74007: उर्ऋत् ============= **Padacheda:** उः | S | 6 | 1 | ऋत् | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- Short ऋ is optionally substituted for the penultimate ऋ and ॠ of a Causative अङ्ग (stem) in the reduplicated Aorist. Vasu English Translation ------------------------ Short ऋ is optionally substituted for the penultimate ऋ and ॠ of a Causative अङ्ग (stem) in the reduplicated Aorist. This debars the इर् (7.3.101), अर् (7.3.86), and आर् (7.2.114) substitutes. Thus अचिकीर्तत् (7.1.101) or अचिकिर्तत् from कॄत् (*Churadi* III) : अववर्तत् (7.3.86), or अवीवृतत्; अममार्जत् (7.2.114) or अमीमृजत् ॥ Though the इर्, अर् and आर् substitutes are *antaranga* operations, they are prohibited by the express text of this *sutra*. The short ऋ is substituted even for a long ॠ : the त् of ऋत् shows that, as in अचीकृतत् (8.2.77). In fact, this ऋ substitute does not take place after the operations of इर्, अर् and आर् substitutions have taken effect, but it is a form which suspends the operation of all those rules. Kashika ------- णौ चङि उपधायाः ऋवर्णस्य स्थाने वा ऋकारादेशो भवति। इररारामपवादः। इर् अचिकीर्तत्, अचीकृतत्। अर् अववर्तत्, अवीवृतत्। आर् अममार्जत्, अमीमृजत्। वचनसामर्थ्यादन्तरङ्गा अपि इररारो बाध्यन्ते। तप्रकरणं दीर्घेऽपि स्थानिनि ह्रस्व एव यथा स्यात्, अचीकृततिति। न च अयं भाव्यमानः, किन्तु आदेशान्तरनिवृत्त्यर्थं स्वरूपम् एव एतदभ्यनुज्ञायते। Siddhanta Kaumudi ----------------- उपधाया ऋवर्णस्य स्थाने ऋत्स्याद्वा चङ्परे णौ । इररारामपवादाः । अपीपृथत् । अपपर्थत् । पथ इत्येके । पाथयति ।{$ {!1555 षम्ब!} सम्बन्धने$} । सम्बयति- अससम्बत् ।{$ {!1556 शम्ब!} च$} । अशशम्बत् । साम्ब इत्येके ।{$ {!1557 भक्ष!} अदने$} ।{$ {!1558 कुट्ट!} छेदनभर्त्सनयोः$} । पूरण इत्येके । कुट्टयति ।{$ {!1559 पुट्ट!} {!1560 चुट्ट!} अल्पीभावे$} ।{$ {!1561 अट्ट!} {!1562 षुट्ट!} अनादरे$} । अट्टयति । अयं दोपधः । ष्टुत्वस्यासिद्धत्वात् नन्द्राः - (SK2246) इति निषेधः । आट्टिटत् ।{$ {!1563 लुण्ठ!} स्तेये$} । लुण्ठति । लुण्ठतीति । लुठि स्तेये इति भौवादिकस्य ।{$ {!1564 शठ!} {!1565 श्वठ!} असंस्कारगत्योः$} । श्वठि इत्येके ।{$ {!1566 तुजि!} {!1567 पिजि!} हिंसाबलादाननिकेतनेषु $}। तुञ्जयति । पिञ्जयति । इदित्करणात्तुञ्जति । पिञ्जति । तुज पिजेति केचित् । लजि लुजि इत्येके ।{$ {!1568 पिस!} गतौ$} । पेसयति । पेसतीति तु शपि गतम् ।{$ {!1569 षान्त्व!} सामप्रयोगे$} ।{$ {!1570 श्वल्क!} {!1571 वल्क!} परिभाषणे$} ।{$ {!1572 ष्णिह!} स्नहने$} । स्फिट इत्येके ।{$ {!1573 स्मिट!} अनादरे$} । अषोपदेशत्वान्न षः । असिस्मिटत् । ष्मिङ् अनादर इत्येके । ङित्त्वस्यावयवेऽचरितार्थत्वाण्णिजन्तात्तङ् । स्माययते ।{$ {!1574 श्लिष!} श्लेषणे$} ।{$ {!1575 पथि!} गतौ$} । पन्थयति । पन्थति ।{$ {!1576 पिच्छ!} कुट्टने$} ।{$ {!1577 छदि!} संवरणे$} । छन्दयति । छन्दति ।{$ {!1578 श्रण!} दाने$} । प्रायेणायं विपूर्वः । विश्राणयति ।{$ {!1579 तड!} आघाते$} । ताडयति ।{$ {!1580 खड!} {!1581 खडि!} {!1582 कडि!} भेदने$} । खाडयति । खण्डयति । खण्डति । कण्डयति । कण्डति ।{$ {!1583 कुडि!} रक्षणे$} ।{$ {!1584 गुडि!} वेष्टने$} । रक्षण इत्येके । कुठि इत्यन्ये । अवकुण्ठयति अकुण्ठति । गुठि इत्यपरे ।{$ {!1585 खुडि!} खण्डने$} ।{$ {!1586 वटि!} विभाजने$} । वडि इत्येके ।{$ {!1587 मडि!} भूषायां हर्षे च$} ।{$ {!1588 भडि!} कल्याणे$} ।{$ {!1589 छर्द!} वमने$} ।{$ {!1590 पुस्त!} {!1591 बुस्त!} आदरानादरयोः$} ।{$ {!1592 चुद!} संचोदने {!1593 नक्क!} {!1594 धक्क!} नाशने$} । णोपदेशलक्षणे पर्युदस्तोऽयम् । प्रनक्कयति ।{$ {!1595 चक्क!} {!1596 चुक्क!} व्यथने$} ।{$ {!1597 क्षल!} शौचकर्मणि$} ।{$ {!1598 तल!} प्रतिष्ठायाम्$} ।{$ {!1599 तुल!} उन्माने$} । तोलयति । लोलयामास । अतूतुलत् । कथं तुलयति तुलना इत्यादि । तुलोपमाभ्याम् - (SK630) इति निपातनादङन्तस्य तुलाशब्दस्य सिद्धौ ततो णिच् ।{$ {!1600 दुल!} उत्क्षेपणे$} । दोलयति । दोलयामास । अदूदुलत् ।{$ {!1601 पुल!} महत्त्वे$} ।{$ {!1602 चुल!} समुच्छ्राये$} ।{$ {!1603 मूल!} रोहणे$} ।{$ {!1604 कल!} {!1605 बिल!} क्षेपे$} । कालयति ।{$ {!1606 बिल!} भेदने$} ।{$ {!1607 तिल!} स्नेहने$} ।{$ {!1608 चल!} भृतौ$} ।{$ {!1609 पाल!} रक्षणे$} ।{$ {!1610 लूष!} हिंसायाम्$} ।{$ {!1611 शुल्ब!} माने$} ।{$ {!1612 शूर्प!} च$} ।{$ {!1613 चुट!} छेदने$} ।{$ {!1614 मुट!} संचूर्णने$} ।{$ {!1615 पडि!} {!1616 पसि!} नाशने$} । पण्डयति । पण्डति । पंसयति । पंसति ।{$ {!1617 व्रज!} {!1618 मार्ग!} संस्कारगत्योः$} ।{$ {!1619 शुल्क!} अतिस्पर्शने$} ।{$ {!1620 चपि!} गत्याम्$} । चम्पयति । चम्पति ।{$ {!1621 क्षपि!} क्षान्त्याम्$} । क्षम्पयति । क्षम्पति ।{$ {!1622 छजि!} कृच्छ्रजीवने$} ।{$ {!1623 श्वर्त!} गत्याम्$} ।{$ {!1624 श्वभ्र!} च$} ।{$ {!1625 ज्ञप!} मिच्च $}। अयं ज्ञाने ज्ञापने च वर्तते ॥ Balamanorama ------------ **उरृत्** - उरृत् । 'ऋ' इत्स्यउ॑रिति षष्ठन्तं रूपम् ।णौ चङ्युपधायाः॑इत्यनुवर्तते ।जिघ्रतेर्वे॑त्यतो वेति । तदाह — उपधाया इति । ननु ऋकारस्य ऋकारविधिव्र्यर्थ इत्यत आह — इररारामपवाद इति । 'कृत संशब्दने'अचीकृत॑दिदित्यादौउपधायाश्चे॑ति इत्त्वे रपरत्वे इर्प्राप्तः,अमीमृज॑दित्यत्र तुमृजेर्वृद्धि॑रित्यार्प्राप्तः, प्रकृतपृथधातौ तु चङि णिलोपे प्रत्ययलक्षणेन णिचमाश्रित्य लघूपधगुणे रपरत्वे अर्प्राप्तः, तेषामपवाद इत्यर्थः । अपीपृथदिति । णिचमाश्रित्य प्राप्तं गुणं बाधित्वा ऋकारे, द्वित्वे, उरदत्त्वे, हलादिशेष सन्वत्त्वादित्वे, दीर्गे, रूपमिति भावः । अपपर्थदिति । ऋत्वाऽभावपक्षेद्वर्वचनेऽची॑ति निषेधाद्गुणात्प्राक् द्वित्वे उरदत्वे हलादिशेषे ऋकारस्य णिचमाश्रित्य गुणे रपरत्वे अपपर्थदित्यतर्लघुपरकत्वाऽभावेन सन्वत्त्वविरहादित्त्वदीर्घौ नेति भावः । अट्ट षुट्ट अनादरे । अयं दोपध इति । अट्टधातुरित्यर्थः । दकारस्य ष्टुत्वचर्त्वाभ्यां निर्देशैति भावः । दोपधत्वस्य प्रयोजनमाह — ष्टुत्वस्येति । तथाच दकारं विहाय 'टि' इत्यस्य द्वित्व अद् टिटत् इति स्थिते दस्य ष्टुत्वे चत्व चआट्टिट॑दिति रूपमिष्टं सिद्ध्यति । स्वाभाविकटोपधत्वे तु 'न न्द्रा' इति निषेधाऽभावाट्टकारद्वयसहितस्य ण्यन्तस्य द्वित्वे हलादिशेषेणाऽभ्यासे प्रथमटकारस्य अनिवृत्तौ आटिट्टदिति अनिष्टं रूपं स्यादिति भावः । ष्मिङ् अनादरे । ननु णिचश्चेत्यात्मनेपदसिद्धेः किमर्थं ङित्करणमित्यताअह - णिजन्तात्तङिति । तङेवेत्यर्थः । अकत्र्रभिप्रायेऽपि फले णिजन्तादात्मेपदार्थं ङित्करणमिति यावत् । ननु कृतेऽपि ङित्करणे णिजन्तस्य ङित्त्वाऽभावात्कथमुक्तप्रयोजनलाभ इत्यत आह — अवयवेऽचरितार्थत्वादिति । ण्यन्तावयवे ष्मिङ्धातौ ङित्त्वं व्यर्थं, तस्य णिचं विना प्रयोगाऽभावात् । ततश्चाऽवयवे श्रुतं ङित्त्वं ण्यन्तादेव कार्यं साधयतीत्यर्थः । स्माययते इति । णिचि वृद्धौ आयादेशे स्मायीति ण्यन्ताल्लटस्तिपि शपि गुणाऽयादेशाविति भावः । असिष्मयत । तुल उन्माने । कथमिति । लघूपधगुणप्रसङ्गादिति भावः । तुलनेति ।ण्यासश्रन्थो यु॑जिति भावः । समाधत्ते — अतुलोपमाभ्यामिति । आदन्तस्येति । तुलधातोण्र्यन्तात्पचाद्यचि निपातनाद्गुणाऽभावे स्त्रीत्वे तुलाशब्द आदन्तः ।ततस्तत्करोति तदाचष्टे॑ इतिणिचि इष्ठवत्त्वाट्टिलोपे तुलीति ण्यनताल्लटस्तिपि युचि चचुलयती॑तितुलने॑ति च रूपम् । अकारलोपस्यअचः परस्मि॑न्निति स्थानिवत्त्वान्न गुण इति भावः । व्रज मार्गेति । व्राजयति । मार्गयति । यद्वा — मार्गेति न धात्वन्तरम् । व्रजधातुर्मार्गसंस्कारे गतौ चेत्यर्थः । ज्ञप मिच्चेति । ज्ञपधातुर्णिचं लभते, मित्संज्ञश्चेत्यर्थः । मित्त्वकार्यभागिति वा । धातुपाठेऽर्थनिर्देशाऽभावादाह — अयमिति ।प्रच्छ ज्ञीप्साया॑मित्यत्र ज्ञाने,श्लाघङ्नुङ्स्थाशपां ज्ञीप्स्यमानः॑ इत्यत्र ज्ञापने च प्रयोगदर्शनादिति भावः । Tattvabodhini ------------- **उरृत्** - उरृत् ।जिघ्रतेर्वे॑त्यतो वेति वर्तते । इररारामिति । ऋकारोपधे तुउपधायाश्चे॑त्यचीकृतदित्यादौ इर्प्राप्तः, अमीमृजदित्यत्रमृजेर्वृद्धिरार्प्राप्तः, इतरेषांमृदुपधानां गुणेन अपीपृथदित्यादावरिति विवेकः । नन्विह उरित्यनूद्यमानः सवर्णान् गृह्णाति, ऋदिति विधीयमानस्तु न गृह्णाति । तथा च अचीकॢपदित्यत्रउरृ॑दित्यनेन ऋवर्णे सति अचीकृपदिति प्रसज्येतेति चेत् । मैवम् । लत्वस्याऽसिद्धत्वेन प्रतमम्उरृ॑दित्यस्य प्रवृत्तौ पश्चात्कृपो रो लः॑ इत्यनेन ऋकारैकदेशस्यऌकारैकदेशविधानादिष्टसिद्धेः । न च चलीकॢप्यत इत्यादौ रीगागमादेर्लत्वार्थंकृपो रो लः॑ इत्य्सयावश्यकत्वेऽपि कृपूदातुःकॢपू सामर्थ्ये॑ इत्येव पठताम्, एवं हि प्रक्रियालाघवं लभ्यते, ऋकारैकदेशस्य ऌकारैकदेश इति व्याख्यानक्लेशोऽपि न भवतीति वाच्यम्, अचीकॢपदित्यत्रउऋ॑दित्यस्य प्रवृत्तावनिष्टरूपप्रसङ्गात् । कृपो रो लः॑ इत्यनेन ऋकारैकदेशस्यऌकारैकदेश इत्यभ्युपगमे तु उक्तव्याख्यानक्लेशध्रौव्यात् । [इदं च कैयटरीत्योक्तम् । नत्विदं क्षोदक्षमम्,ऋत उत् इत्यनेन तपरकरणेन ऌवर्णग्राहकत्वेरूपसिद्धेः स्पष्टत्वात्] अयं दोपध इति । टोपधत्वे त्वाटिट्टदिति स्यादिति भावः । शठ आठ । शाठयति । असंस्कृतो भवति, गच्छति वेत्यर्थः । स्माययत इति.आत्वं तु नेह भवति,नित्यं स्मयते॑रिति निर्देशेनस्मिङ् ईषद्धसने॑ इति भौवादिकादेव हेतुमण्णौ तद्विधानात् । श्रण दाने । विश्राणनं — वितरणम् । चुद संचोदने ।ण्यासश्रन्थः॑ इति युचि — चोदना । वज मार्ग । वाजयति । मार्गयति । केचित्तु मार्गेति न धात्वन्तरं किं तु वजेत्येक दातुर्मार्गसंस्कारे गतौ चेति व्याचख्युः । ज्ञप मिच्च । चाद्गत्यामत्येके । ज्ञपधातुर्णिचं लभते मित्संज्ञकश्चेत्यन्ये ज्ञाने ज्ञापने चेति ।प्रतिपज्ज्ञप्तिचेतनाः॑ । प्रच्छ ज्ञीप्सायामित्यत्र ज्ञाने,श्लाघह्नु॑ङिति सूत्रेज्ञीप्स्यमानो बोधयितुमिष्यमाण॑ इति व्याख्यायां ज्ञापने च प्रयोगदर्शनादिति भावः । Padamanjari ----------- उपधाया ऋवर्णस्येति । अथ अर्तेर्धातोर्ग्रहणं कस्मान्न भवति, मा भवानर्पिपद् इति यथा स्यादिति ? तपरकरणात् । तद्धि दीर्घेऽपि स्थानिनि ह्रस्व एव यथा स्यादिति । हररारामपवाद इति ।'कृत संशब्दने' - इत्यस्य ठृत इद्धातोःऽ इतीत्वं प्राप्नोति,'वृतु वर्तने' इत्यादीनां गुणः,'मृजेर्वृद्धिः' - ते च रपराः सन्त हररारो भवन्ति । अचिकीर्तदिति । णौ कृतमपीत्वं न स्थानिवद् भवति । यत्र द्विरुक्ते परभागस्याद्योऽजवर्णस्तत्र स्थानिवत्वम् । तथा च ठोः पुयण्ज्यपरेऽ इति ज्ञापकमप्येतादृशमेव । ननु चान्तरङ्गा इररारः, णिज्मात्रापेक्षत्वात्; ऋकारस्तु बहिरङ्गः, स हि पश्चाद्भाविनं चङ्मपेक्षते, तत्कथं तेनैते बाध्यन्ते ? अत आह - वचनसामर्थ्यादिति । यद्यन्तरङ्गत्वादिररारः स्युः, व्यर्थमेवेदं वचनं स्यात् । तपरकरणमित्यादि । असति तस्मिन्यत्र स्थानी दीर्घस्तत्रान्तरतम्याद्दीर्घ एव स्यात् । ननु भाव्यमानोऽण् सवर्णान्न गृह्णाति, तत्कथं दीर्घस्य प्रसङ्गः ? अत आह - न चायमिति । असति तपरकरणे इति भावः । कथमभाव्यमानः ? अत आह - आदेशान्तरेति । अयमभिप्रायः - प्राप्तप्रतिषेधस्य प्रतिप्रसवे सम्भवति नापूर्वविधानं युक्तमिति तावन्न्यायः, ततश्चासति तपरकरणे आदेशान्तराणामिररारां निवृत्यर्थं यथावस्थितमृवर्णस्वरूपमेवाभ्यनुज्ञायेत । सम्भावने लिङ्, सम्भवति च सवर्णग्रहणे सति स्वरूपाभ्यनुज्ञानम् । तत्र स्वरूपमेवाभ्यनुज्ञायतामिति सवर्णग्रहणं स्यात्, तपरकरणे तु सति स्वरूपाभ्यनुज्ञानं न सम्भवति, अतो भाव्यमानत्वसम्पतये तपरकरणमिति । प्रायेण तु अभ्यनुज्ञायते इति उडन्तं पठ।ल्ते, न तत्र समीचीनोऽर्थः; क्रियमाणानुवादे हि लड् भवति । अन्ये तु व्याचक्षते - आदेशान्तरनिवृत्यर्थ स्वरूपमेवाभ्यनुज्ञायत इत्येवमापद्येतेति ॥ Nyaas ----- अत्र ऋकारः स्थानित्वेनोपात्तः, तस्य चान्तरङ्गत्वादिररार एव प्राप्नुवन्ति, न हि बहिरङ्गो ह्रस्वः, तस्मात्? तेषामपवादौ विज्ञायत इत्यत आह - `इररारामपवादः` इति। `उपघायाश्च` (7.1.101) इतीकारः, `पुगन्तलघूपघस्य` (7.3.86) इति गुणोऽकारः, `मृजेर्बृद्धिः` (7.2.114) इत्याकारः - इत्येते च ऋकारस्य स्थाने `उरण्रपरः` (1.1.50) इति रपरा भवन्तो यताक्रममिररारो भवन्ति, तेषामपवादः। `अचीकृतत्` इति। `कृत संशब्देने` (धातुपाठः-1653), चुरादिः, णिच्। `अवीवृतत्` इति। `वृतु वर्तने` (धातुपाठः-758) `अमीमृजत्` इति। `मृजू शुद्धौ` (धातुपाठः-1066) हेतुमण्णिच्। ननु चान्तरङ्गत्वादिररार्भिरेव भवितव्यम्, अन्तरङ्गत्वं तु पुनस्तेषां ण्ज्मात्राश्रयत्वात्। ऋकारस्तु चङ्परं णिचमाश्रित्य भवतीति बहिरङ्गः। तत्कथं तेनेररारो बाध्यन्ते? इत्यत आह - `वचनसामर्थ्यात्` इत्यादि। यद्यन्तरङ्गत्वादिररारः स्युः, वचनस्य तदा वैयथ्र्य स्यात्; अनवकाशत्वात्। तस्मादन्तरङ्गा अपि ते बाध्यन्ते। `तपरकरणम्` इत्यादि। असति हि तपरकरणे यत्र दीर्घः स्थानी, तत्रान्तरतम्याद्दीर्घः प्रसज्येत तस्मा द्दीर्घेऽपि स्थानिनि ह्रस्व एव यथा स्यादित्येवमर्थं तपरकरणम्। ननु `भाष्यमानोऽण्? सवर्णान्न ग्रृह्णाति` (व्या।प।35) इति दीर्घस्यापि स्थानिनो ह्रस्व एव भविष्यति, न दीर्घः? इत्यत आह - `न चायं भाव्यमानः` इत्यादि। किं कारणम्? इत्यत आह - `आदेशान्तरनिवृत्त्यर्थम्` इति। इति। आदेशान्तरमिररारादि; तस्य निवृत्त्यर्थमीकारस्यास्मीयरूपेणैवाभ्यनुज्ञायते, न त्वपूर्व एव ऋकारो विधीयते, तत्कुतोऽस्य भाव्यमानता!॥ Prakriyasarvasvam ----------------- णौ चङ्युपधाया ऋवर्णस्य स्थाने ऋद्वा स्यात् । इत्त्वाद्यपवादः । कृत् अ त् ! अभ्यासस्योरदत्त्वम् । 'सन्वल्लघुनि—' (७-४-९३) इति सन्वत्त्वात् 'सन्यतः' (७-४-७९) इतीत्त्वम् । लघूपरत्वाद् दीर्घः१ । अचीकृतत्, अचीकृतत इत्यादि । ऋदुपदस्य णिज्विकल्पोऽस्ति । तेन णिजभावे शेषात् परस्मैपदं शप् च । कीतति कीर्तैदित्यादि । लुङादौ अकीर्तीत्२ । चिकीर्त । चिकीर्ततुः । चिकीर्तिथ । कीर्त्यात् । कीर्तिता । इत्यादि । सर्वचुरादीनां णिज्विकल्पः कौमुद्युक्तो माधवदूषितत्वान्नोक्तः । चिति स्मृत्याम् । चिन्तयति, चिन्तयते । चङि अचिचिन्तदित्यादि । चुरादिष्विदितां णिज्विकल्प इत्यणिच्त्वे प्राग्वत् परस्मैपदशपौ । चिन्तति । अचिन्तीत् । चिचिन्त । मत्रि गुप्तभाषणे । चे३तयत्याद्या आकुस्मीया णिच्यात्मनेपदिन एव । मन्त्रयते । चङि धातोर्लघुत्वाभावान्न सन्वदित्त्वदीर्घौ । अममन्त्रत इत्यादि । णिच्येव तङ्क्तेरिदिस्वान्णिजभावे तङ् न । मन्त्रतीत्यादि चिन्ततिवत् । मान पूजायाम् । युजादीनाम् 'आधृषाद्वा' (ग–सू) इति णिज्विकल्पः। मानयति४, मानयते, मानति । चङि ह्रस्वः । द्वित्वम् । सन्वदित्त्वदीर्घौ। अमीमन५त्, अमीमनत । तङ् चोह्यः । अणिच्त्वे अमानीत् । ममान । ममानतुः । ममानिथ । मान्यात् । इत्यादि । कथादयश्चुरादि (समाप्ति) पर्यन्ता अदन्ताः । कथ वाक्यप्रबन्धने । णिच्यतो लोपः । तस्य स्थानिवत्त्वान्नोपधावृद्धिः । कथयति, कथयते । चङि-अग्लोपित्वान्न सन्वदित्त्वम् । अचकथत्, अचकथत । कथेरभ्यास ईत्त्वं वेति कौमुदी । अचीकथत् । अचीकथत । अस्य चिणि चिण्वदिट्यप्यल्लोपस्य स्थानिवत्त्वान्न वृद्धिः । अकथि । अकथिषाताम्, अकथयिषाताम् । 'कथादिपातिस्कायो णौ पुग्लुगवत्त्वम्' इति शाकटायनसूत्रमते कथादीनां णौ पुगिति माधवः । कथप् इ । उपधावृद्धिः कथापयति । चङ््युपधाह्रस्वः । अग्लोपित्वाभावात् सन्वद्वत्त्वम् । दीघश्च । अचीकथपत् । चिणि अकथापि । तङ् चोद्यः । गण सङ्ख्याने । गणयति, गणयते । Sutra Prayogas -------------- * **न्यवीवृतत्** (भट्टिकाव्यम्): `उरृत्` इत्यपवाद ऋकारादेशः । * **अचिकीर्तच्च** (भट्टिकाव्यम्): `उर्ऋत्` इति इकाराभावपक्षे रूपम्।