73119: अच्च घेः¶
Padacheda: अत् | S | 1 | 1 |
च | S | 0 | 0 |
घेः | S | 5 | 1 |
Sutrartha¶
घिसंज्ञकात् इकारान्त-उकारान्तशब्दात् परस्य ङि-प्रत्ययस्य औत्-आदेशः भवति, तथा घिसंज्ञकस्य अङ्गस्य अन्तिमवर्णस्य अकारादेशः भवति ।
ये हस्व-इकारान्त-उकारान्तशब्दाः नदीसंज्ञां न प्राप्नुवन्ति, तेषां शेषो घ्यसखि (1.4.7) अनेन सूत्रेण घिसंज्ञा भवति । यथा - मुनि, साधु आदयः । हस्व-इकारान्तस्त्रीलिङ्गशब्दानाम् (यथा - मति), तथा हस्व-उकारान्तस्त्रीलिङ्गशब्दानाम् (यथा धेनु) अपि ङि-प्रत्यये परे अनेनैव सूत्रेण विकल्पेन घि-संज्ञा भवति । एतेषाम् सर्वेषाम् परस्य ङि-प्रत्ययस्य अनेन सूत्रेण ‘औ’ आदेशः भवति, तथा च एतेषामङ्गस्य अन्तिमवर्णस्य अकारादेशः भवति । यथा - मुनि + ङि [सप्तम्येकवचनस्य प्रत्ययः] → मुन + औ [अच्च घेः (7.3.119) इति ङि-प्रत्ययस्य औत्-आदेशः तथा अङ्गस्य अकारादेशः] → मुनौ [वृद्धिरेचि (6.1.88) इति वृद्धि-एकादेशः] अनेनैव प्रकारेण मतौ, धेनौ, साधौ एतानि रूपाणि सिद्ध्यन्ति । स्मर्तव्यम् - ह्रस्व-इकारान्तस्त्रीलिङ्गशब्दाः ह्रस्व-उकारान्तस्त्रीलिङ्गशब्दाश्च ङिति ह्रस्वश्च (1.4.6) इत्यनेन ङित्-प्रत्यये परे विकल्पेन नदीसंज्ञां प्राप्नुवन्ति । अतः - (अ) नदीसंज्ञापक्षे तेभ्यः परस्य ‘ङि’-प्रत्ययस्य इदुद्भ्याम्**(7.3.118) इत्यनेन आम्-आदेश भवति । अतः मति + ङि = मत्याम् इति रूपं सिद्ध्यति । (आ) नदीसंज्ञायाः अभावपक्षे तेषाम् **शेषो घ्यसखि (1.4.7) इत्यनेन घि-संज्ञा भवति । अतः तेभ्यः परस्य ‘ङि’-प्रत्ययस्य **औत्**(7.3.119) इत्यनेन औ-आदेश भवति । अतः मति + ङि = मतौ इति अपि रूपं सिद्ध्यति ।
Sutrartha (English)¶
The ङि-प्रत्यय that comes after a घिसंज्ञक इकारान्त/उकारान्त word gets औ-आदेश, and the भवति, and the last letter of the घिसंज्ञक अङ्ग gets an अकारादेश ।
Vasu English Summary¶
After a घि – शेषो घ्यसखि (1.4.7), अङ्ग (stem) ending in short इ or उ , औ is substituted for the इ of the Locative -7th case singular and अ is substituted for the final of such a घि अङ्ग (stem).
Vasu English Translation¶
After a घि – शेषो घ्यसखि (1.4.7), अङ्ग (stem) ending in short इ or उ , औ is substituted for the इ of the Locative -7th case singular and अ is substituted for the final of such a घि अङ्ग (stem). As अग्नौ, वायौ, कृतौ, धेनौ, पटौ ॥ The short अ is substituted, in order to prevent the टाप् affix in the Feminine. Those who read 118 and 119 combined as औदच्च घेः translate it thus: “After every other stem ending in इ and उ (i. e. which is not a Nadi), औ is substituted for the Locative Singular इ, whereby for the final of Ghi stems, अ is substituted”. They do so on the analogy of the sutra कर्तुः क्यङ् सलोपश्च (3.1.11).
Bhashya¶
अच्च घेः औत्वे योगविभागः औत्वे योगविभागः कर्तव्यः । औत् । औद्भवतीदुभ्द्याम् । ततः अच्च घेरिति । अकारश्च भवति घेरिति ॥ किमर्थो योगविभागः ? सखिपतिभ्यामौत्त्वार्थः(2) सखिपतिभ्यामौत्त्वं यथा स्यात् । सख्यौ पत्यौ एकयोगे ह्यप्राप्तिरत्त्वसन्नियोगात् एकयोगे हि सत्यौत्त्वस्याऽप्राप्तिः ॥ किं कारणम्? ॥ अत्त्वसन्नियोगात् । अत्त्वसन्नियोगेनौत्त्वमुच्यते तेन यत्रैवात्वं तत्रैवौत्त्वं स्यात् नवाऽकारस्याऽन्वाचयवचनाद्यथा क्यङि सलोपः न वाऽर्थ औत्त्वे योगविभागेन ॥ किं कारणम् ? ॥ अकारस्यान्वाचयवचननात्(3) । प्रधानशिष्टमौत्त्वमन्वाचयशिष्टमत्त्वम् । यथा क्यङि सलोपः । तद्यथा प्रधानशिष्टः क्यङ् प्रातिपदिकमात्राद्भवति । यत्र च सकारस्तत्र लोपः ॥ अत्त्वे टाप्प्रतिषेधः अत्त्वे टापः प्रतिषेधो वक्तव्यः शकटौ पद्धतौ धेनौ । अत्वे कृते (ठऽत इति(4)) टाप् प्राप्नोति न वा सन्निपातलक्षणस्याऽनिमित्तत्वात् न वा वक्तव्यः । किं कारणम् ? ॥ सन्निपातलक्षणस्याऽनिमित्तत्वात् । सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्येत्येवं न(5) भविष्यति डित्करणाद्वा(6) अथ वा डिदौकारः करिष्यते - औ डिच्च घेः ।
Kashika¶
औदिति वर्तते। घिसंज्ञकादुत्तरस्य ङेरौकारादेशो भवति, तस्य च घेरकारादेशो भवति। अग्नौ। वायौ। कृतौ। धेनौ। पटौ। अदिति तपरकरणं स्त्रियां टापो निवृत्त्यर्थम्। औदच्च घेरिति येषामेकमेवेदं सूत्रम्, ते प्रधानशिष्टमिदुद्भ्यामौत्वं वर्णयन्ति, अन्वाचयशिष्टं घेरकारमिति ॥
Siddhanta Kaumudi¶
इदुद्भ्यामुत्तरस्य ङेरौत्स्याद् घेरन्तादेशश्चाकारः । हरौ । हर्योः । हरिषु । एवं श्रीपत्यग्निरविकव्यादयः ॥
Laghu Siddhanta Kaumudi¶
इदुद्भ्यामुत्तरस्य ङेरौत्, घेरच्च। हरौ। हरिषु। एवं कव्यादयः॥
Balamanorama¶
औदच्च घेः - ॒हरि इ॑ इति स्थितेघेर्ङिती॑ति गुणे प्राप्ते — अच्च घेः । ङेरामि॑त्यतोङे॑रित्यनुवर्तते ।इदुद्भ्या॑मितिऔ॑दिति च सूत्रमनुवर्तते । तदाह — इदुद्भ्यामिति । अन्तादेश इति । अलोऽन्त्यपरिभाषालभ्यमेतत् । वृद्धिरिति । हर-औ इति स्थिते वृद्धिरेची॑ति वृद्धौ, हरौ इति रूपमित्यर्थः । हरिष्विति ।आदेशप्रत्यययो॑रिति षत्वम् । अथ सखिशब्दात्सुः । सखि-स् इति स्थिते ।
Tattvabodhini¶
औदच्च घेः - अच्च घेः । अत्र॒इदुद्भ्याम्,औ॑दितिडेरा॑मित्यतोङे॑रिति च पदत्रयमनुवर्तत इत्याशयेन व्याचष्टे-इदुद्भ्यां परस्य ङेरौत्स्यादिति ।घेरुत्तरस्ये॑ति प्राचां व्याख्यानमिह तु नोक्तम् । सूत्रेघे॑रित्यस्य षष्ठन्तत्वात्, तन्त्रावृत्त्यादौ च प्रमाणाऽभावात् ।ओ॑दिति पूर्वसूत्रेइदुभ्द्यामुत्तरस्य ङे॑रिति कॢप्तम्बन्धस्य त्यागाऽयोगाच्च । यत्तु व्याचख्युः — ॒अ॑दिति तपरत्वंबुद्धा॑ वित्यादावत्त्वे कृते स्त्रियां टाब्मा भूदित्येतदर्थमिति; । तच्चिन्त्यम् । तपरग्रहणाद्धि टापा सह दीर्घो मा भूट्टाप्तु स्यादेव, लक्षणद्वयबाधे मानाऽभाबात् । अतएवकृन्मजन्त॑इति सूत्रे भाष्यादौ संनिपातपरिभाषयापद्धता॑वित्यत्र टान्मेत्युक्तम्, टापा व्यवधाने ह्रानन्तर्यविघातः स्यादिति । तपकरणाट्टबभावे तु संनिपातपरिभाषेपन्यासस्तत्र विरुध्यते । यदपि व्याचख्युः — ॒औतस्तकारः स्परितार्थ॑इति, तदपि न ।स्तीर्णे बर्हिषि समिधाने अग्नौ॑ इत्यादौ स्वरितत्वाऽदर्शनात् ।न विभक्तौ इति सूत्रे ङे रौतस्तु तकार उच्चारणार्थो नेत्संज्ञक इति स्वयमेव उक्तत्वाच्च । तस्मादुभयत्र तपरकरणमुच्चारणार्थमेवेति मनोरमायां स्थितम् ।॑
Padamanjari¶
कृतौ, धेनाविति । अथात्रात्वे कृते ठजाद्यतष्टाप्ऽ इति टाप्कस्मान्न भवति, अस्तु को दोषः ?’डेराम्नद्याम्नीभ्यः’ ,’याडापः’ इत्येतौ विधी प्राप्नुतः, औत्वविधानं तु पुंसि चरितार्थम् ? अत आह - तपरकरणं स्त्रियामापो निवृत्यर्थमिति । इह हि स्थानिनो मात्रिकत्वाद्भाव्यमानत्वाच्चाणो दीघस्य प्रसङ्गो नास्ति, यस्य निवृत्यर्थं तपरकरणं स्यात् । तस्माच्छास्त्रन्तरेणापि दीर्घो मा भूदित्येवमर्थं तपरकरणं क्रियते, एतच्च सन्निपातपरिभाषामनाश्रित्योक्तम् । ङसिन्निपातकृतं ह्यत्वं तद्विघातकस्य टापो निमितं न भवति । औदच्च घेरिति येषामित्यादि । इह केचित् ठौदच्च घेःऽ इत्येकयोगमेवाधीयते, तत्र यदि समुच्चये चशब्दः स्यात्, यत्रात्वं तत्रैवौत्वं स्यात् - धेनाविति; घेश्चात्वमित्यघौ सख्यौ, पत्यावित्यत्रौत्वमपि न स्यात्, अस्य दोषस्य निवृतये प्रधानशिष्टमौत्वमन्वाचयशिष्टमत्वमिति वर्णयन्ति । तत्र यथा’कर्तुः क्यङ् सलोपश्च’ इत्यत्र सलोपस्यान्वाचयशिष्टस्याभावेऽपि श्येनायत इत्यादौ क्यङ् भवति, तथा अत्रापि सख्यौ, पत्यावित्यत्वाभावेऽपि औत्वं भवतीत्यर्थः ॥
Praudhamanorama¶
‘इदुद्भ्याम्’इति ‘ङे’ इति ‘औत्’इति च पदत्रयमनुवर्तते इत्याशयेन व्याचष्टे—
Prakriyasarvasvam¶
घेः परस्य ङेरौत् स्याद् घेरत्त्वं च । हर औ । वृद्धिः । हरौ । हरिषु । सखि स्,
Sarala¶
(इदुद्भ्यामुत्तरस्य ङेरौत् स्यात्, घेरन्तादेशश्चाऽकारः) । अच्च घेः । अत् - प्रथमान्तं, घेः - षष्ठ्यन्तम् । इदुद्भ्याम् (७.३.११७) इति, ङेराम्नद्याम्नीभ्यः (७.३.११६) इत्यतो “ङे”रिति, “औ”दिति चानुवर्त्तते तदाह - इदुद्भ्यामिति ॥
Sudha¶
अच्च घेरिति । ङेराम्नद्याम्नीभ्यः**(7.3.116) इत्यतो ङेरित्यनुवर्तते । **इदुद्भ्याम्**(7.3.117) इति **औत्**(7.3.118) इति च सूत्रमनुवर्तते । तदाह - **इदुद्भ्यामित्यादिना । हरौ । हरिशब्दात् सप्तम्येकवचनविवक्षायां ङिसमायते ङस्येत्सञ्ज्ञायां लोपे च “हरि-इ” इति स्थिते शेषो घ्यसखि**(1.4.7) इति घिसञ्ज्ञायाम् **अच्च घेः**(7.3.119) इत्यनेन ङे स्थाने औकारे, घिसञ्ज्ञकस्य - “हरि” इत्यस्य स्थाने अकारे प्राप्ते **अलोऽन्त्यस्य**(1.1.52)’ इत्यनेन रेफोत्तरवर्तिन इकारस्य स्थानेऽकारे च विहिते “हर-औ” इति जाते ‘वृद्धिरेचि>> इति वृद्धौ “हरौ” इति रूपम् । **हर्योः । षष्ठीद्विवचनवद्बोध्यम् । हरिषु । “हरि-सु” इति दशायाम् **आदेशप्रत्यययोः**(8.3.59) इति षत्वे “हरिषु” इति ।