीर्तदिति । ऋदादेशाऽभावपक्षेउपधायायश्चे॑तीत्वे रपरत्वम् ।उपधायां चे॑ति दीर्घः । * पातेर्णौ लुग्वक्तव्यः । पुकोऽपवाद इति । आदन्ततवात्पुकः प्राप्तिः । एवं च लुगागमस्य पुङ्निवृत्तिरेव फलम् ।पालयती॑ति रूपस्यपाल रक्षणे॑ इति धातुनापि सिद्धेरिति भावः ।

Nyaas

एषोऽपि ह्रस्वापवादः। अत्रापि श्तिपा निर्देशस्य तदेव प्रयोजनम् - अजाघ्रपदिति॥

Prakriyasarvasvam

जिघ्रतेर्णौ चङ्युपधाया इद्वा स्यात् । अजिघ्रिपत्, पक्षे ह्रस्वः अजिघ्रपत् ।

Sutra Prayogas

  • अचिकीर्तच्च (भट्टिकाव्यम्): जिघ्रतेर्वा इत्यधिकृत्य।

  • अजिघ्रपन् (भट्टिकाव्यम्): जिघ्रतेर्वा इति अकारः।