73118: औत्

Padacheda: औत् | S | 1 | 1 |

Sutrartha

इकारान्त-उकारान्त-शब्दात् परस्य ङि-प्रत्ययस्य औत्-आदेशः भवति ।

सर्वेभ्यः इकारान्त-उकारान्त-शब्देभ्यः परस्य ङि-प्रत्ययस्य औत्-आदेशः भवति । ‘औत्’ इत्यत्र तकारः केवलं उच्चारणार्थः अस्ति , अतः आदेशरूपेण केवलं ‘औ’ वर्णः आगच्छति । यथा - सखि + ङि [सप्तम्येकवचनस्य प्रत्ययः] → सखि + औ [औत् (7.3.118) इत्यनेन ङि-प्रत्ययस्य औ-आदेशः] → सख्यौ + औ [इको यणचि (6.1.77) इति यणादेशः ।] ज्ञातव्यम् - 1) यद्यपि अस्मिन् सूत्रे ‘इकारान्त/उकारान्तशब्देभ्यः परस्य ङि-प्रत्ययस्य औत्-आदेशः दत्तः अस्ति, तथापि (अ) घिसंज्ञकात् परस्य ङि-प्रत्ययस्य अच्च घेः (7.3.119) इति अग्रिमसूत्रेण आदेशः भवति । (आ) नदीसंज्ञकात् इ/उकारान्तात् परस्य ङि-प्रत्ययस्य इदुद्भ्याम् (7.3.117) इत्यनेन आदेशः भवति । अतः वर्तमानसूत्रस्य प्रयोजनम् केवलं तेषां इकारान्त-उकारान्तशब्दानां कृते अस्ति, येषाम् नदीसंज्ञा अपि न भवति, घिसंज्ञा अपि न भवति । यथा - सखि, पति । 2) अस्मिन् सूत्रे उकारग्रहणस्य किमपि प्रयोजनम् नास्ति, यतः सर्वे उकारान्तशब्दाः घिसंज्ञकाः नदीसंज्ञकाः वा सन्ति ।

Sutrartha (English)

The ङि-प्रत्यय gets औ आदेश when it comes after a ह्रस्व-इकारान्त or ह्रस्व-उकारान्त word.

Vasu English Summary

After a अङ्ग (stem) ending in short इ and उ and which is not नदी – यू स्त्र्याख्यौ नदी (1.4.3) or घि – शेषो घ्यसखि (1.4.7), औ is substituted for the इ of the Locative -7th case singular.

Vasu English Translation

After a अङ्ग (stem) ending in short इ and उ and which is not नदी – यू स्त्र्याख्यौ नदी (1.4.3) or घि – शेषो घ्यसखि (1.4.7), औ is substituted for the इ of the Locative -7th case singular. As सख्यौ, पत्यौ ॥

In the case of नदी words आम् is taught by the previous sutras; in the case of घी words औ preceded by अ substitution of घि letters will be taught in the next sutra, so by the rule of exclusion, the present sutra applies to words other than nadi and ghi.

Bhashya

औत् औत्वे योगविभागः औत्वे योगविभागः कर्तव्यः । औत् । औद्भवतीदुभ्द्याम् । ततः अच्च घेरिति । अकारश्च भवति घेरिति ॥ किमर्थो योगविभागः ? सखिपतिभ्यामौत्त्वार्थः(2) सखिपतिभ्यामौत्त्वं यथा स्यात् । सख्यौ पत्यौ एकयोगे ह्यप्राप्तिरत्त्वसन्नियोगात् एकयोगे हि सत्यौत्त्वस्याऽप्राप्तिः ॥ किं कारणम्? ॥ अत्त्वसन्नियोगात् । अत्त्वसन्नियोगेनौत्त्वमुच्यते तेन यत्रैवात्वं तत्रैवौत्त्वं स्यात् नवाऽकारस्याऽन्वाचयवचनाद्यथा क्यङि सलोपः न वाऽर्थ औत्त्वे योगविभागेन ॥ किं कारणम् ? ॥ अकारस्यान्वाचयवचननात्(3) । प्रधानशिष्टमौत्त्वमन्वाचयशिष्टमत्त्वम् । यथा क्यङि सलोपः । तद्यथा प्रधानशिष्टः क्यङ् प्रातिपदिकमात्राद्भवति । यत्र च सकारस्तत्र लोपः ॥ अत्त्वे टाप्प्रतिषेधः अत्त्वे टापः प्रतिषेधो वक्तव्यः शकटौ पद्धतौ धेनौ । अत्वे कृते (ठऽत इति(4)) टाप् प्राप्नोति न वा सन्निपातलक्षणस्याऽनिमित्तत्वात् न वा वक्तव्यः । किं कारणम् ? ॥ सन्निपातलक्षणस्याऽनिमित्तत्वात् । सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्येत्येवं न(5) भविष्यति डित्करणाद्वा(6) अथ वा डिदौकारः करिष्यते - औ डिच्च घेः ।

Kashika

इदुद्भ्यामुत्तरस्य ङेरौकारादेशो भवति। यद् न नदीसंज्ञं नापि घिसंज्ञमिकारान्तम्, तदिहोदाहरणम्। सख्यौ। पत्यौ॥

Siddhanta Kaumudi

इदुद्भ्यां परस्य ङेरौत्स्यात् । उकारानुवृत्तिरुत्तरार्था । सख्यौ । शेषं हरिवत् ॥ शोभनः सखा सुसखा । सुसखायौ । सुसखायः । अनङ्णिद्वद्भावयोराङ्गत्वात्तदन्तेऽपि प्रवृत्तिः । समुदायस्य सखिरूपत्वाभावात् असखि (SK243)इति निषेधाप्रवृत्तेर्घिसंज्ञा । सुसखिना । सुसखये । ङसिङसोर्गुणे कृते कृतयणादेशत्वाभावात् ख्यत्यात् (SK255)इत्युत्त्वं न । सुसखेः । सुसखावित्यादि । एवमतिशयितः सखा अतिसखा । परमः सखा यस्येति विग्रहे । परमसखा । परमसखायावित्यादि । गौणत्वेऽप्यनङ्णित्त्वे प्रवर्तेते । सखीमतिक्रान्तोऽतिसखिः । लिङ्गविशिष्टपरिभाषाया अनित्यत्वान्न टच् । हरिवत् । इहाऽनङ्णित्त्वे न भवतः । गोस्त्रियो (SK656)रिति ह्रस्वत्वेन सखिशब्दस्य लाक्षणिकत्वात् । [(परिभाषा - ) लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणात्] ॥

Laghu Siddhanta Kaumudi

इतः परस्य ङेरौत्। सख्यौ। शेषं हरिवत्॥

Tattvabodhini

आत्। एतच्च सूत्रं नदीसंज्ञकेषु इदुभ्द्या`मिति पूर्वसूत्रेण बाध्यते। घिसंज्ञकेषु `अच्च घे`रिति उत्तरसूत्रेण। तस्मात्संज्ञाद्वयशून्योऽस्य विषयः। न च तादृश उकारोऽस्तीत्यत आह-उकारनुवृत्तिरिति। प्राचा तु `घिनदीसंज्ञावर्जिताभ्यामिदुभ्द्यां परस्ये`त्युक्तम्?। तदसत्। तादृसत्। तादृशस्योरकारस्याप्रसिद्धेः। सुसखेति। प्रादिसमासे `राजाहः सखिभ्या`इति टचो `न पूजना`दिति निषेधः। `शेषो ध्यसखी`इत्यत्राऽसखीति नायं प्रसज्यप्रतिषधः, असमर्थसमासादिदोषापत्तेः, किं तु पर्युदास एवेति `सुसखी`त्यस्य सखिशब्दभिन्नत्वाद्धिसंज्ञा स्यादेव। न च समुदायस्य सखिशब्दभिन्नत्वेऽपि सखिशब्दान्तभिन्नत्वं नेति कथमसखीति निषेधाऽपर्वृत्तिरिति शङ्क्यम्। विशेष्याऽसंनिधानादसखीत्यत्र `येन विधिस्तदन्तस्ये`त्यस्याऽप्रवृत्तेः। तदेतत्साकलभिग्रेत्याह - समुदायस्येत्यादि। एवमतिसखेत्यत्रापि समासान्तनिषेधादिकं बोध्यम्। गौणत्वेऽपीति। `अतिदन्धे`त्यादावस्थ्याद्यनङ्वदिति भावः। तथा च `येन विधि`रिति सूत्रे `परमसखाया`विति बहुर्वीहिः, तत्पुरुषे हि टचा भाव्यमिति कैथटः। तथा `द्वितीया श्रिते`ति सूत्रे `सोमसखे`ति प्रतीकमुपादाय बहुव्रीहित्वान्न सम#आसान्त इति स एवाह। `अनुद्युक्षोवरुण इन्द्रसखा, अग्ने याहि मरुत्सखा, `तीव्रं सोमं पिबति गोसखाय`मित्यादिप्रयोगाश्चैवमेव सङ्गच्छन्ते। तत्र [तु] बहुव्रीहिप्रयुक्तस्य पूर्वपदप्रकृतिस्वरस्य दर्शनेन गौणत्वात्। एतेन घिसंज्ञासूत्रे शोभनः सखा अस्य सुसखिरित्युदाहरन्तौ हरदत्तन्यासकारौ तदनुगामिनश्चान्ये उपेक्ष्याः। अनित्यत्वादिति। `शक्तिलाङ्गलाङ्कुशे`ति वार्तिके घटघटीग्रहणमत्र लिङ्गम्।

Padamanjari

यन्न नदीसंज्ञमित्यादि । नदीसंज्ञके पूर्वेणाम् विहितः, घिसंज्ञेऽप्युतरेणात्वसंयुक्तमौत्वं वक्ष्यति, तस्मादाभ्यामन्यदेवोदाहरणम् । तत्र पूर्वत्र’घ्यन्तान्नद्यन्तात्’ इत्युक्तम्, इह त्विकारोकारान्तमित्युक्त्म्, संज्ञाविधौ च पक्षद्वयं दर्शितम् - वर्णमात्रस्य संज्ञा, तदन्तस्य वेति; तेन नास्ति विरोधः ॥

Praudhamanorama

एतच्च नदीसंज्ञकेषु ‘इदुद्भ्याम्’ इति पूर्वसूत्रेण बाध्यते, घिसंज्ञकेषु ‘अच्च घेः’ इत्युत्तरसूत्रेण। तस्मात् संज्ञाद्वयशून्योऽस्य विषयः। न च तादृश उकारोऽस्ति, अत आह— उकारेति। यत्तु प्राचा घिनदीसंज्ञावर्जिताभ्यामिदुद्भ्यां परस्येत्युक्तम्। तन्न, तादृशोकारस्याप्रसिद्धेः। समुदायस्येति। न च पर्युदासेऽपि पर्युदस्यमानसमर्पके सखिशब्दे तदन्तग्राहकत्वं शङ्क्यम्, विशेष्यासन्निधानात्। यत्त्विह ‘ग्रहणवता’ इत्याद्युपन्यस्तं हरदत्तेन, यच्च ख्यत्यात्सूत्रे कैयटेन, तन्न, तस्य प्रत्ययविधिविषयत्वात्। गौणत्वेऽपीति। अस्थ्याद्यनङ्वदिति भावः। तथा च ‘येन विधिः’ इति सूत्रे ‘परमसखायाविति बहुव्रीहिः, तत्पुरुषे हि टचा भाव्यम्’ इति कैयटः। तथा ‘द्वितीया श्रित—‘इति सूत्रे सोमसखेति प्रतीकमुपादाय बहुव्रीहित्वान्न समासान्त इति कैयटः। ‘मिदचोऽन्त्यात्’ इति सूत्रे ‘तृज्वत्क्रोष्टुः’ ‘स्त्रियां च’ इति सूत्रे च भाष्यकैयटयोः ख्याधातौ माधवग्रन्थे च स्फुटमेतत्। ‘अनुद्युक्षो वरुण इन्द्रसखा’ ‘आग्नेया हि मरुत्सखा’ ‘तीव्रं सोमं पिबति गोसखायम्’ इत्यदिप्रयोगाश्चैवमेव सङ्गच्छन्ते। तत्र बहुव्रीहिप्रयुक्तस्य पूर्वपदप्रकृतिस्वरस्य दर्शनेन गौणत्वात्। एतेन घिसंज्ञासूत्रे शोभनः सखा यस्य सुसखिरित्युदाहरन्तौ हरदत्तन्याससकारौ तदनुगामिनश्चान्ये उपेक्ष्याः।

Prakriyasarvasvam

इदुद्भ्यां परस्य ङेरौत् स्यात् । तच्च घिनदीत्वहीनयोः सखिपत्योरेव पर्यवस्यति । सख्यौ । हरिवदन्यत् । सख्यन्तस्य बहुव्रीहेस्तु अङ्गाधिकारे तदन्तविधेः ‘सख्युरसम्बुद्धौ’ (७-१-९२) इति णित्त्वमस्ति । अन्यत्र प्रातिपदिकग्रहणे तदन्तविध्यभावादसखीति घित्वनिषेधो न । बहुसखा । बहुसखायौ । बहुसखिना । बहुसखये । बहुसखेः । बहुसखौ । एवं किंसखा किंसखिनेत्यादिष्वपि समासान्त- रहितेषूह्यम् ॥

Sudha

औदिति । अत्र इदुद्भ्याम्**(7.3.117) इति सूत्रमनुवर्तते । **ङेराम्नद्याम्नीभ्यः**(7.3.116) इत्यतो ङेरिति च । इदुद्भ्यां परस्य ङेरौत्स्यादित्यर्थः । **सख्यौ । सखिशब्दात्सप्तम्येकवचनविवक्षायां ङिसमागते डकारस्येत्सञ्ज्ञायां लोपे च “सखि-इ” इति जाते । तत्र ङेरिकारस्य स्थाने **औत्**(7.3.118) इति “औ” आदेशे **इको यणचि**(6.1.77) इति यणि सख्यौ इति रूपम् । सप्तमीद्विवचनबहुवचने सख्योः, सखिषु । पतिशब्दस्य द्वितीयाबहुवचनपर्यन्तं हरिशब्दवत् साधनिका, रूपाणि च - पतिः, पती, पतयः प्रथमा । हे पते, हे पती, हे पतयः सम्बोधनम् । पति, पती, पतीन् द्वितीया ।