73110: ऋतो ङिसर्वनामस्थानयोः

Padacheda: ऋतः | S | 6 | 1 |

ङिसर्वनामस्थानयोः | S | 7 | 2 |

Sutrartha

ऋदन्तस्य अङ्गस्य ङि-प्रत्यये परे सर्वनामस्थानप्रत्यये च परे गुणादेशः भवति ।

ऋदन्तस्य अङ्गस्य (1) सप्तमी-एकवचनस्य ङि-प्रत्यये परे, (2) सर्वनामस्थानप्रत्यये च परे - गुणादेशः - इत्युक्ते ‘अर्’ आदेशः भवति । यथा - 1) पितृ + औ [प्रथमाद्विवचनस्य प्रत्ययः] → पितर् + औ [ऋतो ङिसर्वनामस्थानयोः (7.3.110) इति गुणः] → पितरौ 2) दातृ + ङि [सप्तम्येकवचनस्य प्रत्ययः] → दातर् + इ [ऋतो ङिसर्वनामस्थानयोः (7.3.110) इति गुणः] → दातरि ज्ञातव्यम् - अदेङ्-गुणः (1.1.2) इत्यनेन अ-ए-ओ-वर्णानाम् गुणसंज्ञा विधीयते । वस्तुतः तु एतेषु कोऽपि वर्णः स्थानसाधर्म्येण ऋकारवत् नास्ति, परन्तु उरण् रपरः (1.1.51) अनया परिभाषया ऋकारस्य आदेशभूतः अकारः नित्यम् रेफेण सह (इत्युक्ते, ‘अर्’ इति) एव आगच्छति । अयं ‘अर्’ आदेशः स्थानसाधर्म्येण ऋकारवत् अस्ति - उभयोः उच्चारणार्थम् मूर्ध्नः प्रयोगः क्रियते । अतः ऋकारस्य गुणादेशरूपेण अर्-आदेशः भवति ।

Sutrartha (English)

The last letter of a ऋदन्त word is replaced by अर् in presence of - (a) ङि-प्रत्यय and (b) a प्रत्यय that is also a सर्वनामस्थान.

Vasu English Summary

गुण is substituted for the final ऋ of a अङ्ग (stem) in the Locative -7th case singular and in the strong cases.

Vasu English Translation

गुण is substituted for the final ऋ of a अङ्ग (stem) in the Locative -7th case singular and in the strong cases. As मातरि, पितरि, भ्रातरि, कर्तरि; मातरौ, पितरौ, भ्रातरौ, कर्तारौ, कर्तारः ॥ For the long in कर्तारौ and कर्तारः see (6.4.11). The त् in ऋत् is for the sake of facility of utterance.

Because before ङि and strong cases, it is impossible for a stem to end in a long vowel ॠ nor a dhatu noun can so come, since in that case, long ॠ would be changed to इर् by (7.1.100), and in forms like कर्तॄणि there is नुम् ॥

Kashika

गुण इति वर्तते। ऋकारान्तस्याङ्गस्य ङौ परतः सर्वनामस्थाने च गुणो भवति। ङौ — मातरि। पितरि। भ्रातरि। कर्तरि। सर्वनामस्थाने — कर्तारौ, कर्तारः। मातरौ। पितरौ। भ्रातरौ। तपरकरणं मुखसुखार्थम्॥

Siddhanta Kaumudi

ङौ सर्वनामस्थाने च परे ऋदन्ताङ्गस्य गुणः स्यात् । इति प्राप्ते ॥

Laghu Siddhanta Kaumudi

ऋतोऽङ्गस्य गुणो ङौ सर्वनामस्थाने च । इति प्राप्ते -

Balamanorama

ऋतो ङिसर्वनामस्थानयोः - ऋतो ङि । ‘ह्रस्वस्य गुणः’ इत्यतो॒गुण॑ इत्यनुवर्तते ।अङ्गस्ये॑त्यधिकृतम् ‘ऋत’ इत्यनेन विशेष्यते, ततस्तदन्तविधिस्तदाह — ङाविति ।

Tattvabodhini

ऋतो ङिसर्वनामस्थानयोः - ऋतो ङि ।कृ॑तृ॑ एतयोरनुकरणे ऋकारान्ते गुणवारणाय तपरकरणमिति बोध्यम् ।अप्तृन् ।तुरिष्ठेमेयस्स्वि॑तिवृत्तृ इत्येवसिद्धे तृन्तृचोर्मभेदानोपादानंक्वचित्सामान्योक्तावपि विशेष एव गृह्रते॑इति ज्ञापनार्थन् । तेनन कापधायाः॑इत्यत्र सामान्योक्तावपि वुतद्धितयोरेव को गृह्रते, न कमात्रम् । तेन यदग्रे वक्ष्यतिकोपधप्रतषेधे तद्धितवुग्रहण॑मिति, तदुपपन्नं भवतीत्येके । अन्ये त्वाहुः — ॒अप्तृ॑ — इत्योव वक्तव्येतृन्तृ॑जिति भेदेनोपादानमर्वणस्तृव् ।यावृत्तये । यद्यप्यर्थवत्परिभाषाया तन्निवृत्तिः सिध्यति, तथापि तस्याः परिभाषाया अनित्यत्वज्ञापनाय तयोः पृथगुपादानम् । तेनअनिनस्मन्ग्रहणान्यर्थवता चानर्थकतेन त तदन्तविधिं पर्योजयन्ती॑ति सिद्धमिति । व्युत्पत्तिपक्षे तृन्नन्तत्वात्तृजन्तत्वाद्वा सिद्धे नप्त्रादिग्रहणं व्यर्थमित्यत आह — नियमार्थमिति । औणादिकानामन्यषां संज्ञाशब्दानां मा भूदित्येतदर्थमित्यर्थः । धातृशब्दस्त्वौणादिकः संज्ञाशब्दो न भवतीति तत्र दीर्घो भवत्येव । धातारौ । धातारः । अव्युत्पत्तिपक्षे तु नप्त्रादिग्रहणं विध्यर्थमिति पितृभ्रातृप्रभृतीनां दीर्घशङ्कैव नास्तीति बोध्यम् ।तेनेति । पितरौ । पितरः ।भ्रातरौ । भ्रातर इत्यादौ दीर्घे नेत्यर्थः । क्रोष्टेति । अनङ् । ह्ल्ङ्यादिलोपात्परत्वादुपधादीर्घः । स चसर्वनामस्थाने चे॑त्यनेन यद्यपि लभ्यते, तथापि परत्वात्अप्तृ॑न्नित्येवं न्याय्यः । कृतेऽप्यनङिएकदेशविकृतस्यानन्यत्वेन तृच्त्वात् । अन्यथा गुणे कृतेऽपिक्रोष्टारा॑वित्यादौ दीर्घे न स्यादिति भावः ।

Padamanjari

तपरकरणं मुखसुखार्थमिति । ङिसर्वनामस्थानयोर्दीर्घान्तस्यासम्भवात् । धात्वनुकरणमपि न सम्भवति, ठृत इद्धातोःऽ इतीत्वविधानात् । कर्त णीत्यत्यादावपि नुमः पूर्वान्तत्वादसम्भवः ॥

Nyaas

तपरकरणं मुखसुखार्थम् इति। न हि ङिसर्वनामस्थानयोर्दीर्घ ऋकारः सम्भवति यस्तपरेण निवर्त्त्येत॥

Prakriyasarvasvam

ङौ सर्वनामस्थाने च परे ऋदन्तस्य गुणः स्यात् । क्रोष्टर् औ । ‘अप्तृन- (६-४-११) इति दीर्घः । क्रोष्टारौ । क्रोष्टारः । सम्बुद्धौ तु तृज्वत्त्वाभावाद् हे क्रोष्टो । क्रोष्टारं । क्रोष्टारौ । शसि क्रोष्टॄन् ।।

Sarala

ह्रस्वस्य गुणः (७.३.१०८) इत्यतो गुणपदमनुवर्त्त्याऽर्थमाह - गुण इति

Sudha

ऋतो ङीति । ह्रस्वस्य गुणः**(7.3.108) इत्यतो गुण इत्यनुवर्तते । अङ्गस्येत्यधिकृतम् । ऋत इत्यनेन विशिष्यते । तदन्तविधिः । तदाह - **ऋतोऽङ्गस्येत्यादिना ।