73120: आङो नाऽस्त्रियाम्¶
Padacheda: आङः | S | 6 | 1 |
ना | S | 1 | 1 |
अस्त्रियाम् | S | 7 | 1 |
Sutrartha¶
पुंलिङ्ग-नपुंसकलिङ्ग-घिसंज्ञकात् परस्य तृतीयैकवचनस्य टा-प्रत्ययस्य ‘ना’ आदेशः भवति ।
यः घिसंज्ञकः शब्दः पुँल्लिङवाची नपुंसकलिङ्गवाची वा अस्ति, तस्मात् परस्य तृतीयैकवचनस्य टा-प्रत्ययस्य ‘ना’ इति आदेशः भवति । यथा - साधु + टा → साधुना । अत्र ‘अस्त्रियाम्’ इति किमर्थमुक्तम्? इकारान्त-उकारान्त-स्त्रीलिङ्गशब्दाः अपि नित्यं घिसंज्ञकाः भवन्ति । अतः ‘मति + टा’ इत्यत्र अनेन सूत्रेण ‘ना’-आदेशः मा भूत् इति स्पष्टीकर्तुमत्र ‘अस्त्रियाम्’ इति उक्तमस्ति । अतः ‘मति + टा’ इत्यत्र केवलं यणादेशे कृते ‘मत्या’ इति रूपं सिद्ध्यति । ज्ञातव्यम् - अस्मिन् सूत्रे प्रयुक्तम् ‘आङ्’ इति ‘टा’ प्रत्ययस्यैव अन्यत् नाम । पूर्वाचार्यैः टा-प्रत्ययस्य आङ्-इति उल्लेखः कृतः अस्ति, अतः पाणिनिः अपि केषुचन स्थलेषु ‘टा’ इत्यस्य स्थाने आङ्-इति वदति । परन्तु अयं प्रत्ययः टित्-अस्ति, ङित्-नास्तीति स्मर्तव्यम् ।
Sutrartha (English)¶
The आङ्-प्रत्यय that comes after a non-feminine घिसंज्ञक अङ्ग is converted to ‘ना’.
Vasu English Summary¶
ना is substituted for the ending आ of the Instrumental -3rd case singular, after the घि अङ्ग (stems) when they are not feminine.
Vasu English Translation¶
ना is substituted for the ending आ of the Instrumental -3rd case singular, after the घि अङ्ग (stems) when they are not feminine. As अग्निना, वायुना, पटुना ॥ Why do we not say आङो मा पुंसि ‘मा is substituted for आ in the Masculine’? Answer: In order to form the neuter Instrumentals also, as त्रपुणा, जतुना ॥ Objection: These can be formed by the augment नुम् under rule (7.1.73), and not by the ना of this sutra. Answer: But अमुना will not be so formed as अमुना ब्राह्मणकुले ॥ Because सु substituted for दस् of अदस् (8.2.80) is considered as asiddha or non-existent (8.2.1) for the purposes of the application (7.1.73), and as अमु cannot take नुम्, it will take ना by this rule. Why do we say “not in the Feminine?” Observe कृत्या, धेन्वा ॥
Bhashya¶
आङो नाऽस्त्रियाम् किमर्थमस्त्रियामित्युच्यते नाऽऽङो ना पुंसीत्येवोच्येत ? ॥ का रूपसिद्धिः - त्रपुणा जतुना ? ॥ नुमा सिद्धम् ॥ नैवं शक्यम् इह ह्यमुना ब्राह्मणकुलेनेति मुभावस्याऽसिद्धत्वान्नुम्न स्यात् । अस्त्रियामिति पुनरुच्यमाने न दोषो भवति ॥ कथम्(1) ? ॥ वक्ष्यत्येतत्नमुटादेशःइतीति श्रीमद्भगवत्पतञ्ञ्जलिविरचिते सप्तमस्य तृतीये द्वितीयमाह्निकम् ॥ पादः समाप्तः
Kashika¶
घेरुत्तरस्याङो नाभावो भवत्यस्त्रियाम्। अग्निना। वायुना। पटुना। पुंसि इति नोक्तम् — अमुना ब्राह्मणकुलेन। अस्त्रियामिति किम्? कृत्या। धेन्वा॥
॥ इति श्रीवामनविरचितायां काशिकायां वृत्तौ सप्तमाध्यायस्य तृतीयः पादः॥
Siddhanta Kaumudi¶
घेः परस्याङो ना स्यादस्त्रियाम् । आङिति टासञ्ज्ञा प्राचाम् । हरिणा । अस्त्रियां किम् । मत्या ॥
Laghu Siddhanta Kaumudi¶
घेः परस्याङो ना स्यादस्त्रियाम्। आङिति टासंज्ञा। हरिणा। हरिभ्याम्। हरिभिः॥
Balamanorama¶
आङो नाऽस्त्रियाम् - आङो । घेः परस्येति । ‘अच्च घेः’ इत्यतो घिग्रहणानुवृत्तेरिति भावः । हरिणेति । नादेशेअट्कुप्वा॑ङिति णत्वम् । नन्वाङो विहितो नाभावः कथं टा इत्यस्य स्यादित्यत आह — आङितीति । प्राचामाचार्याणां शास्त्रे संञ्ज्ञैषेत्यर्थः । मत्येति ।स्त्रियां क्ति॑निति क्तिन्नन्तमतिशब्दस्य स्त्रीलिङ्गत्वान्नाभावो नेति भावः । हरिभ्याम् । हरिभिः । हरि-ए इति स्थिते ।
Tattvabodhini¶
आङो नाऽस्त्रियाम् - आङो ना ।पुंसी॑ति तु नोक्तम्,अमुना कुलेने॑त्यत्र यथा स्यात् । न च नुमा रूपसिद्धिः, मुत्वास्याऽसिद्धत्वाइकोऽची॑ति नुमोऽप्रवृत्तेः । नादेशे तु नाऽसिद्धत्वम् ।न मुने॑ इति निषेधात् । नचन मु ने॑ इति निषेधो नुम्येव किं न स्यात्,-॒न॑ इत्यकारस्याऽविवक्षितत्वादिति वाच्यम्,अमुना घटेने॑त्याद्यसिद्ध्यापत्तेः ।अमुष्मै कुलाये॑त्यादौ नुम्प्रसङ्गाच्च । न च तत्रस्मायादेशे सति नुमोऽप्रवृत्तिरिति शङ्क्यं, स्मायादेशं बाधित्वा परत्वान्नुमः प्रवृत्तेः । प्राचामिति ।आचार्याणा॑मिति शेषः ।
Padamanjari¶
ठाङ्ःऽ इति स्थान्यन्तरस्योपादानाद् घेरिति षष्ठी पञ्चम्या विपरिणम्यत इत्याह - घेरुतरस्येति । अथ किमर्थमस्त्रियामित्युच्यते, ठाङे ना पुंसिऽ इत्येवोच्येत, एवं हि मात्रया लाघवं भवति, इष्ट्ंअ च सिध्यति ? एवमुच्यमाने त्रपुणा, जतुनेत्यत्र नपुंसके न प्राप्नोति । मा भून्नाभावः, ठिकोचि विभक्तौ, इति नुमि कृते सिद्धमिष्टम् ? अत आह - पुंसीति नोक्तमित्यादि । अमुना ब्राह्मणकुलेनेति ।’पुंसि’ इत्युच्यमाने नाभावो न स्यात् । नुमपीग्लक्षणो नास्ति; मुत्वस्यासिद्धत्वात् । ठस्त्रियाम्ऽ इत्युच्यमाने नपुंसकेऽपि नाभावो भवति । नाभावे कर्तव्ये मुत्वस्यासिद्धत्वं नास्ति ।’न मुने’ इति प्रतिषेधादिति’नपुंसके’ इत्युच्यमानेऽपि न सिध्यति । तस्मादस्त्रियामित्येव वक्तव्यमिति ॥
Nyaas¶
आङ इति स्थान्यन्तरनिर्देशादिहार्थाद्विभक्तिविपरिणामो भवतीति षष्ठन्तं यद्घेरिति प्रकृतं तदिह पञ्चम्यन्तमुपजायत इत्याह - घेरुत्तरस्य इत्यादि। अथ किमरथम्? अस्त्रियाम् इत्युच्यते, आङो ना पुंसि इत्येवोच्येत; एवमुच्यमाने त्रपुणा जतुनेत्येतन्न सिध्यतीत्येतच्च नाशङ्कनीयम्; इकोऽचि विभक्तौ (7.1.73) इति नुमैव सिद्धत्वात्? इति यो मन्येत, तं निराकर्त्तुम् - अमुना ब्राआहृणकुलेन इत्यस्योपन्यासः। अत्र हि त्यदाद्यत्वे कृते **अदसोऽसेर्दादु दो मः** (8.2.80) इत्युत्त्वमत्वे च। तत्र यदि पुंसीत्युच्यते, ततोऽमुनेति नपुंसके न सिध्येत्; मुभावस्यासिद्धत्वात्। नुमोऽभावात्? `अस्त्रियाम् इत्युच्यमाने नपुंसकेऽपि नाभावो भवतीत्यमुनेति सिद्धं भवति। न हि नाभावे कर्तव्ये मुभावस्यासिद्धत्वम्; न मु ने (8.2.3) इति वचनादत्यभिप्रायः॥ इति बोधिसत्त्वदेशीयाचार्य श्रीजिनेन्द्रबुद्धिपादविरचितायांकाशिकाविवरणपञ्जिकायां सप्तमाध्यायस्यतृतीयः पादः- - -अथ सप्तमोऽध्यायःचतुर्थः पादः
Praudhamanorama¶
पुंसीति तु नोक्तम्, अमुना कुलेनेत्यत्र यथा स्यात्। न च नुमा रूपसिद्धिः। मुत्वस्यासिद्धत्वात् ‘इकोऽचि’ इति नुमोऽप्राप्तेः। नादेशे तु नासिद्धत्वं ‘नमुने’ इति निषेधात्। न च ‘नमुने’ इति निषेधो नुम्येवास्तु, ने इत्यकारस्योच्चारणार्थत्वादिति वाच्यम्. अमुष्मै कुलायेत्याद्यसिध्यापत्तेः।
Prakriyasarvasvam¶
आङिति टा कथ्यते । घेः परस्याङोऽस्त्रियां ना स्यात् । हरिणा । हरिभ्याम् । हरिभिः ॥
Sarala¶
अच्च घेः (७.३.११९) इत्यनुवर्त्तते, तदाह - घेः परस्येति ॥
Sudha¶
आङो नेति । अच्च घेः**(7.3.119) इत्यतो घिग्रहणानुवृत्तेर्घेः परस्य आङो ना स्यादस्त्रियामित्यर्थः । **प्राचामिति **- आचार्याणामिति शेषः । **हरिणा हरिशब्दात् तृतीयैकवचनविवक्षायां टासमागते **शेषो घ्यसखि**(1.4.7) इत्यनेन हरिशब्दस्य घिसंज्ञायाम् **आङो नाऽस्त्रियाम्**(7.3.120) इत्यनेन घिसंज्ञकात् हरिशब्दात् परस्य आङः टाइत्यस्य नादेशे कृते “हरिना” इति जाते **अट्कुप्वाङ्नुम्व्यवायेऽपि**(8.4.2) इत्यनेन णत्वे “हरिणा” इति रूपम् । तृतीयाद्विवचनबहुवचने - हरिभ्याम्, हरिभिः इति ।