73105: आङि चापः =============== **Padacheda:** आङि | S | 7 | 1 | च | S | 0 | 0 | आपः | S | 6 | 1 | Sutrartha --------- **षष्ठीसप्तमीद्विवचनस्य ओस्-प्रत्यये परे, तथा च तृतीयैकवचनस्य टा-प्रत्यये परे आबन्तस्य अङ्गस्य एकारादेशः भवति ।** आकारान्तस्त्रीलिङ्गशब्दाः सर्वे टाप्/चाप्/डाप् प्रत्ययान्ताः सन्ति । 'आबन्त' इत्यनेन एतेषाम् एव ग्रहणम् क्रियते । एतेषाम् सर्वेषामङ्गस्य (1) षष्ठीसप्तमीद्विवचनस्य ओस्-प्रत्यये परे, तथा (2) तृतीयैकवचनस्य टा-प्रत्यये परे - एकारादेशः भवति । यथा - 1) माला + ओस् → माले + ओस् → [**एचोऽयवायावः** (6.1.78) इति अयादेशः । विसर्गनिर्माणम् ।] → मालयोः 2) माला + टा → माले + आ → [**एचोऽयवायावः** (6.1.78) इति अयादेशः ] → मालया ज्ञातव्यम् - अस्मिन् सूत्रे प्रयुक्तम् 'आङ्' इति 'टा' प्रत्ययस्यैव अन्यत् नाम । पूर्वाचार्यैः टा-प्रत्ययस्य आङ्-इति उल्लेखः कृतः अस्ति, अतः पाणिनिः अपि केषुचन स्थलेषु 'टा' इत्यस्य स्थाने आङ्-इति वदति । परन्तु अयं प्रत्ययः टित्-अस्ति, ङित्-नास्तीति स्मर्तव्यम् । Sutrartha (English) ------------------- An आबन्त अङ्ग gets एकारादेश in presence of the ओस् and टा प्रत्यय. Vasu English Summary -------------------- Before the case-ending ओस् and before आ of the Instrumental -3rd case, ए is substituted for the final आ of the feminine affix. Vasu English Translation ------------------------ Before the case-ending ओस् and before आ of the Instrumental -3rd case, ए is substituted for the final आ of the feminine affix. आङ् is the name given to the affix टा, the Instrumental Singular by the ancient grammarians. As खट्वया, मालया, खट्वयोः, मालयोः, बहुराजया, कारीषगन्ध्यया, बहुराजयोः, कारीषगन्ध्ययोः ॥ Why the आ of the Feminine affix only? Observe कीलालपा ब्राह्मणेन कीलालपो ब्राह्मणकुलयोः ॥ Where ever ङी or आप् is employed in Grammar, they mean the long forms ई and आ, and not when they are shortened, therefore, not here, अतिखट्वेन ब्राह्मणकुलेन ॥ The word कीलालपा is derived from कीलालं पिबति with the affix विच् (3.2.74). In the Instrumental Singular the final आ is elided by (6.4.140). Had therefore, आ only been used in the *sutra*, instead of आप्, there would have been ए substitution in the case of कीलालपा also; for the लोप् rule (6.4.140) would find its scope in कीलालपः पश्य &c, and would be debarred here by the present *sutra*. The maxim ङ्याब् ग्रहणेऽदीर्घग्रहणम् is necessary, because otherwise on the maxim of *sthanivadbhava*, the short substitutes of ङी and आप् would also be included. In fact, in the *sutra* prohibiting *sthanivad* *bhava*, we find this *vartika* ङ्याब् ग्रहणेऽदीर्घः "A short (not long) substitute of ङा and आप् is not *sthanivat*". Kashika ------- आङिति पूर्वाचार्यनिर्देशेन तृतीयैकवचनं गृह्यते। तस्मिन्नाङि परतश्चकारादोसि चाबन्तस्याङ्गस्यैकारादेशो भवति। खट्वया। मालया। खट्वयोः। मालयोः। बहुराजया। कारीषगन्ध्यया। बहुराजयोः। कारीषगन्ध्ययोः। आप इति पितो ग्रहणं किम् ? कीलालपा ब्राह्मणेन। कीलालपोर्ब्राह्मणयोः। ङ्याब्ग्रहणेऽदीर्घग्रहणम् इति वचनादिह न भवति — अतिखट्वेन ब्राह्मणकुलेन॥ Siddhanta Kaumudi ----------------- आङि ओसि च परे आबन्तस्याङ्गस्य एकारः स्यात् । रमया । रमाभ्याम् । रमाभिः ॥ Laghu Siddhanta Kaumudi ----------------------- आङि ओसि चाप एकारः। रमया। रमाभ्याम्। रमाभिः॥ Balamanorama ------------ **आङि चापः** - आङि चापः ।ओसि चे॑त्यनुवर्तते, 'आप' इति षष्ठी,-॒अङ्गस्ये॑त्यदिकृतं तदन्तविधिः ।बहुवचने झल्ये॑दित्यत एदित्यनुवर्तते । तदाह — आङि ओसि चेत्यादिना ।आङिति टासंज्ञां प्राचा॑मित्युक्तम् । अलोऽन्त्यस्य एत्वेऽयादेश इत्याह-रमयेति । रमाभिरिति । 'अतो भिसः' इति तपरकरणाअदैस्न । रमा-ए इति स्थिते- । Tattvabodhini ------------- **आङि चापः** - आङि । चकारेणओसि चे॑ति प्रकृतं परामृश्यत इत्याह — — ओसि च पर इति । रमाभिरिति । नन्विह एकादेशस्य पूर्वान्तत्वेन ग्रहणादतो भिस एसित्यैस्प्राप्नोति । नच तपरत्वसामर्थ्यान्नैवमिति वाच्यम्, अकृतैकादेशेविश्चपाभि॑रित्यादौ कृतार्थत्वादिति चेन्मैवम्, अल्विधौ अन्तादिवच्चे त्यस्याऽप्रवृत्तेः । Padamanjari ----------- खट्वया, खट्वयोरित्यादीनि टाब्डाप्चापां क्रमेणोदाहरणानि । कीलालपेति । कीलालं पिबति ठातो मनिन्क्वनिब्वनिपश्चऽ इति विच्, तृतीयैकवचने ठातो धातोःऽ इत्यालोपः, असति तु पिद्विशिष्टस्य ग्रहणे कीलालपः पश्येत्यादौ चरितार्थं लोपं बाधित्वा परत्वादाङेसोरिदमेवैत्वं स्यात् । ड।लब्ग्रहणेऽदीर्घग्रहणादिति । यत्र ङ्यापौ गृह्यएते तत्र दीर्घयोर्ग्रहणम्, न ह्रस्वयोः । स्थानिवद्भावे तु प्रसङ्गः, तत्र स्थानिवत्प्रतिषेधसूत्रप्रस्तावे वार्तिकम् -'ङ्याब्ग्रहणे' दीर्घःऽ इति, ङ्यापोर्ग्रहणेऽदीर्घ आदेशो न स्थानिवदिति । तत्रार्थादिदमुक्तं भवति - ङ्यापोर्ग्रहणे दीर्घयोर्ग्रहणमिति, तदिदं वृत्तिकारेण दर्शितम् ॥ Nyaas ----- `आङिति पूर्वाचार्यनिर्देशेन` इत्यादि। आचार्या हि पूर्व आङिति तृतीयैकवचननिर्देशं कुर्वन्ति स्म। तस्मात्? तदीयेनाङिति निर्देशेन तृतीयैकवचनं गृह्रते। `खट्वया` इति टाबन्तस्योदाहरणम्। `बहुराजया` इति। जावन्तस्योदाहरणम्। `डाबुभाभ्यामन्यतरस्याम्` (4.1.13) इति डाप्। `कारीषगन्ध्यया` इति। चाबन्तस्य। करीषस्येव गन्धोऽस्य **उपमानाच्च** (5.4.137) इतीत् - करीषगन्धिः, **तस्यापत्यम्** (4.1.92) इत्यण्, तस्य `अणिञोरनार्षयोः` (4.1.78) इत्यादिना व्यङ्, तदन्तात्? `यङश्चाप्` (4.1.74) इति चाप्। `कीलालपा` इति। कीलालं पिबतीति `अतो मनिन्क्वनिब्वनिपश्च` (3.2.74) इति विच्, तदन्तात्? तृतीयैकवचनम्, **आतो धातोः** (6.4.140) इत्यकारलोपः।अथेह कस्मान्न भवति - खट्वामतिक्रान्तेनातिखट्वेनेति, उपसर्जनह्रस्वत्वे कृते स्थानिवद्भावात्? तस्य प्राप्नोति? इत्याह - `ङ्याब्ग्रहणम्` इत्यादि। केचिदाहुः - ङ्याब्ग्रहणे दीर्घग्रहणमित्येतद्वचनं कर्तव्यम्, तेन ह्रस्वत्वे कृते न भवति अपरे त्वाहुः - **हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्** (6.1.68) इति योगविभागः कर्तव्यः, यावच्छास्त्रे ङ्यापोः कार्य तत्? सर्वं दीर्घयोर्यथा स्या ह्रस्वयोर्मा भूदिति; ततः `सुतिस्यपृक्तम्? (6.1.66) इति द्वितीयो योगः, तत्र `हल्ङ्याग्भ्यः` इत्यनुवर्तत इति। चकारः `ओप्ति च` (7.3.104) इत्यनुकर्षणार्थः॥ Prakriyasarvasvam ----------------- आङचोसि च परे आबन्तानामेत्वं स्यात् । अय् । रमया । रमाभ्याम् । रमाभिः । रमा ए- Sarala ------ (आङि ओसि च परे आबन्तस्याऽङ्गस्य एकारः स्यात्) ॥ Sudha ----- **आङि चाप इति ।** ओसि च इत्यनुवर्तते आप इति षष्ठी । अङ्गस्येत्यधिकृतम् । तदन्तविधिः । **बहुवचने झल्येत्**(7.3.103) इत्यतः एदित्यनुवर्तते, तदाह - **आङि ओसि चेत्यादिना । रमया ।** 'रमा + टा' इत्यत्र **चुटू**(1.3.7) इति टस्येत्सञ्ज्ञायां **तस्य लोपः**(1.3.9) इति लोपे — 'रमा आ' इति जाते **आङि चापः**(7.3.105) इत्यावन्ताङ्गस्यैकारादेशे **एचोऽयवायावः**(6.1.78) इत्ययादेशे च विहिते 'रमया' इति रूपम् ।