73111: घेर्ङिति

Padacheda: घेः | S | 6 | 1 |

ङिति | S | 7 | 1 |

Sutrartha

घि-संज्ञकस्य अङ्गस्य ङित्-प्रत्यये परे गुणादेशः भवति ।

ये ह्रस्व-इकारान्त-उकारान्तशब्दाः नदीसंज्ञां न प्राप्नुवन्ति, तेषां शेषो घ्यसखि (1.4.7) अनेन सूत्रेण घिसंज्ञा भवति । यथा - मुनि, साधु आदयः । ह्रस्व-इकारान्तस्त्रीलिङ्गशब्दानाम् (यथा - मति), तथा ह्रस्व-उकारान्तस्त्रीलिङ्गशब्दानाम् (यथा धेनु) अनेनैव सूत्रेण विकल्पेन घि-संज्ञा भवति । घिसंज्ञकस्य अङ्गस्य ङित्-प्रत्यये परे (इत्युक्ते ङे / ङसिँ / ङस् प्रत्यये परे) गुणादेशः भवति । इत्युक्ते, इकारस्य एकारः तथा उकारस्य ओकारः आदेशः भवति । यथा - 1) मुनि + ङे → मुने + ए [घेर्ङिति (7.3.111) इति गुणः] → मुनये [एचोऽयवायावः (6.1.78) इति अयादेशः] 2) साधु + ङसिँ → साधो + अस् [घेर्ङिति (7.3.111) इति गुणः] → साधोः [ङसिँङसोश्च (6.1.110) इति पूर्वरूप-एकादेशः । विसर्गनिर्माणम् ।] ज्ञातव्यम् - 1) यद्यपि सप्तम्येकवचनस्य प्रत्ययः ङित्-अस्ति, तथापि तस्मिन् परे अस्य सूत्रस्य अपवादरूपेण अच्च घेः (7.3.119) इत्यस्य प्रसक्तिः भवति । अत्र इदम् सूत्रम् केवलं ङे / ङसिँ / ङस् -प्रत्ययानामुपस्थितौ एव प्रयुज्यते । 2) ह्रस्व-इकारान्तस्त्रीलिङ्गशब्दाः ह्रस्व-इकारान्तस्त्रीलिङ्गशब्दाः ह्रस्व-उकारान्तस्त्रीलिङ्गशब्दाश्च ङिति ह्रस्वश्च (1.4.6) इत्यनेन ङित्-प्रत्यये परे विकल्पेन नदीसंज्ञां प्राप्नुवन्ति । अतः - (अ) नदीसंज्ञापक्षे तेभ्यः परस्य ङित्-प्रत्ययस्य आण्नद्याः (7.3.112) इत्यनेन आट्-आगमः भवति । अतः मति + ङे = मत्यै इति रूपं सिद्ध्यति । एवमेव पञ्चमी-षष्ठी-एकवचनस्य ‘मत्याः’ रूपमपि सिद्ध्यति । (आ) नदीसंज्ञायाः अभावपक्षे तेषाम् शेषो घ्यसखि (1.4.7) इत्यनेन घि-संज्ञा भवति, अतः तेषामङ्गस्य ङित्-प्रत्यये परे घेर्ङिति (7.3.111) इत्यनेन गुणादेश भवति । अतः मति + ङे = मयते इति अपि रूपं सिद्ध्यति । एवमेव पञ्चमी-षष्ठी-एकवचनस्य ‘मतेः’ रूपमपि सिद्ध्यति ।

Sutrartha (English)

A घि-संज्ञक अङ्ग gets a गुणादेश in presence of a ङित्-प्रत्यय.

Vasu English Summary

For the इ and उ of the stems called घि – यू स्त्र्याख्यौ नदी (1.4.3), गुण is substituted in the Dative -4th Case, Ablative -5th case and Genitive 6th-Case singular.

Vasu English Translation

For the इ and उ of the stems called घि – यू स्त्र्याख्यौ नदी (1.4.3), गुण is substituted in the Dative -4th Case, Ablative -5th case and Genitive 6th-Case singular. As अग्नये, वायवे, आग्नेः, वायोः, (6.1.110). Why of घि stems? Observe सख्ये, पत्ये ॥ Why in the Singulars of the Dative, Ablative and Locative only? Observe अग्निः-भ्याम् ॥ The word case ending (सुपि) is understood here also, as the counter-examples are पट्वी, कुरुतः ॥

The word पट्वी is formed by adding ङीष् to पटु (4.1.44). ङीष् is not a case-affix, though it is ङित् and is added to पटु which is घि ॥ कुरुतः is no proper example: for though तस् which is added to कुरु is ङित्, it is only so by atidesa (सार्वधातुकमपित्), and moreover कुरु is not घि ॥

Bhashya

घेर्ङिति घेर्ङितिगुणविधाने ङीसार्वधातुके प्रतिषेधः घेर्ङितिगुणविधाने ङीसार्वधातुके प्रतिषेधो वक्तव्यः । पट्वी मृद्वी कुरुत इति सुबधिकारात्सिद्धम् (सुबधिकारात्सिद्धम्) । सुबिति वर्तते ॥ क्व प्रकृतम् ? ॥ सुपि च बहुवचने झल्येदिति ॥ (घेर्ङिति) ॥

Kashika

घ्यन्तस्याङ्गस्य ङिति प्रत्यये परतो गुणो भवति। अग्नये। वायवे। अग्नेरागच्छति। वायोरागच्छति। अग्नेः स्वम्। वायोःस्वम्। घेरिति किम्? सख्ये। पत्ये। ङितीति किम्? अग्निभ्याम्। सुपीत्येव — पट्वी। कुरुतः॥

Siddhanta Kaumudi

घिसंज्ञकस्य ङिति सुपि गुणः स्यात् । हरये । घेः किम् । सख्ये । ङिति किम् । हरिभ्याम् । सुपि किम् । पट्वी । घेर्ङिती (SK245)ति गुणे कृते ॥

Laghu Siddhanta Kaumudi

घिसंज्ञस्य ङिति सुपि गुणः। हरये। हरिभ्याम्। हरिभ्यः॥

Balamanorama

घेर्ङिति - घेर्ङिति ।सुपि चे॑त्यतःसुपी॑तिह्रस्वस्ये॑त्यतो ‘गुण’ इति चानुवर्तते । तदाह-घिसंज्ञकस्येत्यादिना । यणोऽपवादः । हरये इति । गुणे यादेशः । सुपि किं पट्वीति ।वोतो गुणवचना॑दिति ङीष् । तस्य ङित्त्वेऽपि सुप्त्वाऽभावात्तस्मिन् परतो न गुण इत्यर्थः । नचघेङी॑त्येव सूत्र्यताम्, इद्ग्रहणं न कर्तव्यम्,यस्मिन् विधि॑रिति परिभाषया ङकारादौ सुपीत्यर्थलाभादिति वाच्यम्, एवं सति ‘आण्नद्याः’ इत्यत्रापि ङीत्येवानुवृत्तौ ङकारादेराम आङ्विधीयेत । ततश्चमत्या॑मित्यत्र आण्न स्यात् । आमो ङादित्वाऽभावात् । नच स्थानिवद्भावेन ङादित्वं शङ्क्यम् । अल्विधित्वात् । स्थानिनो ङेर्ङकारस्य इत्संज्ञालोपाभ्यामपह्मतत्वेन आम्स्थान्यल्त्वाऽभावात्, अनुबन्धानामनेकान्तत्वात् । एकान्तत्वपक्षे ।ञपि अल्ग्रहणेन अनुबन्धस्य ग्रहणं न भवति,अनेकाल्शित्सर्वस्ये॑त्यत्र शिद्ग्रहणाज्ज्ञापकात् । अन्यथा ‘इदम इ’ शित्यादिशितां शकारेणानुबन्धेन सहानेकाल्त्वादेव सिद्धे किं तेन । अतएव तिबाद्यादेशेषु पित्त्वादि सिध्यति । अत एव तिबाद्यादेशेषु पित्त्वादि सिध्यति । अत एवसेह्र्रपिच्चे॑त्यत्र अपिदित्यर्थवत् । अन्यथा पित्कार्यस्याऽल्विध#इत्वात्तत्र स्थानिवद्भावस्यैवाऽप्रसक्त्या हेः पित्त्वस्यैवाऽप्रसक्तौ किं तन्निषेधेन । तदिदं स्थानिवत्सूत्रे शब्देन्दुशेखरे प्रपञ्चितम् । गुणे कृते इति ।ङसिङसो॑रिति शेषः । हरे-अस् इति स्थितेऽपदान्तत्वात्एङः पदान्ता॑दिति पूर्वरूपे अप्राप्ते, अयादेशे प्राप्ते — ।

Padamanjari

ध्यन्तस्याङ्गस्येति ।’वर्णमात्रस्य घिसंज्ञा’ इत्याश्रित्येदमुक्तम् ।’तदन्तस्य संज्ञा’ इत्यत्र तु पक्षे घ्येकदेशे वर्णे घिशब्दो द्रष्टव्यः । एतेन नद्यन्तादिति व्याख्यातम् । सुपीत्येवेति ।’सुपि च’ इत्यतः । पट्वीति ।’वातो गुणवचनात्’ इति । कुरुत इति । यस्य नदीसंज्ञा नास्ति स सर्वोऽपि घिसंज्ञः, न लिङ्गवदेवेति । कुरुशब्दस्य घिसंज्ञा, तस्य तसि ङिति गुणो न भवति । एतच्च ङ्च्छिब्दे बहुव्रीहिमाश्रित्योच्यते । यदि तु ङ्श्चासाविच्चेति कर्मारयस्तदा नैवात्र प्रसङ्गः,’सार्वधातुकमपित्’ इत्यनेन हि बहुव्रीहौ ङितो यित्कार्यं तदतिदिश्यते, न चैतावता तसेण्Çóकार आदिर्भवति ॥

Nyaas

सख्ये, पत्ये इति। सखिपतिशब्दौ घिसंज्ञकौ न भवतः; शेषो ध्यसखि (1.4.7) इति पर्युदासात्; पतिः समास एव (1.4.8) इति नियमाच्च। पट्वी इति। वोतो गुणवचनात् (4.1.44) ङीषु। अत्र गुणो न भवति; सुपि च (7.3.102) इत्यतः सुपीत्यनुवृत्ते कुरुतः इति। करोतेस्तस्, उप्रत्ययः, धातोर्गुणः, रपरत्वम्, अत उत्? सार्वधातुके (6.4.110) इत्युत्त्वम्। अत्रापि सुपीत्यनुवृत्तेस्तसि परतो विकरणान्तसय न भवति गुणः॥

Prakriyasarvasvam

घेरङ्गस्य ङिति सुपि परे गुणः स्यात् । हरये । गुणे कृते हरे अस्

Sarala

सुपि च (७.३.१०२) इत्यतः “सुपी”ति, ह्रस्वस्य गुणः (७.३.१०८) इत्यतो “गुण” इति चानुवर्त्ततेऽत आह - सुपि गुण इति

Sudha

घोङितीति । सुपि च**(7.3.102) इत्यतः सुपीति, **ह्रस्वस्य गुणः**(7.3.108) इत्यतो गुण इत्यनुवर्तते, तदाह - **घिसंज्ञकस्येत्यादिना । हरये - हरिशब्दात् ङेकृते **लशक्वतद्धिते**(1.3.8) इति ङस्येत्सञ्ज्ञायां लोपे च **शेषो घ्यसखि**(1.4.7) इति घिसञ्ज्ञायां **घेर्ङिति**(7.3.111) इति गुणे **एचोऽयवायावः**(6.1.78) इति अयादेशे “हरये” इति । चतुर्थीद्विवचनबहुवचने - हरिभ्याम्, हरिभ्यः, इति ।