73105: आङि चापः¶
Padacheda: आङि | S | 7 | 1 |
च | S | 0 | 0 |
आपः | S | 6 | 1 |
Sutrartha¶
षष्ठीसप्तमीद्विवचनस्य ओस्-प्रत्यये परे, तथा च तृतीयैकवचनस्य टा-प्रत्यये परे आबन्तस्य अङ्गस्य एकारादेशः भवति ।
आकारान्तस्त्रीलिङ्गशब्दाः सर्वे टाप्/चाप्/डाप् प्रत्ययान्ताः सन्ति । ‘आबन्त’ इत्यनेन एतेषाम् एव ग्रहणम् क्रियते । एतेषाम् सर्वेषामङ्गस्य (1) षष्ठीसप्तमीद्विवचनस्य ओस्-प्रत्यये परे, तथा (2) तृतीयैकवचनस्य टा-प्रत्यये परे - एकारादेशः भवति । यथा - 1) माला + ओस् → माले + ओस् → [एचोऽयवायावः (6.1.78) इति अयादेशः । विसर्गनिर्माणम् ।] → मालयोः 2) माला + टा → माले + आ → [एचोऽयवायावः (6.1.78) इति अयादेशः ] → मालया ज्ञातव्यम् - अस्मिन् सूत्रे प्रयुक्तम् ‘आङ्’ इति ‘टा’ प्रत्ययस्यैव अन्यत् नाम । पूर्वाचार्यैः टा-प्रत्ययस्य आङ्-इति उल्लेखः कृतः अस्ति, अतः पाणिनिः अपि केषुचन स्थलेषु ‘टा’ इत्यस्य स्थाने आङ्-इति वदति । परन्तु अयं प्रत्ययः टित्-अस्ति, ङित्-नास्तीति स्मर्तव्यम् ।
Sutrartha (English)¶
An आबन्त अङ्ग gets एकारादेश in presence of the ओस् and टा प्रत्यय.
Vasu English Summary¶
Before the case-ending ओस् and before आ of the Instrumental -3rd case, ए is substituted for the final आ of the feminine affix.
Vasu English Translation¶
Before the case-ending ओस् and before आ of the Instrumental -3rd case, ए is substituted for the final आ of the feminine affix. आङ् is the name given to the affix टा, the Instrumental Singular by the ancient grammarians. As खट्वया, मालया, खट्वयोः, मालयोः, बहुराजया, कारीषगन्ध्यया, बहुराजयोः, कारीषगन्ध्ययोः ॥ Why the आ of the Feminine affix only? Observe कीलालपा ब्राह्मणेन कीलालपो ब्राह्मणकुलयोः ॥ Where ever ङी or आप् is employed in Grammar, they mean the long forms ई and आ, and not when they are shortened, therefore, not here, अतिखट्वेन ब्राह्मणकुलेन ॥
The word कीलालपा is derived from कीलालं पिबति with the affix विच् (3.2.74). In the Instrumental Singular the final आ is elided by (6.4.140). Had therefore, आ only been used in the sutra, instead of आप्, there would have been ए substitution in the case of कीलालपा also; for the लोप् rule (6.4.140) would find its scope in कीलालपः पश्य &c, and would be debarred here by the present sutra.
The maxim ङ्याब् ग्रहणेऽदीर्घग्रहणम् is necessary, because otherwise on the maxim of sthanivadbhava, the short substitutes of ङी and आप् would also be included. In fact, in the sutra prohibiting sthanivad bhava, we find this vartika ङ्याब् ग्रहणेऽदीर्घः “A short (not long) substitute of ङा and आप् is not sthanivat”.
Kashika¶
आङिति पूर्वाचार्यनिर्देशेन तृतीयैकवचनं गृह्यते। तस्मिन्नाङि परतश्चकारादोसि चाबन्तस्याङ्गस्यैकारादेशो भवति। खट्वया। मालया। खट्वयोः। मालयोः। बहुराजया। कारीषगन्ध्यया। बहुराजयोः। कारीषगन्ध्ययोः। आप इति पितो ग्रहणं किम् ? कीलालपा ब्राह्मणेन। कीलालपोर्ब्राह्मणयोः। ङ्याब्ग्रहणेऽदीर्घग्रहणम् इति वचनादिह न भवति — अतिखट्वेन ब्राह्मणकुलेन॥
Siddhanta Kaumudi¶
आङि ओसि च परे आबन्तस्याङ्गस्य एकारः स्यात् । रमया । रमाभ्याम् । रमाभिः ॥
Laghu Siddhanta Kaumudi¶
आङि ओसि चाप एकारः। रमया। रमाभ्याम्। रमाभिः॥
Balamanorama¶
आङि चापः - आङि चापः ।ओसि चे॑त्यनुवर्तते, ‘आप’ इति षष्ठी,-॒अङ्गस्ये॑त्यदिकृतं तदन्तविधिः ।बहुवचने झल्ये॑दित्यत एदित्यनुवर्तते । तदाह — आङि ओसि चेत्यादिना ।आङिति टासंज्ञां प्राचा॑मित्युक्तम् । अलोऽन्त्यस्य एत्वेऽयादेश इत्याह-रमयेति । रमाभिरिति । ‘अतो भिसः’ इति तपरकरणाअदैस्न । रमा-ए इति स्थिते- ।
Tattvabodhini¶
आङि चापः - आङि । चकारेणओसि चे॑ति प्रकृतं परामृश्यत इत्याह — — ओसि च पर इति । रमाभिरिति । नन्विह एकादेशस्य पूर्वान्तत्वेन ग्रहणादतो भिस एसित्यैस्प्राप्नोति । नच तपरत्वसामर्थ्यान्नैवमिति वाच्यम्, अकृतैकादेशेविश्चपाभि॑रित्यादौ कृतार्थत्वादिति चेन्मैवम्, अल्विधौ अन्तादिवच्चे त्यस्याऽप्रवृत्तेः ।
Padamanjari¶
खट्वया, खट्वयोरित्यादीनि टाब्डाप्चापां क्रमेणोदाहरणानि । कीलालपेति । कीलालं पिबति ठातो मनिन्क्वनिब्वनिपश्चऽ इति विच्, तृतीयैकवचने ठातो धातोःऽ इत्यालोपः, असति तु पिद्विशिष्टस्य ग्रहणे कीलालपः पश्येत्यादौ चरितार्थं लोपं बाधित्वा परत्वादाङेसोरिदमेवैत्वं स्यात् । ड।लब्ग्रहणेऽदीर्घग्रहणादिति । यत्र ङ्यापौ गृह्यएते तत्र दीर्घयोर्ग्रहणम्, न ह्रस्वयोः । स्थानिवद्भावे तु प्रसङ्गः, तत्र स्थानिवत्प्रतिषेधसूत्रप्रस्तावे वार्तिकम् -‘ङ्याब्ग्रहणे’ दीर्घःऽ इति, ङ्यापोर्ग्रहणेऽदीर्घ आदेशो न स्थानिवदिति । तत्रार्थादिदमुक्तं भवति - ङ्यापोर्ग्रहणे दीर्घयोर्ग्रहणमिति, तदिदं वृत्तिकारेण दर्शितम् ॥
Nyaas¶
आङिति पूर्वाचार्यनिर्देशेन इत्यादि। आचार्या हि पूर्व आङिति तृतीयैकवचननिर्देशं कुर्वन्ति स्म। तस्मात्? तदीयेनाङिति निर्देशेन तृतीयैकवचनं गृह्रते। खट्वया इति टाबन्तस्योदाहरणम्। बहुराजया इति। जावन्तस्योदाहरणम्। डाबुभाभ्यामन्यतरस्याम् (4.1.13) इति डाप्। कारीषगन्ध्यया इति। चाबन्तस्य। करीषस्येव गन्धोऽस्य उपमानाच्च (5.4.137) इतीत् - करीषगन्धिः, तस्यापत्यम् (4.1.92) इत्यण्, तस्य अणिञोरनार्षयोः (4.1.78) इत्यादिना व्यङ्, तदन्तात्? यङश्चाप् (4.1.74) इति चाप्। कीलालपा इति। कीलालं पिबतीति अतो मनिन्क्वनिब्वनिपश्च (3.2.74) इति विच्, तदन्तात्? तृतीयैकवचनम्, आतो धातोः (6.4.140) इत्यकारलोपः।अथेह कस्मान्न भवति - खट्वामतिक्रान्तेनातिखट्वेनेति, उपसर्जनह्रस्वत्वे कृते स्थानिवद्भावात्? तस्य प्राप्नोति? इत्याह - ङ्याब्ग्रहणम् इत्यादि। केचिदाहुः - ङ्याब्ग्रहणे दीर्घग्रहणमित्येतद्वचनं कर्तव्यम्, तेन ह्रस्वत्वे कृते न भवति अपरे त्वाहुः - हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् (6.1.68) इति योगविभागः कर्तव्यः, यावच्छास्त्रे ङ्यापोः कार्य तत्? सर्वं दीर्घयोर्यथा स्या ह्रस्वयोर्मा भूदिति; ततः सुतिस्यपृक्तम्? (6.1.66) इति द्वितीयो योगः, तत्र `हल्ङ्याग्भ्यः इत्यनुवर्तत इति। चकारः ओप्ति च (7.3.104) इत्यनुकर्षणार्थः॥
Prakriyasarvasvam¶
आङचोसि च परे आबन्तानामेत्वं स्यात् । अय् । रमया । रमाभ्याम् । रमाभिः । रमा ए-
Sarala¶
(आङि ओसि च परे आबन्तस्याऽङ्गस्य एकारः स्यात्) ॥
Sudha¶
आङि चाप इति । ओसि च इत्यनुवर्तते आप इति षष्ठी । अङ्गस्येत्यधिकृतम् । तदन्तविधिः । बहुवचने झल्येत्**(7.3.103) इत्यतः एदित्यनुवर्तते, तदाह - **आङि ओसि चेत्यादिना । रमया । ‘रमा + टा’ इत्यत्र **चुटू**(1.3.7) इति टस्येत्सञ्ज्ञायां **तस्य लोपः**(1.3.9) इति लोपे — ‘रमा आ’ इति जाते **आङि चापः**(7.3.105) इत्यावन्ताङ्गस्यैकारादेशे **एचोऽयवायावः**(6.1.78) इत्ययादेशे च विहिते ‘रमया’ इति रूपम् ।