73107: अम्बाऽर्थनद्योर्ह्रस्वः¶
Padacheda: अम्बार्थ-नद्योः | S | 6 | 2 |
ह्रस्वः | S | 1 | 1 |
Sutrartha¶
‘अम्बा’ अस्मिन् अर्थे प्रयुज्यमानानां शब्दानां, तथा नदीसंज्ञकशब्दानां सम्बुद्धि-एकवचनस्य प्रत्यये परे अङ्गस्य ह्रस्वादेशः भवति ।
ये शब्दाः - (अ) ‘अम्बा’ - अस्मिन् अर्थे प्रयुज्यन्ते अथवा (ब) ‘नदी’ संज्ञां स्वीकुर्वन्ति - तेषामङ्गस्य सम्बोधन-एकवचनस्य सुँ-प्रत्यये परे ह्रस्वादेशः भवति । यथा - 1) अम्बार्थशब्दाः - अम्बा, अक्का, अल्ला एते आकारान्तशब्दाः अम्बा ( = माता) अस्मिन् अर्थे प्रयुज्यन्ते । एतेषां सर्वेषामङ्गस्य सम्बोधन-एकवचनस्य सुँ-प्रत्यये परे सम्बुद्धौ च (7.3.106) इत्यनेन एकारादेशे प्राप्ते अनेन सूत्रेण अपवादत्वेन ह्रस्वादेशः भवति । यथा - अम्बा + सुँ [सम्बुद्धिः] → अम्ब + सुँ [अम्बाऽर्थनद्योर्ह्रस्वः (7.3.107) इति आकारस्य ह्रस्वः अकारः] → अम्ब [एङ्ह्रस्वात् सम्बुद्धेः (6.1.69) इति सुँ-प्रत्ययस्य लोपः ।] तथैव अक्क, अल्ल आदीनि रूपाणि सिद्ध्यन्ति । 2) नदीसंज्ञकाः - यू स्त्र्याख्यौ नदी (1.4.3) अनेन सूत्रेण दीर्घ-ईकारान्त-ऊकारान्त-स्त्रीलिङ्गशब्दानां नदीसंज्ञा भवति - यथा - नदी, घटी, वधू, चञ्चू - आदयः । एतेषां सर्वेषामङ्गस्य सम्बोधनैकवचनस्य सुँ-प्रत्यये परे ह्रस्वादेशः भवति । यथा - नदी + सुँ [सम्बुद्धिः] → नदि + सुँ [अम्बाऽर्थनद्योर्ह्रस्वः (7.3.107) इति ईकारस्य ह्रस्वः इकारः] → नदि [एङ्ह्रस्वात् सम्बुद्धेः (6.1.69) इति सुँ-प्रत्ययस्य लोपः ।] तथैव घटि, सरस्वति, वधु, चञ्चु - आदीनि रूपाणि सिद्ध्यन्ति । अस्मिन् सन्दर्भे कानिचन वार्तिकानि अपि ज्ञातव्यानि - 1) <!डलकवतीनां प्रतिषेधो वक्तव्यः!> - येषामन्ते ड, ल, क वर्णाः सन्ति, तेषां अनेन सूत्रेण ह्रस्वः न भवति । यथा - हे अम्बिके, हे अम्बाले, हे अम्बाडे । 2) <!छन्दसि वेति वक्तव्यम्!> - येषामन्ते ड, ल, क वर्णाः सन्ति, तेषां वेदेषु ह्रस्वादेशः विकल्पेन भवति । यथा - हे अम्बिक, हे अम्बिके । 3) <!तलो ह्रस्वो वा ङिसम्बुद्ध्योः इति वक्तव्यम्!> - तल्-प्रत्ययान्तशब्दानां विषये (यथा - देवता, जनता आदीनां विषये) सप्तमी-एकवचनस्य ङि-प्रत्यये परे, तथा च सम्बोधन-एकवचनस्य सुँ-प्रत्यये परे वेदेषु विकल्पेन ह्रस्वादेशः भवति । ह्रस्वादेशे कृते बाल-शब्दवत् रूपाणि भवन्ति । यथा - देवतायां भक्तिः / देवते भक्तिः । हे देवते, हे देवत ।
Sutrartha (English)¶
For the words that are used with the meaning same as अम्बा, and for the words that get the नदीसंज्ञा, the अङ्ग get a ह्रस्वादेश in presence of सुँ-प्रत्यय of सम्बोधन-एकवचन.
Vasu English Summary¶
A short vowel is substituted in the Vocative Case singular for the final आ of the feminine affix, in the sense of ‘mother, mother-dear’ and also for the long vowel of the feminines called नदी – यू स्त्र्याख्यौ नदी (1.4.3) etc.
Vasu English Translation¶
A short vowel is substituted in the Vocative Case singular for the final आ of the feminine affix, in the sense of ‘mother, mother-dear’ and also for the long vowel of the feminines called नदी – यू स्त्र्याख्यौ नदी (1.4.3) etc. As अम्ब ! हे अक्क ! हे अल्ल ! हे कुमारि ! हे शार्ङ्गरवि ! हे ब्रह्मबन्धु ! हे वीरबन्धु !
Vart:- Prohibition must be stated when the endearing terms denoting mother have an uncombined उ, ल or क, as हे अम्बाड ! हे अम्बाल ! हे अम्बिक ! But हे अक्क and हे अल्ल where the ल and क are conjunct.
Vart:- Optionally so in the Veda: as हे अम्बाड ! or हे अम्बाडे ! हे अम्बाल ! or हे अम्बाले, हे अम्बिक ! हे अम्बिके ॥
Vart:- A feminine stem formed with the affix तल् optionally becomes short before the Vocative Singular and Vocative Singular. As देवते भक्तिः or देवतायां भक्तिः, हे देवत ! or हे देवते ॥ This shortening takes place in the Veda only.
Vart:- In a Bahuvrihi compound ending with मातृ, there is substituted मात for मातृ in the Vocative Singular when the word means a son worthy of such a mother. As हे गार्गीमात ! = मात्रा व्यवदेशमर्हति श्लाघनीयत्वाद् यः पुत्रः ॥ This debars the कप् affix of (5.4.153). The च् of मातच् makes the final acute.
Bhashya¶
अम्बार्थनद्योर्ह्रस्वः ( डलकवतीनां प्रतिषेधः ) ॥ डलकवतीनां प्रतिषेधो वक्तव्यः । अम्बाडे ! अम्बाले ! अम्बिके ! तल्(1) ह्रस्वत्वं वा ङिसंबुध्द्योः तल्ह्रस्वत्वं(2) वा ङिसंबुध्द्योरिति वक्तव्यम् । देवत देवते । देवतायां देवते ॥ स तर्हि प्रतिषेधो वक्तव्यः ? ॥ न वक्तव्यः ॥ स कथं न वक्तव्यो भवति ? अम्बार्थं व्द्यक्षरं यदि यद्यम्बार्थं व्द्यक्षरं गृह्यते ॥ तत्तर्हि ह्रस्वत्वं वक्तव्यम् ? ॥ ( अवश्यं छन्दसि ह्रस्वत्वमुपगायन्त मां पत्नयो गर्भिणयो युवतय इत्येवमर्थम् ) । अवश्यं छन्दसि ह्रस्वत्वं वक्तव्यम् - उपगायन्तुं मां पत्नयो गर्भिणयो युवतय इत्येवमर्थम् ॥ मातॄणां मातच्पुत्रार्थमर्हते मातॄणां मातजादेशो वक्तव्यः ॥ (किं प्रयोजनम् ? ॥) । पुत्रार्थमर्हते । गार्गीमात वात्सीमात ॥ ( अम्बार्थनद्योर्ह्रस्वः ) ॥
Kashika¶
संबुद्धाविति वर्तते। अम्बार्थानामङ्गानां नद्यन्तानां च ह्रस्वो भवति संबुद्धौ परतः। हे अम्ब। हे अक्क। हे अल्ल। नद्याः खल्वपि — हे कुमारि। हे शार्ङ्गरवि। हे ब्रह्मबन्धु। हे वीरबन्धु॥ डलकवतीनां प्रतिषेधो वक्तव्यः॥ हे अम्बाडे। हे अम्बाले। हे अम्बिके॥ छन्दसि वेति वक्तव्यः॥ हे अम्बाड, हे अम्बाडे। हे अम्बाल, हे अम्बाले। हे अम्बिक, हे अम्बिके॥ तलो ह्रस्वो वा ङिसंबुद्ध्योरिति वक्तव्यम्॥ देवते भक्तिः, देवतायां भक्तिः। हे देवत, हे देवते। छन्दस्येव ह्रस्वत्वमिष्यते॥ मातृणां मातच् पुत्रार्थमर्हते॥ मातृणां मातजादेशो वक्तव्यः संबुद्धौ पुत्राय पुत्रमभिधातुम्। कीदृशाय? अर्हते — मात्रा व्यपदेशमर्हति श्लाघनीयत्वाद् यः पुत्रस्तदर्थम्। हे गार्गीमात। नद्यृतश्च (५.४.१५३) इति समासान्तापवादो मातजादेशः। चित्करणमन्तोदात्तार्थम्॥
Siddhanta Kaumudi¶
अम्बार्थानां नद्यन्तानां च ह्रस्वः स्यात्संबुद्धौ । हे बहुश्रेयसि । शसि बहुश्रेयसीन् ॥
Laghu Siddhanta Kaumudi¶
सम्बुद्धौ। हे बहुश्रेयसि॥
Balamanorama¶
अम्बाऽर्थनद्योर्ह्रस्वः - अम्बार्थानामिति । अम्बापर्यायाणामित्यर्थः नद्यन्तानामिति । अङ्गाधिकारस्थत्वात्तदन्तविधिः । तुल्यन्यायत्वादम्बार्थानामित्यत्रापि तदन्तविधिर्बोध्यः । सम्बुद्धाविति ।सम्बुद्धौ चे॑त्यतस्तदनुवृत्तेरिति भावः । अम्बागौर्यादिशब्देषु ह्रस्वत्वं तु व्यपदेशिवद्भावेन तदन्तत्वाज्ज्ञेयम् । हे बहुश्रेयसि इति । ह्रस्वे सतिएङ्ह्रस्वा॑दिति सम्बुद्धिलोपः । ह्रस्वे गुणस्तु न, प्रक्रियालाघवायअम्बार्थनद्योह्र्यस्वः॑ इत्यनुक्त्वाअम्बार्थनद्योर्गुणः॑ इति वाच्ये ह्रस्वविधिसामर्थ्यादिति स्पष्टं भाष्ये । बहुश्रेयस्यौ । बहुश्रेयस्यः ।दीर्घाज्जसि चे॑ति पूर्वसवर्णदीर्घनिषेधे यण् ।अमि पूर्वः॑ । बहुश्रेयसीम् । बहुश्रेयस्यौ । बहुश्रेयसीनिति । पूर्वसवर्णदीर्घ सति ‘तस्माच्छसः’ इति नत्वमिति भावः । बहुश्रेयस्या । अघित्वान्नाभावो न, किन्तु यणादेशः । बहुश्रेयसीभ्याम् । बहुश्रेयसीभिः । बहुश्रेयसी-ए इति स्थिते घित्वाऽभावान्न तत्कार्यम् । यणि बहुश्रेयस्ये इति प्राप्ते- ।
Tattvabodhini¶
अम्बाऽर्थनद्योर्ह्रस्वः - वर्णसंज्ञापक्षाश्रयेणाह -नद्यन्तानामिति । हे बहुश्रेयसीति । अत्र ह्रस्वबुधानसामर्थ्याद्गुणो न प्रवर्तते । अन्यथाअम्बार्थनद्योर्गुण॑इत्येव ब्राऊयात् । न च लाघवाऽभावः शङ्क्यः, ह्रस्वग्रहणे मात्राधिक्यात्,ह्रस्वस्यट गुणः॑इत्युत्तरसूत्रे गुणग्रहणत्यागेन सुतरां लाघवसंभवाच्च । अन्ये तु कृतेऽपि ह्रस्वे यदि गुण इष्टः स्यात्तर्हिअम्बार्थानां ह्रस्वः॑इत्युक्त्वानदीह्रस्वयोर्गुणः॑इत्येव ब्राऊयादित्याहुः । तत्र पदलाघवाऽभावेऽपि प्रक्रियालाघवमस्ति, परन्तुजसि च त्यत्र॑ह्रस्वस्ये॑त्येकदजाशानुवृत्तौ क्लेशोऽस्तीति बोध्यम् ।
Padamanjari¶
अम्बार्थाःउ मात्रार्थाः । डलकवतीनामिति । अर्थगतेन स्त्रीत्वेनाम्बार्थाः शब्दा निर्दिष्टाः, श्रुत्यपेक्षो वा स्त्रीलिङ्गनिर्देशः -‘डलकवतीनां श्रुतीनामित्यर्थः’ इति । असंयुक्ताश्च डलका गृह्यन्ते; तेनाक्क, अल्लेति ह्रस्वो भवत्येव । देवते भक्तिरिति । ह्रस्वत्वे कृते,’ङ्याब्ग्रहणे’ दीर्घःऽ इति स्थानिवत्वनिषेधाद्याडागमो णेóरामपि न भवतः । मातृणामिति । पूर्वपदभेदन बहवो मातृशब्दा इति बहुवचनम् । पुत्रार्थमिति । पुत्रमभिधातुं यो मातृशब्द उपादीयत इत्यर्थः । बहुव्रीहौ च वर्तिपदैरन्यपदार्थोऽभिधीयत इति तत्रैवयमादेशः । कीदृशाय पुत्रायेति । समासे गुणीभूतस्यापि पुत्रस्थ बुद्ध्या प्रविभज्य निर्द्देशः, यथा - ठथ शब्दानुशासनम्, केषां शब्दानाम्ऽ इति । मात्रा व्यपदेशमर्हतीति । यः पुत्रः श्लाघ्यगुणत्वात्कुलसम्भूतया मात्रा व्यपदेशमर्हतीत्यर्थः । यत्र तु पितुरसंविज्ञानेन मात्रा व्यपदेशस्तत्र न भवति, एतच्चार्हत इति प्रशंसायां लटः शत्रादेशविधानाल्लभते । समासान्तापवाद इति । नाप्राप्ते तस्मिन्नस्यारम्भात् ॥
Nyaas¶
पूर्वस्यायमपवादः। अम्बार्थाः=मात्रर्थाः। डलकवतीनाम् इत्यादि। डलाका यासां श्रुतीनां सन्तीति ता डलकवत्यः। असंयोगावयवभूता डलका इह गृह्यन्ते। अन्यथा हे अक्क, हे अल्ल - इत्यत्रापि स्यात्। वक्तव्यशब्दस्य व्याख्यय इत्येषोऽर्थः। उत्तरयोरपि वक्तव्यशब्दयोरयमेवार्थो वेदितव्यः। तत्रैदं व्याख्यानम् - बहुलं छन्दसि (7.4.78) इत्यतो बहुलग्रहणं मण्डूकप्लुतिन्यायेनानुवर्तते, तेन सर्वं प्रतिषेधादिकं कार्यमपि भविष्यतीति। अर्हते इति। प्रशंसाभाजनभूतायेत्यर्थः। गार्गोमाता इति। यो गाग्र्या मात्रा ष्यपदेशेन प्रशंसामर्हति स एवमुच्यते॥
Prakriyasarvasvam¶
अम्बार्थानां नदीनां च ह्रस्वः स्यात् सम्बुद्धौ । हे अम्ब । एवमन्नाल्लाक्काः । अम्बार्थेषु डलकवतीनां ह्रस्वो न । हे अम्बाडे अम्बाले । अम्बिके । जरा । अचि वा जरस् । जरसौ । जरे । औङः शीत्वेन जरसीत्यपि कौमुदी । जरसः । जराः । हे जरे । जरसम् । जरामित्यादि । नासिका । शसादौ ‘पद्दन्—’ (६-१-६३) इति वा नस् । नसः । नसा नोभ्यामित्यादि । निशायाः शसादौ निश् । निशः । निशा । पदान्तत्वाद् व्रश्चादिषत्वं जश्त्वं च । निड्भ्याम् । निड्भिः । निट्सु ॥ ‘मांसपृतनासानूनां मांस्पृत्स्नवो वाच्याः’ इति पृतनायाः शसादौ । वा पृत् । पृतः पृता पृद्भ्यामित्यादि । क्षीरपा इत्यादयः स्त्रीलिङ्गेऽपि सोमपावत् स्युः । अडन्तपक्षे भाशब्दो रमावत् । क्विबन्तपक्षे सोमपावत् । भाः, भौ, भाः । इत्यादि । मतिः मती इत्यादि हरिवत् । स्त्रीत्वाच्छसो नत्वमाङो ना च न । मतीः । मत्या । मति ए—
Sarala¶
(अम्बर्थानां नद्यन्तानाञ्च ह्रस्वः स्यात्सम्बुद्धौ) । अम्बार्थनद्योः - षष्ठ्यन्तम्, ह्रस्वः - प्रथमान्तम् । सम्बुद्धौ च (७.३.१०६) इत्यतः सम्बुद्धाविति वर्त्तते, तदाह - सम्बुद्धाविति ॥
Sudha¶
अम्बार्वेति । सम्बुद्धौ च**(7.3.106) इत्यतः सम्बुद्धावित्यनुवर्तते । अम्बार्थानां नद्यन्तानां च ह्रस्वःस्यात्सम्बुद्धौ इत्यर्थः । **हे बहुश्रेयसि । बहुश्रेयसीशब्दात् सम्बोधनप्रथमैकवचनविवक्षायां सुप्रत्यये उकारस्येत्सञ्ज्ञायां लोपे च **यू स्त्र्याख्यौ नदी**(1.4.3) इति नदीसञ्ज्ञायां “बहुश्रेयसी स्” इति स्थिते **अम्बाऽर्थनद्योर्ह्रस्वः**(7.3.107) इति ह्रस्वे **एकवचनं संबुद्धिः**(2.3.49) इति सम्बुद्धिसञ्ज्ञायां **एङ्ह्रस्वात् सम्बुद्धेः**(6.1.69) इति सलोपे सति “हे बहुश्रेयसि” इति रूपम् । द्विवचनबहुवचने - बहुश्रेयस्यौ, बहुश्रेयस्यः । द्वितीया - बहुश्रेयसीम, बहुश्रेयस्यौ, बहुश्रेयस्यः । तृतीया - बहुश्रेयस्या, बहुश्रेयसीभ्यां, बहुश्रेयसीभिः ।
Sutra Prayogas¶
सुभ्रु (कुमारसम्भवम्): अम्बार्थनद्योर्ह्रस्वः इति ह्रस्वत्वविचारः।
सुतनु (शिशुपालवधम्): अम्बार्थनद्योर्ह्रस्वः इति ह्रस्वत्वम्।