74005: तिष्ठतेरित्¶
Padacheda: तिष्ठतेः | S | 6 | 1 |
इत् | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
Short इ is substituted for the penultimate vowel of the Causative अङ्ग (stem) स्था in the Aorist.
Vasu English Translation¶
Short इ is substituted for the penultimate vowel of the Causative अङ्ग (stem) स्था in the Aorist. Thus अतिष्ठिपत्, अतिष्ठिपताम्, and अतिष्ठिपन् ॥ The form is thus evolved. स्था + णिच् + अत् = स्थाप् + इ + अत् (7.3.36) = स्थाप् + अत् (6.4.51) = स्थिप् + अत् (7.4.5) = तिष्ठिपत् ॥
Kashika¶
तिष्ठतेरङ्गस्य णौ चङि उपधायाः इकारादेशो भवति। अतिष्ठिपत्, अतिष्ठिपताम्, अतिष्ठिपन्।
Siddhanta Kaumudi¶
उपधाया इदादेशः स्याच्चङ्परे णौ । अतिष्ठिपत् ॥
Laghu Siddhanta Kaumudi¶
उपधाया इदादेशः स्याच्चङ्परे णौ। अतिष्ठिपत्॥ {$ {! 2 घट !} चेष्टायाम् $} (धातुपाठे (01.0867)) ॥
Balamanorama¶
तिष्ठतेरित् - तिष्ठतेरित् । ‘णौ चङ्युपधायाः’ इत्यनुवर्तते । तदाह — उपधाया इति ।
Tattvabodhini¶
तिष्ठतेरित् - तिष्ठतेरित् । तकारो मन्दप्रयोजनः । श्तिपा निर्देशो यङ्लुङ्निवृत्त्यर्थः । अतास्थपत् । लटि — तास्थापयतीति तास्थापेति ।
Padamanjari¶
अतिष्ठिपदिति । णौ कृतस्येत्वस्य स्थानिवद्भावात् स्थाशब्दस्य द्विर्वचनम्, सन्वद्भावादभ्यासस्येत्वम् । तिपा निर्देशः पूर्ववत् ॥
Nyaas¶
अयमपि ह्रस्वापवादः। ईच्चाभ्यागस्य (7.4.4) इति निवृत्तम्। श्तिपा निर्देशो यङ्लुग्निवृत्त्यर्थ एव - अतास्थपदिति॥
Sudha¶
तिष्ठतेरिदिति । ** **णौ चङ्युपधाया ह्रस्वः (7.4.1) इत्यनुवर्तते । तदाह - उपधाया इति । “अतिष्ठिपत् “ । स्थाधातोर्णिचि ण्यन्तत्वात् णिश्रिद्रुस्रुभ्यः कर्तरि चङ् (3.1.48) इति चङि अनुबन्धलोपे ‘णिच्यच आदेशो न स्यात्, द्वित्वे कार्ये’ इति निषेधात् इत्वापेक्षया पूर्व चङि (6.1.11) इति द्वित्वे अभ्यासत्वे शर्पूर्वाः खयः (7.4.61) इति सलोपेऽभ्यासह्रस्वे चर्त्वे णौ चङ् युपधाया ह्रस्वः (7.4.1) इति उपधाया ह्रस्वे णेरनिटि (6.4.51) इति णिलोपे सन्वल्लघुनि चङ्परेऽनग्लो (7.4.93) इति इत्वे षत्वे ष्टुत्वे तिष्ठतेरित् (7.4.5) इति इत्वे च “अतिष्ठिपत्” इति रूपम् । अत्र केचित् ओणृ अपनयने, इत्यत्र ॠदित्करणाल्लिङ्गात् उपधाकार्यं द्वित्वात्प्रबलम् इति कल्पनया पूर्वं तिष्ठतेरित् (7.4.5)इति इत्वं, ततो द्वित्वम् - इति न समीचिनमिति प्रामाणिकाः । तत्र प्रमाणमन्यत्र स्पष्टम् ।
Sutra Prayogas¶
प्रातिष्ठिपच्च (भट्टिकाव्यम्): तिष्टतेरित् इतीत्वम्।