73106: सम्बुद्धौ च¶
Padacheda: सम्बुद्धौ | S | 7 | 1 |
च | S | 0 | 0 |
Sutrartha¶
आबन्तस्य अङ्गस्य सम्बुद्धि-एकवचनस्य प्रत्यये परे एकारादेशः भवति ।
आकारान्तस्त्रीलिङ्गशब्दाः सर्वे टाप्/चाप्/डाप् प्रत्ययान्ताः सन्ति । ‘आबन्त’ इत्यनेन एतेषाम् एव ग्रहणम् क्रियते । एतेषाम् सर्वेषामङ्गस्य सम्बोधन-एकवचनस्य सुँ-प्रत्यये परे एकारादेशः भवति । यथा - माला + सुँ [सम्बुद्धिः] → माले + सुँ [सम्बुद्धौ च (7.3.106) इति एकारादेशः] → माले [एङ्ह्रस्वात् सम्बुद्धेः (6.1.69) इति सुँ-प्रत्ययस्य लोपः] ज्ञातव्यम् - एकवचनं सम्बुद्धिः (2.3.49) इत्यनेन सम्बोधन-एकवचनस्य सुँ-प्रत्ययस्य सम्बुद्धिः संज्ञा भवति ।
Sutrartha (English)¶
An आबन्त अङ्ग gets an एकारादेश in presence of the सुँ-प्रत्यय of सम्बोधन-एकवचन.
Vasu English Summary¶
ए is substituted for the final आ of the feminine affix, in the Vocative Case singular.
Vasu English Translation¶
ए is substituted for the final आ of the feminine affix, in the Vocative Case singular. As हे खट्वे, हे बहुराजे, हे कारीषगन्ध्ये ॥
Kashika¶
आप इति वर्तते। संबुद्धौ च परत आबन्तस्याङ्गस्य एत्वं भवति। हे खट्वे। हे बहुराजे। हे कारीषगन्ध्ये॥
Siddhanta Kaumudi¶
आप एकारः स्यात्संबुद्धौ । एङ्ह्रस्वात् (SK193)इति संबुद्धिलोपः । हे रमे । हे रमे । हे रमाः । रमाम् । रमे । रमाः । स्त्रीत्वान्नत्वाऽभावः ॥
Laghu Siddhanta Kaumudi¶
आप एकारः स्यात्सम्बुद्धौ। एङ्ह्रस्वादिति संबुद्धिलोपः। हे रमे। हे रमे। हे रमाः। रमाम्। रमे। रमाः॥
Balamanorama¶
सम्बुद्धौ च - संबुद्धौ च ।बहुवचने झल्ये॑दित्यत एदिति, ‘आङि चापः’ इत्यत ‘आप’ इति चानुवर्तते । तदाह-आप इत्यादिना । आबन्तस्येत्यर्थः ।अलोऽन्त्यस्य॑ । हे रमे स् इति स्थिते प्रक्रियां दर्शयति — एङ्ह्रस्वादिति । हल्ङ्यादिलोपस्तु न, परत्वात्प्रतिपदोक्तत्वाच्च एत्त्वे कृते हल्ङ्यादिलोपस्याऽप्राप्तेः,एङ्ह्रस्वा॑दिति लोपस्यैव परत्वेन न्याय्यत्वाच्चेति भावः । रमामिति । ‘अमि पूर्वः’ इति पूर्वरूपम् । औङः शीभावे आद्गुणं मत्वाह — रमे इति । स्त्रीत्वादिति । शसि रमा-असिति स्थिते पूर्वसवर्णदीर्घे सति कृतपूर्वसवर्णदीर्घात्परत्वेऽपि ‘तस्माच्छसः’ इति नत्वं स्त्रीलिङ्गत्वान्न भवतीत्यर्थः । रमा-आ इति स्थिते ।
Tattvabodhini¶
सम्बुद्धौ च - संबुद्धौ च ।बहुवचने झल्येत्आङि चापः॑इत्यतएत्॒आप॑इति चानुवर्तते, तदाह -आप स्यादिति । एङ्ह्रस्वादिति । न चात्र हल्ङ्यादिनैध सुलोपोऽस्तु, प्रत्ययलक्षणन्यायेनसुबुद्धौ चे॑त्येत्त्वस्यापि प्रवृत्तिसंभवादिति शङ्कयं, परत्वाकत्प्रतिपदोक्तत्वच्च एत्त्वे कृते हल्ङ्यादिलोपस्याऽप्राप्तेः, स्थानवद्भावादाप्त्वेऽप्याकाररूपत्वाऽभावात् ।आ आ॑बित्याकारं पर्श्लिष्य दीर्घग्रहणस्य प्रत्याख्यानात् ।एङ्ह्रस्वा॑दिति लोपस्यैव परत्वेन न्याय्यत्वाच्चेति भावः ।
Praudhamanorama¶
एङ्-ह्रस्वादिति। परत्वात्, प्रतिपदोक्तत्वाच्च ‘सम्बुद्धौ च’ इत्येत्वे कृते हल्ङ्यादिलोपो न प्राप्नोति, स्थानिवद्भावादाप्त्वेऽप्याकाररूपत्वाभावात्। आआबित्याकारं प्रश्लिष्य दीर्घग्रहणप्रत्याख्यानात्। यथाश्रुतेऽपि ‘एङ्-ह्रस्वात्’ इति लोपस्यैव परत्वेन न्याय्यत्वादिति भावः।
Prakriyasarvasvam¶
आप एत्वं स्यात् । ‘एङ ह्रस्वात्-’ (६-१-६९) इति सुलोपः । हे रमे रमाम् । रमे । रमाः ॥
Sarala¶
बहुवचने झल्येत् (७.३.१०३) इत्यत “ए”दिति, आङि चापः (७.३.१०५) इत्यत “आप” इति चानुवर्त्तते तदाह - आप-एकार इति । आबन्तस्येत्यर्थः । अलोन्त्यपरिभाषया चाऽन्त्याकारस्यैकारः । एङ्ह्रस्वादितीति । हल्ङ्यादिलोपस्तु न, परत्वात्प्रतिपदोक्तत्वाच्च सम्बुद्धौ च (७.३.१०६) इत्येत्त्वे कृत आरूपस्य आपोऽभावेन पदप्राप्तेः, एवञ्च एङ्ह्रस्वादिति सम्बुद्धिलोप इति भावः ॥
Sudha¶
सम्बुद्धौ चेति । बहुवचने झल्येत्**(7.3.103) इत्यत एदिति **आङि चापः**(7.3.105) इत्यतः आप इति चानुवर्तते, तदाह - **आप एकार इत्यादिना । एड्ह्रस्वादिति । हल् ङ्यादिलोपस्तु न, परत्वात् प्रतिपदोक्तत्वाच्च एत्वे कृते हल् ङ्यादिलोपस्याप्राप्तेः, एङ्ह्रस्वात् सम्बुद्धेः**(6.1.69) इति लोपस्यैव परत्वेन न्याय्यत्वाच्चेति भावः । **हेरमे । रमाशब्दात्सावागते सम्बुद्धौ च**(7.3.106) इत्यावन्ताङ्गस्यैकारादेशे **एङ्ह्रस्वात् सम्बुद्धेः**(6.1.69) इति सलोपे ‘हे रमे’ इति रूपम् । **हे रमे हे रमा इति । औस्थाने शीभावे गुणे च सति- ‘हे रमे’ इति । पूर्वसवर्णदीर्घादेशे रुवे विसर्गे च कृते ‘रमाः’ इति । रमारमेति । अमि पूर्वः**(6.1.107) इति पूर्वरूपम् । औङः शीभावे आद्गुणं मत्वाह - **रमे इति । रमा: - शसि ‘रमा + अस्’ इति स्थिते पूर्वसवर्णदीर्घे सति कृतपूर्वसवर्णदीर्घात् परत्वेऽपि **तस्माच्छसो नः पुंसि**(6.1.103) इति नत्वं स्त्रीलिङ्गत्वान्न भवतीत्यर्थः ।