73096: अस्तिसिचोऽपृक्ते ======================= **Padacheda:** अस्तिसिचः | S | 5 | 1 | अपृक्ते | S | 7 | 1 | Sutrartha --------- **अस्-धातोः अङ्गात् परस्य तथा सिच्-प्रत्ययान्त-अङ्गात् परस्य सार्वधातुकस्य अपृक्त-हल्-प्रत्ययस्य ईट्-आगमः भवति ।** प्रथमम् सूत्रे प्रयुक्तानां सर्वेषां शब्दानाम् संक्षेपेण परिचयं प्राप्नुमः - 1. किम् नाम अपृक्तम्? **अपृक्त एकाल्प्रत्ययः** (1.2.41) - सः प्रत्ययः यस्मिन् केवलं एकः एव वर्णः अस्ति, अपृक्तः नाम्ना ज्ञायते । 2. किम् नाम सार्वधातुकप्रत्ययः ? **तिङ्शित्सार्वधातुकम्** (3.4.113) - तिङ्-प्रत्ययाः तथा शित्-प्रत्ययाः सार्वधातुकसंज्ञां प्राप्नुवन्ति । 3. किम् नाम ईट् ? ईट् इति कश्चन टित्-आगमः । टित्त्वात् अयं आगमः **आद्यन्तौ टकितौ** (1.1.46) इत्यनेन स्थानिनः पूर्वमागच्छति । परन्तु अस्मिन् सूत्रे स्थानीवाचकं षष्ठ्यन्तं पदमेव नास्ति । अस्यामवस्थायाम् **उभयनिर्देशे पञ्चमीनिर्देशः बलीयान् ** इत्यनेन सप्तम्यन्तं पदम् स्थानीरूपेण कार्यं करोति । अतः अयं ईट्-आगमः अपृक्त-हल्-सार्वधातुक-प्रत्ययस्य आदौ आगच्छति । 4. किम् नाम सिच्? **च्लेः सिच्** (3.1.44) इत्यनेन लुङ्लकारस्य प्रत्यये परे 'च्लि' इत्यस्य विकरणप्रत्ययस्य 'सिच्' आदेशः भवति । अतः अनेन सूत्रेण किमुच्यते? अस्-धातोः अङ्गात् परम् , तथा सिच्-प्रत्ययान्त-अङ्गात् परम् यदि कश्चन एकव्यञ्जननिर्मितः सार्वधातुकप्रत्ययः अस्ति, तर्हि तस्य प्रत्ययस्य ईट्-आगमः भवति । यथा - 1) अस्-धातोः लङ्लकारस्य प्रथमपुरुष-एकवचनस्य 'आसीत्' इत्यस्य रूपसिद्धिम् पश्यामः - अस् + लङ् [**अनद्यतने लङ्** (3.2.111) इति लङ्] → आट् + अस् + ल् [**आडजादीनाम्** (6.4.72) इति लङ्लकारे परे अजादि-अङ्गस्य आडागमः] → आ + अस् + तिप् [**तिप्तस्झि...** (3.4.78) इति प्रथमपुरुष-एकवचनस्य विवक्षायाम् परस्मैपदिभ्यः धातुभ्यः तिप्-प्रत्ययः] → आ + अस् + शप् + ति [**कर्तरि शप्** (3.1.68) इति औत्सर्गिकम् विकरणम् शप्] → आ + अस् + ति [**अदिप्रभृतिभ्यः शपः** (2.4.72) इति शप्-प्रत्ययस्य लुक् ।] → आस् + ति [ **आटश्च** (6.1.90) इति वृद्धि-एकादेशः] → आस् + त् [**इतश्च** (3.4.100) इति इकारलोपः] → आस् + ईट् + त् [**अस्तिसिचोऽपृक्ते** (7.3.96) इत्यनेन अपृक्त-त्-प्रत्ययस्य ईट्-आगमः ।] → आसीत् [**हलन्त्यम्** (1.3.3) इति टकारस्य इत्संज्ञा । **तस्य लोपः** (1.3.9) इति तस्य लोपः। वर्णमेलनम् ।] अनेनैव प्रकारेण अस्-धातोः मध्यमपुरुषैकवचनस्य 'आसीः' इति रूपमपि सिद्ध्यति । 2) कृ-धातोः लुङ्लकारस्य प्रथमपुरुषैकवचनस्य 'अकार्षीत्' इत्यस्य रूपसिद्धिं पश्यामः - कृ + लुङ् [**लुङ्** (3.2.110) इति लुङ्] कृ + च्लि + ल् [**च्लि लुङि** (3.1.43) इति लुङ्लकारस्य प्रत्यये परे लकारविकरणम् 'च्लि'] → कृ + सिच् + ल् [**च्लेः सिच्** (3.1.44) इति च्ले-इत्यस्य सिच्-आदेशः । → कृ + स् + ल् [चकारस्य इत्संज्ञा, लोपः । इकारः उच्चारणार्थः ।] → अट् + कृ + स् + ल् [**लुङ्लङ्लृङ्क्ष्वडुदात्तः** (6.4.71) इति अडागमः] → अ + कृ + स् + तिप् [**तिप्तस्झि...** (3.4.78) इति प्रथमपुरुष-एकवचनस्य विवक्षायाम् परस्मैपदिभ्यः धातुभ्यः तिप्-प्रत्ययः] → अ + कृ + स् + त् [ **इतश्च** (3.4.100) इति इकारलोपः] → अ + कृ + स् + ई + त् [**अस्तिसिचोऽपृक्ते** (7.3.96) इत्यनेन अपृक्त-त्-प्रत्ययस्य ईट्-आगमः ] → अ + कार् + स् + ई + त् [**सिचि वृद्धिः परस्मैपदेषु** (7.2.1) इत्यनेन सिच्-प्रत्यये परे इगन्तस्य अङ्गस्य वृद्धिः । ऋकारस्य वृद्धिः रपरः आकारः ।] → अ + कार् + ष् + ई + त् [**आदेशप्रत्यययोः** (8.3.59) इत्यनेन इण्-वर्णात् परस्य सकारस्य मूर्धन्यादेशः षकारः । (रेफः इण्-प्रत्याहारे अस्ति ।)] → अकार्षीत् । अनेनैव प्रकारेण कृ-धातोः मध्यमपुरुषैकवचनस्य 'अकार्षीः' इति रूपमपि सिद्ध्यति । Sutrartha (English) ------------------- A सार्वधातुक प्रत्यय which contains only one हल् letter (and no अच् letter) gets an 'ईट्' आगम when it follows either the अस् धातु or the सिच्-प्रत्यय. Vasu English Summary -------------------- A single consonantal सार्वधातुक affix gets the augment ईट् after अस् (अस्ति) and after the Aorist character सिच् । Vasu English Translation ------------------------ A single consonantal सार्वधातुक affix gets the augment ईट् after अस् (अस्ति) and after the Aorist character सिच् । As आसात्, आसीः; अकार्षीत्, असावीत् ॥ Why do we say a single-consonant affix? Observe अस्ति, अकार्षम् ॥ Vart:- Prohibition of the *sthanivad*-*bhava* must be stated when आह् is substituted for ब्रु (3.4.84), and भू for अस् (2.4.52), before the augment ईट् ॥ Therefore not here आत्थ and अभूत् ॥ The word आत्थ is thus formed. आह् + सिप् = आह् + थल् (3.4.84) = आथ् + थ (8.2.35) = आत् + थ (8.4.55) = आत्थ ॥ Kashika ------- अस्तेरङ्गात् सिजन्तात् च परस्यापृक्तस्य सार्वधातुकस्य ईडागमो भवति। अस्तेः — आसीत्। आसीः। सिजन्तात् — अकार्षीत्। असावीत्। अलावीत्। अपावीत्। अपृक्त इति किम्? अस्ति। अकार्षम्। आहिभुवोरीटि प्रतिषेध इति स्थानिवद्भावप्रतिषेधः, तेनेह न भवति — आत्थ, अभूदिति॥ Siddhanta Kaumudi ----------------- सिच्च अस् चेति समाहारद्वन्द्वः । सिच्छब्दस्य सौत्रं भत्वम् । अस्तीत्यव्ययेन कर्मधारयः । ततः पञ्चम्याः सौत्रो लुक् । विद्यमानात्सिचोऽस्तेश्च परस्यापृक्तस्य हल ईडागमः स्यात् । इतीण्नेह । सिचो लुप्तत्वात् । अभूत् । हलः किम् । ऐधिषि । अपृक्तस्येति किम् । ऐधिष्ट । अभूताम् ॥ Laghu Siddhanta Kaumudi ----------------------- विद्यमानात् सिचोऽस्तेश्च परस्यापृक्तस्य हल ईडागमः ॥ Balamanorama ------------ **अस्तिसिचोऽपृक्ते** - अस्तिसिचोऽपृक्ते । अस्तिश्च सिच्चेति समाहारद्वन्द्वात्पञ्चमी ।ब्राउव ई॑डित्यत ईडित्यनुवर्तते ।तस्मादित्युत्तरस्ये॑ति परिभाषया 'अस्तिसिचः' इति पञ्चमी अपृक्तस्येति षष्ठी प्रकल्पयति । ततश्च अस्तेः सिचश्च परस्याऽपृक्तस्य ईडागमः स्यादिति प्राचीना व्याचक्षते । तथा सति लुङि अस्तेर्भूभावे अभूदिति न स्यात्, स्थानिवत्त्वेन अस्तितया तत्राऽपृक्तस्य हल ईडागमस्य दुर्वारत्वात् । तथा अगात् अस्थात् अपादित्यादावपिगातिस्थे॑ति सिचो लुक्यपि स्थानिवत्त्वेन सिचः परत्वादीडागमः स्यादतः प्रकारान्तरेण व्याचष्टे — सिच्च अश्चेत्यादिना । ननु सिचस्शब्दे सिच्शब्दस्य पूर्वखण्डस्यान्तर्वर्तिविभक्त्या पदत्वाच्चोः कुरिति कुत्वप्रसङ्ग इत्यत आह — सौत्रं भत्वमिति । तथ च भत्वेन पदत्वस्य बाधान्न कुत्वमिति भावः । ननु सिचस्शब्दे असित्यनेनैवास्तेर्लाभादस्तिग्रहणं किमर्थमित्यत आह — अस्तीत्यव्ययेन कर्मधारय इति । अस्तीति विभक्तिप्रतिरूपकमव्ययं लुप्तसुब्विभक्तिकं विद्यमानार्थकम् । तेन सिचस्शब्दस्य कर्मधारय इत्यर्थः । तथा चअस्तिसिच॑सित्येक पदमिति स्थितम् । सौत्रो लुगिति ।सुपां सुलुगित्यनेनेटति शेषः । तथा च अस्तिसिचेति पदाल्लब्धार्थमाह — विद्यमानादित्यादि । हल इति ।उतो वृद्धिर्लुकि हली॑स्यतोऽनुवृत्तस्य हलीत्यस्य षष्ठआ विपरिणाम इति भावः । इतीण्नेहेति । अनेन सूत्रेण अभूत् इत्यत्र ईडागमो नेत्यर्थः । कुत इत्यत आह — लुप्तत्वादिति । विद्यमानत्वविशेषणेन लुप्तात्सिचः परस्ये नेति भावः । एवं च अगादित्यादावपि लुप्तात्सिचः परस्य अस्तेर्लुङि कृतभूभावात्परस्य च नेत्युक्तप्रायम् । ऐधिषीति । एधधातोर्लुङि उत्तमपुरुषैकचवनम् इट् । अत्र इकारस्य सिचः परत्वेऽपि हल्वाऽभावादिडागमो नेति भावः । ऐधिष्टेति । एध धातोर्लुङि प्रथमपुरुषैकवचनम् । अत्र त इत्यस्य सिचः परत्वेऽपि एकाल्प्रत्ययत्वाऽभावेनाऽपृक्तत्वाऽभावादीडागमो नेति भावः । अभूतामिति । लुङस्तसि तस्य तामादेशः । च्लिः । सिच् । अट् । गुणनिषेधः । Tattvabodhini ------------- **अस्तिसिचोऽपृक्ते** - अत्र प्राञ्चः — अस्तिश्च सिच्चेति समाहारद्वन्द्वे अस्तिसिच्, तस्मादिति विग्रहं मत्वा अस्तेः सिचश्च परस्येति व्याचख्युः । तच्चिन्त्यम् । तत्र समासान्तस्याऽनित्यत्वाश्रयणेद्वन्द्वाच्चुदषहान्ता॑दिति प्राप्तस्य टचः परिहारेऽपि,समुद्राभ्राद्धः॑इति निर्देशात्अल्पाच्तर॑मित्येतदनित्यमित्याश्रित्य सिच्छब्दस्य परत्वसमर्थेऽपि,अस्तेर्भू॑रिति भूभावस्य स्थानिवत्त्वेनाऽस्तितया तत्रापृक्तस्य हल ईडागमस्य दुर्वारत्वात् । तथा गातिस्थाघुपाभूभ्यः सिचो लुक्यपि स्थानिवद्भावेन सिचः पर्तवानपायादगादस्थादभूदित्यादावतिप्रसङ्गाच्च । तदेतद्ध्वनयन्व्याचष्टे — सिच्च अस् चेति । सौत्रं भत्वमिति । तेनाऽत्र कुत्वजश्त्वे न भवत इति भावः । विद्यमानादिति । सिचोऽस्तेश्च विद्यमानविशेषणेन लुप्तात्सिचः, कृतभूभावादस्तेश्च नेति भावः॥ भाष्यकारास्त्वाहुः — अस्तिसिचोऽपृक्ते॑ इति द्विसकारकोऽयं निर्देश इति । अत्र माधवः — अस् स् इति समुदायस्याऽधातुतयाइक्श्तिपौ धातुनिर्देशे॑ इति श्तिप् प्रत्ययो न स्यादिति । अत्र वदन्ति — द्विसकारकनिर्देशे श्तिप् न स्यादिति यदुक्तं, तद्रभसोक्तिमात्रम् । इत्थं हि भाष्याशयः — सिच इत्यस्यानन्तरं सकारः प्रश्लिष्यते न तु श्तिपः प्राक्, अत एवसिचोऽपृक्ते इति द्विसकारकोऽयं निर्देश॑ इत्युक्तं भाष्ये । अन्यथाअस्तीति निर्देशो द्विसकारक॑ इत्येव ब्राऊयात्, एवं च सान्तादस्तेः, सान्तात्सिचेति चार्थो निर्बाध एव । द्वितीयस्च सकारो लुप्यते,संयोगान्तस्य पदान्तस्ये॑ति व्याख्यानात्, व्यपदेशिवद्भावेन पदान्तत्वाद्वितीयसकारस्य । न च संयोगान्तलोपस्याऽसिद्धत्वात्अतो रो॑रित्युत्वं दुर्लभमिति वाच्यं,संयोगान्तलोपो रोरुत्वे॑ इति वार्तिकेनाऽसिद्धत्वनिषेधात् ।संयोगान्तां यत्पद॑मिति व्याख्याने तु नेह संयोगान्तलोपः, किंतु सकारद्व्यस्यापि रुत्वे कृतेअतो रो॑रित्यनेनैक एवोकारो भविष्यति, विधेयविशेषणस्यैकत्वस्य पओकत्ववद्ववक्षितत्वात् । न च स्थानिभेदेन उकारद्वये सत्यपि न क्षतिः, सवर्णदीर्घानन्तरमाद्गुणे सति समीहितरूपसिद्धेरिति वाच्यम्, एकपदाश्रयत्वेनाऽन्तरङ्गत्वादाद्गुणे पश्चादवादेशप्रवृत्त्याअस्तिसिचोऽपृक्ते॑ इति रूपाऽसिद्धेः, तस्मादुक्तरीत्या एक एवोकार इति स्वीकर्तव्यम् । अत एव विधेयगतैकत्वस्य विवक्षितत्वात्एकः पूर्वपरयो॑रित्यत्रैकग्रहणं भाष्यादौ प्रत्याख्यातम् । नन्वति परे यो रुः, स त्वत#ः परो न भवति, अतः परस्तु अतिपूर्वो न भवतीति रुद्वयस्थाने कथमुकारः स्यात् । मैवम् ।रो॑रिति जातिपरनिर्देशेनाऽतः परत्वस्य पूर्वत्वस्य च संभवात् । न चैवमपि परत्वात्हशि चे॑ति प्रथमस्यैव रोरुः स्यादिति वाच्यं, रुत्वस्याऽसिद्धतया हश्परत्वाऽभावात् । न चाश्रयाऽसिद्धत्वमिति वाच्यं, स्थान्यंशे तथात्वेऽपि निमित्तभूतहशंशे तदसंभवात् । यद्यपि सत्वजातेरेकत्वादुभयोरपि एक एव रुर्भवतीति व्याख्यायां नायं क्लेशस्तथापि रुत्वविधौ पदस्येत्यनुवर्तनादेकपदान्तत्वं न संभवति, द्वितीयसकारस्य पृथक्पदत्वादित्याहुः । अपृक्तस्य हल इति ।अपृक्तसार्वधातुकस्ये॑ति प्राचोक्तं त्युक्तम्, ऐधिषीत्यादावतिव्याप्तेः, सार्वधातुकग्रहमव्यावत्र्याऽलाभाच्च॥ Padamanjari ----------- ठपृक्तेऽ इति षष्ठ।ल्र्थे सप्तमी, तेनापृक्तस्यैवायमागमः । आसीदिति । ठस् भुविऽ, शपो लुक्, तिप ईट् । अलावीदिति । लुङ्, ठिट ईटि इति सिचो लोपः । आहिभुवोरीट्प्रतिषेध इत्यादि । स्थानिवत्सूत्र एतद्वार्तिकम् । आहिभुवोः स्थानिवद्भावस्य प्रतिषेधो वक्तव्यः, ईट्प्रतिषेधः प्रयोजनमित्यर्थः । आत्थेति ।'व्रुवः पञ्चानाम्' इत्यादिना सिपस्थल्, ब्रुव आहादेशः, ठाहस्थःऽ इति हकारस्य थत्वम्, तस्य'खरि च' इति चर्त्वम् - तकारः । अभूदिति । लुङ्, ठस्तेर्भूःऽ'गातिस्था' इत्यादिना सिचो लुक् । अत्र स्थानिवद्भावप्रतिषेधादस्त्याश्रयस्तावदीण्न भवति । सिजाश्रयोऽपि न भवति, स्थानिवद्भावप्रतिषेधसामर्थ्यात् । अस्त्वेवमस्त्यादेशे भुवि, शुद्धे तु भवतौ सिजाश्रय ईट् प्राप्नोति, तस्मादीडेवात्र प्रतिषेध्यः । आहिविषये परिहारान्तरं ज्ञापकात्सिद्धम्, यदयं झलादिप्रकरणे ठाहस्थःऽ इति थत्वं शस्ति । ननु च भूतपूर्वगत्यर्थमेतस्यात् - झलादिर्यो भूतपूर्वस्तत्रेति ? नैतदस्ति; एवं तर्हि पञ्चानामपि तिबादीनां भूतपूर्वझलादित्वमिति सर्वत्र थत्वप्रसङ्गः, ततश्चाथमेव विदध्यात् ॥ Nyaas ----- `अपृक्ते` इति। सुब्वयत्ययेन षष्ठर्थे सप्तदमी, तेनायमपृक्तस्यैवेट्। अस्तिग्रहणं लङर्थय्। `आसीत्` इति। `अस भुवि` (धातुपाठः-1065), लङ्, अदादित्वाच्छपो लुक्, **आडजादीनाम्** (6.4.72) इत्याट्। `आटश्च` (6.1.87) इति वृद्धिः। `अकार्षीत्` इति। सिचि वृद्धिः। `अलावीत्, अपाधीत्` इति। `इट ईटि` (8.2.28) इति सिचो लोपः। `आत्थ` इति। अत्र ब्राउष उत्तरस्य सिपः `ब्राउवः पञ्चानामदित आहोब्राउवः` (3.4.84) इति थलि कृते ब्राउवश्चाहादेशे कृते तस्य स्थानिवद्भावे सति ब्राऊञ्ग्रहणेन ग्रहमात्? थलोऽपि सार्वधातुकग्रहणेन ग्रहणादीट्? प्राप्नोति। `अभूत्` इति। अस्तेः सिच्, **अस्तेर्भूः** (2.4.52) इति भूभावे तस्य स्थानिवद्भावे सत्यस्तिग्रहणेन ग्रहणादीट्? प्राप्नोति, स कस्मान्न भवति? इत्याह - `आहिभुवोः` इत्यादि। `ईटि प्रतिषेधः` इति। आहेर्भुवश्चेटि कर्तव्ये स्थानिवद्बावस्य प्रतिषेधः। तेनेह न भवति - आत्व` इति। `आहस्थः` (8.2.35) इति हकारस्य थकारः, तस्य `खरि च` इति तकारः। `अभूत्` इति। `गातिस्था` (2.4.77) इति सिचो लुक्॥ Prakriyasarvasvam ----------------- अस्तेः सिचश्च परस्यापृक्तसार्वधातुकस्य ईडागमः स्यात् । जि सीत् । Sutra Prayogas -------------- * **व्यकारीत्सहाऽऽसनं** (भट्टिकाव्यम्): `अस्ति - सिचः` इतिइट् । * **आसीद्** (भट्टिकाव्यम्): `अस्तिसिचोऽपृक्ते` इतीट्।