73082: मिदेर्गुणः ================= **Padacheda:** मिदेः | S | 6 | 1 | गुणः | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- For इ in मिद् there is substituted a गुण before a शित् affix. Vasu English Translation ------------------------ For इ in मिद् there is substituted a गुण before a शित् affix. As मेद्यति, मेद्यतः, मेद्यन्ति ॥ Why मिद् only? Observe स्विद्यन्ति, क्लिद्यन्ति ॥ The root ञिमिदा belongs both to the *Bhvadi* and the *Divadi* classes. The *Bhvadi* मिद् will get *guna* before शप् by virtue of (7.3.86), but the *Divadi* मिद् would not have got *guna* before श्यन्, as this affix is ङित् (1.2.4): hence the necessity of this *sutra*. Before non शित् affixes there is no *guna*, as मिद्यते, मेमिद्यते ॥ Kashika ------- मिदेरङ्गस्येको गुणो भवति शिति प्रत्यये परतः। मेद्यति, मेद्यतः मेद्यन्ति। शितीत्येव — मिद्यते॥ Siddhanta Kaumudi ----------------- मिदेरिको गुणः स्यादित्संज्ञकशकारादौ प्रत्यये । एश आदिशित्त्वाभावान्नाभावेन गुणः । मिमिदे । अमिदत् । अमेदिष्ट ।{$ {!744 ञिष्विदा!} स्नेहनमोचनयोः$} । मोहनयोरित्येके । स्वेदते । सिष्विदे । अस्विदत् । अस्वेदिष्ट । ञिक्ष्विदा चेत्येके । अक्ष्विदत् । अक्ष्वेदिष्ट ।{$ {!745 रुच!} दीप्तावभिप्रीतौ च$} । रोचते सूर्यः । हरये । रोचते भक्तिः । अरुचत् । अरोचिष्ट ।{$ {!746 घुट!} परिवर्तने$} । घोटते । जुघुटे । अघुटत् । अघोटिष्ट ।{$ {!747 रुट!} {!748 लुट!} {!749 लुठ!} प्रतिघाते अरुटत्$} । अरोटिष्ट ।{$ {!750 शुभ!} दीप्तौ$} ।{$ {!751 क्षुभ!} संचलने$} ।{$ {!752 णभ!} {!753 तुभ!} हिंसायाम्$} । आद्योऽभावेऽपि । नभन्तामन्यके समे । मा भूवन्नन्यके सर्वे इति निरुक्तम् । अनभत् । अनभिष्ट । अतुभत् । अतोभिष्ट । इमौ दिवादी क्र्यादी च ।{$ {!754 स्रंसु!} {!755 ध्वंसु!} {!756 भ्रंसु!} अवस्रंसने$} । ध्वंसु गतौ च । अङि नलोपः । अस्रसत् । अस्रंसिष्ट । नास्रसत्करिणां ग्रैवमिति रघुकाव्ये । भ्रंशु इत्यपि केचित्पेठुः । अत्र तृतीय एव तालव्यान्त इत्यन्ये । भ्रशु भ्रंशु अधः पतन इति दिवादौ ।{$ {!757 स्रम्भु!} विश्वासे$} । अस्रभत् । अस्रम्भिष्ट । दन्त्यादिरयम् । तालव्यादिस्तु प्रमादे गतः ।{$ {!758 वृतु!} वर्तने$} । वर्तते ॥ Balamanorama ------------ **मिदेर्गुणः** - ॒मिमिदे॑ इत्यत्र लिटःअसंयोगा॑दिति कित्त्वेऽपि गुणं शङ्कितुमाह — मिदेर्गुणः ।मिदे॑रित्यवयवषष्ठी । गुणश्रुत्या 'इको गुणवृद्धी' इति परिभाषया इक इत्युपतिष्ठते,ष्ठिवुक्लमुचमां शिति॑ इत्यतः शितीत्यनुवर्तते । श् चासाविच्चेति कर्मधारयः । तेन च अधिकृताऽङ्गाक्षिप्तः प्रत्ययो विशेष्यते । तदादिविधिः । इत्संज्ञशकारादौ प्रत्यये परे इति लभ्यते । तदाह — मिदेरित्यादिना । दैवादिकमिदेः श्यनि मेद्यते इत्याद्युदाहरणम् । श् इत् यस्येति बहुव्रीहिमाश्रित्य शिति प्रत्यये परे मिदेरिको गुण इत्येव कुतो न व्याख्यायत इत्याशङ्क्य मिमिदे इत्यत्र गुणाऽभावार्थमित्संज्ञकशाकारादाविति व्याख्येयमित्यभिप्रेत्याह — एश आदिशित्त्वाभावादिति । ञिष्विदेति । षोपदेशोऽयम् । अनिट्सु स्विद्येति श्यन्विकरणस्यैव ग्रहणादयं सेट् । रुच दीप्तावभिप्रीतौ चेति । अभिप्रीतिः- प्रीतिविषयीभवनम् । दीप्तौ उदाहरत — रोचते सूर्य इति । प्रकाशत इत्यर्थः । अभिप्रीतौ उदाहरति — हरये रोचते भक्तिरिति । भक्तिर्हर्याश्रितप्रीतिविषयो भवतीत्यर्थः ।रुच्यर्थाना॑मिति संप्रदानत्वाच्चतुर्थी । क्षुभ संचलने इति । क्षोभते । क्षुभ्यतीति दिवादौ । क्षुभ्नातीति क्र्यादौ । णभधातुर्णोपदेश नभते । आद्योऽभावे चेति । चात्संचलनेऽपि । तत्र अभावार्थकस्य प्रयोगं दर्शयति — नभन्तामन्यके समे इति । मन्त्रोऽयम् । नन्वत्र मन्त्रे णभेर्हिंसार्थकत्वमेव कुतो न स्यादित्य आह — मा भूवन्नन्यके सर्वे इति ।नभन्ता॑मित्यस्य विवरणं — भा भूवन्निति । न भवन्तीत्यर्थः ।समे॑इत्यस्य विवरणं — सर्वे इति । निरुक्तमिति । वेदव्याख्यानात्मको यास्कप्रणीतो ग्रन्थविशेषो निरुक्तम् । रुआंसु ध्वंसु भ्रंसु इति । त्रयो नोपधा इति भावः । नारुआसदिति । 'नारुआंस' दित्यपपाठः । नचाऽरुआंसदिति लङो रूपमिति भ्रमितव्यं, तत्र परस्मैपदाऽसंभवात् । रुआम्भुदातुरकारमध्यः । वृतु वर्तने इति । उदित् ऋदुपधः सेट्कः । वर्तते इति । शपि गुणे रपरत्वम् । ववृते इति ।असंयोगा॑दिति कित्त्वाद्गुणाऽभावे द्वित्वे उरदत्त्वे रपरत्वे हलादिशेषे रूपम् । लुटि — वर्तिता । Tattvabodhini ------------- **मिदेर्गुणः** - मिदेर्गुणः ।ष्ठिवुक्लमुचमा॑मित्यतः शितीत्यनुवर्तते । तत्र शश्चासौ इच्चेति कर्मदारयात्समप्तमी । अङ्गाक्षिप्तप्रत्ययस्तु विशेष्यः । तेनयस्मिन्विधि॑रिति तदादिविधिः प्रवर्तते । तदाह — इत्संज्ञकशकारादाविति । आदिशित्त्वाभावादिति । मेद्यति मेद्यत इत्यादौ तुदिवादिभ्य॑ इति श्यन आदिशित्त्वाद्गुणो भवत्येव । मिमिदे इति ।शिती॑ति बहुव्रीहौ त्विह स्यादेव गुणः । तथा पपे तस्थे इत्यादौ पिबादयोऽपि स्युरिति भावः । ञिष्विदा । अनिट्कारिकायां स्विद्यतिरिति श्यना निर्देशादयं सेट् । स्वेदिता । स्वेदिष्यते । ञिक्ष्विदा चेति । पूर्वोक्तयोरेवार्थयोरयमिति बोध्यम् । हरये इति ।रुच्यर्थाना॑मिति संप्रदानसंज्ञायां चतुर्थी । घुट् ।परिवर्तनम् — इतस्ततो भ्रमणम् । जुघुटे इति ।असंयोगा॑दिति कित्त्वाद्गुणाऽभावः । क्षुभ । संचलनं — प्रकृतिविपर्यासो,मन्थनं च । क्षोभते ।क्षुभ्यती॑ति दिवादौ ।क्षुभ्नाती॑ति क्र्यादौ । नारुआसदिति ।नारुआंस॑दित्यपपाठ एव । न चेदं लहो रूपं, तत्र परस्मैपदाऽसंभवादिति भावः । Padamanjari ----------- मेद्यतीति । श्यन् । मिद्यत इति । भावे यक् ॥ Nyaas ----- `ञिमिदा स्नेहने` (धातुपाठः-743,1243) इति भौवादिको दैवादिकश्च, तत्र दिवादेरिह ग्रहणम्; इतरस्व ह्रङित्त्वाच्छपः **पुगन्तलघूपधस्य च** (7.3.86) इत्येवं गुणः सिद्धः। `मिद्यते` इति। **भावकर्मणोः** (1.3.13) इत्यात्मनेपदम्, **सार्वधातुके यक्** (3.1.67) ॥ Prakriyasarvasvam ----------------- मिदेः शिति परे गुणः स्यात् । मेद्यति । भावे मिद्यते । लुङि पुषाद्यङ् । अमिदत् । अमिदताम् । मिमेद । मिमिदतुः । मिमेदिथ । मिमिदिव । मिद्यात् । मेदिता । मेदिष्यति । भावे अमेदि । मिमिदे । मेदिषीष्ट । दीङ् क्षये । दीयते । भावेऽप्येवम् । लुङि सिचो गुणकृत्त्वाद् 'मीनाति- मिनोति-' इत्येज्निमित्त आत्वम् । अदास्त । अदासाताम् । अदाध्वम् । अदासि । भावे चिणि वृद्ध्यवात्वे युक् । अदायि लिटि,