73092: तृणह इम् =============== **Padacheda:** तृणहः | S | 6 | 1 | इम् | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- Before a पित् सार्वधातुक affix beginning with a consonant, इ is added after अ of the verbal stem तृणह्। Vasu English Translation ------------------------ Before a पित् सार्वधातुक affix beginning with a consonant, इ is added after अ of the verbal stem तृणह्। As तृणेढि, तृणेक्षि, तृणेह्मि, अतृणेट् ॥ In the last example though the affix vanishes altogether, yet it produces its effect. Why beginning with a consonant? Observe तृणहानि ॥ Why a पित् affix? Observe तृण्ढः with तस् ॥ The stem तृणह is formed from the root तृह् (*Rudhadi*) with the *vikarana* श्नम्, and is so exhibited in the *sutra* in order to indicate that the augment इम् is added after the *vikarana* श्नम् has been added, and that the root तृह् of *Tudadi* class is not to be taken. The above forms are thus derived:- तृह् + श्नम् + तिप् = तृणह् + इम् + ति = तृणइह + ति = तृणेह् + ति (6.1.87) = तृणेढ् + ति (8.2.31) = तृणेढ् + धि (8.2.40) = तृणेढ् + ढि (8.4.41) = तृणेढि with the elision of one ढ (8.3.13). The form तृणेक्षि is similarly formed by (8.2.41), the ढ् being changed to क before सि of सिप् ॥ अतृणेट् is the लङ् 2nd and 3rd Person Singular. Bhashya ------- तृणह इम् किमर्थं तृहिरागतश्र्नङ्को गृह्यते न तृहेरिम्भवतीत्येवोच्येत ? ॥ तृणहिग्रहणं श्र्नमिमोर्व्यवस्थार्थम् तृणहिग्रहणं (क्रियते(4) ॥ किं प्रयोजनम् ? ॥ श्र्नमिमोर्व्यवस्थार्थम् । ) श्र्नमि कृते इम्यथा स्यात् तृहिग्रहणे हीम्विषये श्र्नमभावोऽनवकाशत्वात् तृहिग्रहणे हि सतीम्विषये श्र्नमोऽभावः स्यात् ॥ किं कारणम् ? ॥ अनवकाशत्वात् । अनवकाश इम् श्र्नमं बाधेत ॥ इदमयुक्तं वर्तते ॥ किमत्राऽयुक्तम् ? ॥ तृणहिग्रहणं श्र्नमिमोर्व्यवस्थार्थमित्युक्त्वा, तत उच्यते - तृहिग्रहणे हीम्विषये श्र्नमभावोऽनवकाशत्वादिति । तत्र वक्तव्यं- तृणहिग्रहणं श्र्नमिमोर्भावाय, तृहिग्रहणे हीम्विषये श्र्नमभावोऽनवकाशत्वादिति ॥ तत्तर्हि वक्तव्यम् ? ॥ न वक्तव्यम् । व्यवस्थार्थमित्येव सिद्धं, न ह्यसतो व्यवस्थाऽस्ति(1) ॥ ( तृणह इम् ) ॥ Kashika ------- तृणह इत्येतस्याङ्गस्य इमागमो भवति हलि पिति सार्वधातुके। तृणेढि। तृणेक्षि। तृणेह्मि। अतृणेट्। वर्णाश्रयेऽप्यत्र प्रत्ययलक्षणमिष्यते। हलीति किम्? तृणहानि। पितीत्येव — तृण्ढः। तृणह इत्यागतश्नम्को गृह्यते, श्नमि कृत इमागमो यथा स्यादिति॥ Siddhanta Kaumudi ----------------- तृहः श्नमि कृते इमागमः स्याद्धलादौ पिति । तृणेढि । तृण्ढः । ततर्ह । तर्हिता । अतृणेट् । हिनस्ति । जिहिंस । हिंसिता ।{$ {!1457 उन्दी!} क्लेदने$} । उनत्ति । उन्तः । उन्दन्ति । उन्दाञ्चकार । औनत् । औन्ताम् । औन्दन् । औनः । औनत् । औनदम् ।{$ {!1458 अञ्जू!} व्यक्तिम्रक्षणकान्तिगतिषु $}। अनक्ति । अङ्क्तः । अञ्जन्ति । आनञ्ज । आनञ्जिथ । आनङ्क्थ । अङ्क्ता । अञ्जिता । अङ्ग्धि । अनजानि । आनक् ॥ Laghu Siddhanta Kaumudi ----------------------- तृहः श्नमि कृते इमागमो हलादौ पिति सार्वधातुके। तृणेढि। तृण्ढः। ततर्ह। तर्हिता। अतृणेट्॥ Balamanorama ------------ **तृणह इम्** - तृणह इम् । 'तृणह' इति षष्ठी । कृतश्नमस्तृहधातोर्निर्देशः । र॒नाभ्यस्तस्ये॑त्यतः पितीति,उतो वृद्धि॑रित्यतो हलीति चानुवर्तते । फलितमाह - तृहः श्नमि कृते इति । मित्तवादन्त्यादचः परः । 'श्नमि कृते' इत्यनुक्तौ तु येन नाप्राप्तिन्यायेन इमागमेन श्नम्बाध्येत,सत्यपि संभवे बाधनं भवती॑ति नयायात् । अन्यथाब्राआहृणेभ्यो ददि दीयतां, तक्रं कौण्डिन्याये॑त्यत्र तक्रेण दधि न बाध्येत, श्नमा शप्च न बाध्येत, देशभेदेन उभयसंभवादिति भावऋ । तृणेढीति । तृणह् तस् इति इमागमे आद्गुणे तृणेह् ति स्थिते ढत्वधत्वष्टुत्वढलोपा इति भावः । तृण्ढ इति । तसि श्नमि कृते, तृणह् तस् इति स्थिते , तसोऽपित्त्वादिमागमाऽभावेश्नसो॑रित्यल्लोपे ढत्वधत्वष्टुत्वढलोपा इति भावः । तृंहन्ति । तृणेक्षि तृण्ढः तृण्ढ । तृणेहिऋ तृंह्वः तृंह्मः । ततर्हेति.ततृहतुः । ततर्हिथ । ततृहिव । तर्हितेति । सेडिति भावः । तर्हिष्यति । तृणेढु - तृण्ढात् तृण्ढाम् तृंहन्तु । तृण्ढि - तृण्ड्ढि - तृण्ढात् तृण्ढम् तृण्ढ । तृणहानि तृणहाव तृणहाम । अतृणेडिति । लङ स्तिपि श्नमि इम् हल्ङ्यादिलोपः ढत्वजश्त्वे इति भावः । अतृण्ढामतंहन् । अतृणेट् अतृण्ढमतृण्ढ । अतृणहमतृंह्व अतृंह्म । तृंह्रात् । तृह्रात् । अतर्हीत् । अतर्हिष्यत् । हिसिधातोरुदाहरति - हिनस्तीति । इह श्नमि इदित्त्वान्नुमि च कृते 'श्नान्न लोपःर' इति नुमो लोप इति भावः । हिंस्तः हिंसन्ति । हिनस्सि हिंस्थः हिंस्थ । हिनस्मि हिंस्वः हिंस्मः । जिहिंसेति । किति इदित्तवान्नलोपो न । जिहिंसतुः । जिहिंसिथ । हिंसितेति । सेडिति भावः । हिंसिष्यति । हिनस्तु हिंस्ताम् । हौ श्नमि नुमि कृते 'श्नान्नलोपः' इतिनुमो लोपे हेरपित्त्वेन ङित्त्वात्श्नसो॑रित्यल्लोपेधिचे॑ति सलोपे, हिन्धीति रूपम् । हिंस्तात् । हिनसानि । अहिनत् अहिस्तामहिंसन् । सिपि रुर्वा - अहिनः अहिनत्, अहिंस्तम् । अहिनसमहिंस्व । हिंस्यात् हिंस्याताम् । आशीर्लिङ श्नमभावान्नुमेव । इदित्त्वान्नलोपो न । हिंस्यादित्येव । हिंस्यास्ताम् । अहिंसीत् । अहिंसिष्यत् । उन्दी क्लेदने । उन्दन्तीति । उनत्सि उन्त्थः । उनद्मि उन्द्वः । उन्दामिति । इजादेश्चेत्याम् । उन्दिता । उन्दिष्यति । उनत्तु - उन्त्तात् । उन्द्धि । उनदानि । लह्राह - औनदिति । औत्त्वाद्वेट् । अनक्तीति । श्नमि कृते परसवर्णस्याऽसिद्धत्वात् 'श्नान्न लोपः' इति नकारलोपे जस्य कुत्वेन गः, तस्य चर्त्वेन क इत भावः । अङक्त इति । नलोपे अल्लोपे जस्य कुत्वेन गः । गस्य चर्त्वेन कः । श्नमो नस्य परसवर्णो ङ इति भावः । अञ्जन्तीति । नलोपाऽल्लोपौ । श्नमो नस्य परसवर्णो ञ इति भावः । अनक्षि अङ्क्थः । अनज्मि अञ्ज्वः । अङ्ग्धीति । हौ श्नमि धिभावे नलोपाऽल्लोपौ । जस्य कुत्वेन गकारः । नस्य परसवर्णो ङकार इति भावः । अनजानीति । श्नान्नलोपः । आटः पित्त्वादल्लोपो न । लह्राह - आनगिति । आङ्क्ताम् । आञ्जन् । अञ्ज्यात् । अज्यात् । Tattvabodhini ------------- **तृणह इम्** - तृणह इम् ।तृहू॑ इति वक्तव्ये सश्नमो ग्रहणं विशेषविहितेन इमा श्नमो बाधो माभूदित्येवमर्थम् । न च तौदादिकस्य तृह इत्यस्य व्यावृत्त्यर्थमेवास्त्विति शङ्क्यं, ततः परस्य हलादेः पितः सार्वधातुकस्य विकरणेन व्यवधानात् ।नाभ्यस्तस्याचि पिती॑त्यतः पितीति,उतो वृद्धि॑रित्यतो हलीति च वर्तते । तदाह — हलादौ पितीति ।प्रत्ययलोपे प्रत्ययलक्षण॑मिति सूत्रस्थभाष्यकारीयनिष्कर्षे तु हलीति नानुवर्तते, किं तु पितीत्यनुवर्तत एव । तेनतृण्ढ॑ इत्यत्र नातिप्रसङ्गः । नच हलीत्यनुवृत्तौ तृणहानीत्यत्रातिप्रसङ्ग इति वाच्यम्, अचि नेत्यनुवर्तनात् । उन्दी क्लेदनमाद्रीभावः । अञ्जू । व्यक्तिर्विवेचनम् । म्रक्षणं — स्निग्धता । Padamanjari ----------- तृणेढैइति । इमि कृते श्नमोऽकारेण सह ठाद्गुणःऽ,'हो ढः' ,'झषस्तथोर्धो' धःऽ, ष्टुअत्वम्, ढलोपः । तृणेक्षीति ।'षढोः कः सि' । अतृणेडिति । लङ्, तिप्सिपोरन्यतरः, हल्ङ्यादिलोपः, ढत्वजश्चचर्त्वानि । ननुं च'हलादौ' इत्युच्यते, न चात्र हलादिं पश्यामः ? प्रत्ययलक्षणेन । वर्णाश्रये नास्ति प्रत्ययलक्षणम् ? अत आह - वर्णाश्रयेऽप्यत्रेति । यत्र केवलो वर्ण एव निमितं यस्य स वर्णाश्रयः, यथा - गवे हितं गोहितमित्यवादेशः । इह तु पिति सार्वधातुक इति प्रत्यय एव निमितम्, हल् तस्य विशेषणम्, तेनासौ प्रत्ययनिमितत्वाद्भवत्येवेत्यर्थः । तृणहानीति । लोट्,'मेनिः' । तृणाढ इति । तस् ढत्वादि पूर्ववत्,'श्नसोरल्लोपः' , अनुस्वारपरसवर्णौ । अथ किमर्थं तृहिरागतश्नम्को गृह्यते ? रौधादिकस्य'तृह हिंसायाम्' इत्यस्य ग्रहणं यथा स्यात्,'तृहि हिंसायाम्' इत्यस्य तौदादिकस्य ग्रहणं मा भूत् । नास्य पिद्धलादिसार्वधातुक मनन्तरं सम्भवति; विकरणेन व्यवधानात् । ननु चास्यापि यङ्लुगन्तस्य सम्भवति, एवं तर्हि सानुबन्धकत्वात् तस्य ग्रहणं न भविष्यति ? अत आह - तृणह इतीत्यादि । यद्यागतश्नम्को न गृह्यएत, ततो नाप्राप्ते श्नम्यारभ्यमाण इम् तस्य बाधकः स्यात् । अथापि न बाधकः, एवमपि श्नमि कृते इमितीष्टव्यवस्था न स्यात् । विपर्ययोऽपि स्यात् - पूर्वमिमागमः, पश्चात् श्नमिति । सश्नम्कनिर्द्देशे तु न श्नमो निवृत्तिर्भवति, इष्टा च व्यवस्था सिध्यति - पूर्वं श्नम्, पश्चादिमिति । अतस्तदर्थमागतश्नन्को गृह्यते । किञ्च - रौधादिकस्यापि यङ्लुगन्तस्य ग्रहणं भवति सश्नम्कनिर्द्देशादेव ॥ Nyaas ----- `तृह हिंसायाम्` (धातुपाठः-1455) इति रुधादिः, `तृहू तृभू हिंसार्थाः (धातुपाठः-1348,1350) इति तुदादी - तयोराद्यस्येदं ग्रहणम्, नेतरस्य। तस्य विकरणेन व्यवधावादनन्तरो हल्? न सम्भवतीति। `तृणेढि` इति। `हो ढः` (7.2.31) , **झषस्तथोर्धोऽधः** (8.2.40) इति धत्वम्, **ष्टुना ष्टुः** (8.4.41) इति ष्टुत्वम्, **ढो ढे लोपः** (8.3.13) , तस्येमागमः, **आद्गुणः** (6.1.87) । `तृणेक्षि` इति। `धढोः कः सि` (8.2.41) इति कत्वम्। `अतृणेट्` इति। लङ्, तिप्, हल्ङ्यादिलोपः (6.1.66) , ढत्वे कृते **झलां जशोऽन्ते** (8.2.39) इति जश्त्वम् - ढकारस्य डकारः, तस्य `वावसाने` (8.4.55) इति चर्त्वम् - टकारः। ननु चात्र लुप्तत्वात्? सार्वधातुकस्येमागमेन न भवितव्यम्, लुप्तोऽपि तत्र प्रत्ययलक्षणेन भविष्यतीति चेत्? न; वर्णाश्रये प्रत्ययलक्षणं नास्तीत्यत आह - `वर्णाश्रये` इत्यादि। एवं मन्यते - `वर्णाश्रये नास्ति प्रत्ययलक्षणम्` (व्या।प।96) इति नानेन सर्वधा वर्णाश्रयस्य प्रत्ययलक्षणस्य प्रतिषेधः क्रियते, किं तर्हि? **प्रत्ययलोपे प्रत्ययलक्षणम्** (1.1.62) इत्यत्र प्रत्ययग्रहणस्य प्रयोजनं व्याख्यायते। प्रत्यये लुप्ते द्विविधं कार्यं विज्ञायते - प्रत्ययनिमित्तम्, अप्रत्ययनिमित्तञ्च। तत्र यत्? प्रत्ययनिमित्तं तत्? प्रत्ययलोपे यथा स्यात्, इतरन्मा भूदित्येवमर्थम्। तेन गवे हितं गोहितमित्यत्र लुप्तायां विभक्ताववादेशो न भवति। अवादेशस्य ह्रचीत्यधिकाराद्वर्णो निमित्तम्, न प्रत्यय एव। इह त्वङ्गाधकारात्? प्रत्यय एव हलादिराश्रीयत इतीमागमस्य प्रत्ययनिमित्तता। तेनासौ प्रत्ययलक्षणेन भवत्येव। यदि ह्रसौ प्रत्ययनिमित्तस्तत्कथं वर्णाश्रयेऽपयत्रेतयुक्तम्? अतृणेडित्यत्रोदाहरणे त्ययस्य वर्णमात्रत्वात्? प्रत्ययविशेषणत्वेन वी वर्णस्याश्रयणादेवमुक्तम्, न त्वप्रत्ययनिमित्तत्वात्, वर्णस्यापि तकारस्य प्रत्ययत्वापरित्य#आगत्। `तृणहानि` इत्यत्र तदेव लोडुत्तपुरुषैकवचनम्। `तृण्ढः` इति। तस्, `श्नसोरन्लोपः` (6.4.111) , पूर्ववड्ढत्वादि, **नश्चापदान्तस्य झलि** (8.3.24) इत्यनुस्वारः, **अनुस्वारस्य ययि परसवर्णः** (8.4.58) इति परसवर्णो णकरः। अथ किमर्थमिह तृहीरागतश्नम्को गृह्रते, न तृह इत्येवोच्येत? इत्याह आह - `तृणह` इत्यादि। यद्यागतश्नम्कस्य ग्रहणं न क्रियेत, ततो नाप्राप्ते श्नम्ययमारभ्यते, देशहेतुकश्च तयोर्विरोधोऽस्तीति श्नम णमा बाधा स्यात्। असत्यामपि बाधायामनिष्टा व्यवस्था स्यात् - पूर्वमिम्, पश्चात्? श्नम्; ततश्चानिष्टं रूपं स्यात्। आगतश्नम्कस्य ग्रहणे सश्नम्कस्य तृहेरिमि विधीयमाने समावेशस्तयोर्भवति, इष्टा च व्यवश्था सम्पद्यते - पूर्व श्नम्, पश्चादिम्; तस्मात्? श्नमि कृते सतीमागमो भवेदित्येवमर्थमागतश्नम्कस्तृहिर्ग्रृह्रते॥ Prakriyasarvasvam ----------------- तृहेः श्नमि कृते पिति हलि सार्वधातुके पर इमागमः स्यात् । ‘आद् गुणः’ (६-१-८७) तृणेढ्, ति । ढत्वधत्वष्टुत्वढलोपाः । तृणेढि । अल्लोपे ढत्वादि ‘झरो झरि—’ (८-४-६५) । तृण्ढः । तृम्हन्ति । ढस्य कः । तृणेक्षि । तृण्ढः । तृण्ढ । तृणेह्मि । तृंह्वः । तृंह्मः । कर्मणि तृह्यते । तृह्यात् । तृणेढु, तृण्ढात् । हेर्धिः । ढत्वष्टुत्वे । ‘झरो झरि—’ (८-४-६५) । तृण्ढि । तृणहानि । तृणहाव । हल्ङ्यादिलोपे पदान्ते हो ढः । अतृणेट् । अतृण्ढाम् । अतृंहन् । अतृणेढ् । अतृण्ढम् । अतृणहम् । अतृंह्वः । लुङि अतर्हीत् । अतर्हिष्टाम् । कर्मणि अतर्हि । अतर्हिषाताम् । ततर्ह । ततृह्तुः । ततर्हिथ । ततृहिव । कर्मणि ततॄहे । ततॄहिषे । ततॄहिध्वे, ततॄहिष्वे । तृह्यात् । तर्हिता । तर्हिष्यति । कर्मणि तर्हिषीष्ट । हिसि हिंसायाम् । इदित्त्वान्नुम् ।