73072: क्सस्याचि

Padacheda: क्सस्य | S | 6 | 1 |

अचि | S | 7 | 1 |

Sutrartha


Vasu English Summary

The अ of the Aorist characteristic कस् is elided before an affix beginning with a vowel.

Vasu English Translation

The अ of the Aorist characteristic कस् is elided before an affix beginning with a vowel. As अधुक्षाताम्, अधुक्षाथाम्, अधुक्षि from the root दुह् ॥ Had the अ not been elided before आताम् and आथाम्, then इय must have been substituted for it according to (7.2.81). Why do we say before an affix beginning with a vowel? Observe अधुक्षत्, अधुक्षताम् ॥ Why do we say क्स and not only स? So that the elision should not take place here, as उत्सौ, उत्साः, वत्सौ, वत्साः, तृणसौ, तृणसः ॥

Kashika

क्सस्याजादौ प्रत्यये लोपो भवति। अधुक्षाताम्। अधुक्षाथाम्। अधुक्षि। अचीति किम्? अधुक्षत्। अधुक्षताम्। ककारवत उपादानं किम्? इह मा भूत् — उत्सौ, उत्साः। वत्सौ, वत्साः॥

Siddhanta Kaumudi

अजादौ तङि क्सस्य लोपः स्यात् । अलोऽन्त्यस्य-(SK42) । अघृक्षाताम् । अघृक्षन्त ।{$ {!651 ग्लह!} च$} । ग्लहते ।{$ {!652 घुषि!} कान्तिकरणे $}। घुंषते । जुघुंषे । केचिद्धषेत्यदुपधं पठन्ति ॥ अथार्हत्यन्ताः परस्मैपदिनः ।{$ {!653 घुषिर्!} अविशब्दने$} । विशब्दनं प्रतिज्ञानं ततोऽन्यस्मिन्नर्थे इत्येके । शब्दे इत्यन्ये पेठुः । घोषति । जुघोष । घोषिता । इरित्त्वादङ् वा । अघुषत् । अघोषीत् ।{$ {!654 अक्षू!} व्याप्तौ$} ॥

Laghu Siddhanta Kaumudi

अजादौ तङि क्सस्य लोपः। अधुक्षाताम्। अधुक्षन्त। अदुग्धाः, अधुक्षथाः। अधुक्षाथाम्। अधुग्ध्वम्, अधुक्षध्वम्। अधुक्षि। अदुह्वहि, अधुक्षावहि। अधुक्षामहि। अधोक्ष्यत॥ एवं ॥ {$ {! 22 दिह !} उपचये $} (धातुपाठे (02.0005)) ॥ {$ {! 23 लिह !} आस्वादने $} (धातुपाठे (02.0006)) ॥ लेढि। लीढः। लिहन्ति। लेक्षि। लीढे। लिहाते। लिहते। लिक्षे। लिहाथे। लीढ्वे। लिलेह, लिलिहे। लेढासि, लेढासे। लेक्ष्यति, लेक्ष्यते। लेढु। लीढाम्। लिहन्तु। लीढि। लेहानि। लीढाम्। अलेट्, अलेड्। अलिक्षत्, अलीढ, अलिक्षत। अलेक्ष्यत्, अलेक्ष्यत॥ {$ {! 24 ब्रूञ् !} व्यक्तायां वाचि $} (धातुपाठे (02.0039)) ॥

Balamanorama

क्सस्याचि - अघृक्ष — आतामिति स्थिते ‘आतो ङितः’ इति इयादेशे प्राप्ते -क्सस्य । अचीत्यऽस्याङ्गाक्षिप्तप्रत्ययविशेषणत्वात्तदादिविधिः । ‘घोर्लोपो लेटि वे’ त्यतो लोप इत्यनुवर्तते । तदाह — अजादावित्यादिना । अलोऽन्त्यस्येति । अन्त्यस्याऽकारस्य लोप इति भावः । वस्तुतस्तुलुग्वा दुहदिहे॑त्युत्तरसूत्रादात्मनेपदे इत्यपकृष्य तद्विशेषणत्वादचीति चदादिविधिः । तेन दृसेः क्सप्रत्यये ‘तादृक्षा’ इत्यादौ नायं लोपः ।अजादौ तङी॑त्येव क्वचित्पाठो दृश्यते । अघृक्षातामिति । अघृक्ष — आतामिति स्थिते क्साऽकारस्य लोपे अतः परत्वाऽभावात् ‘आतो ङितः’ इति इय् नेति भावः । अघृक्षन्तेति । झस्य अजादित्वाभावात्तस्मिन्परे क्सस्य अकारलोपाऽभावादतः परत्वात् ‘आत्मनेपदेष्वनतः’ इत्यदादेशो न । कृते तु झोऽन्तादेशे क्सस्याकारलोपः पररूपं वा । ग्लह चेति । ग्ल्हधातुरपि ग्रहणे वर्तत इत्यर्थः । अदुपधोऽयम् । घुषि कान्तीति । उदुपधोऽयम् । इदित्त्वान्नुम् ।नश्चे॑त्यनुस्वारः । यय्परकत्वाऽभावान्न परसवर्णः । तदाह — घुषत इति । सेक्टोऽयम् । अदुपधपक्षे तु घषते । जघषे । ऊष्मान्ता आत्मनेपदिनो गताः । अथार्हत्यन्ताः परस्मैपदिन इति । ‘ऊष्मान्ता’ इति शेषः । तत्र तुस ह्यसेत्यतः प्राक् षान्ताः । घुषिरिति.इर् इत् । प्रतिज्ञानमिति ।वेदाः प्रमाण॑मित्याद्यभ्युपगम इत्यर्थः । ततोऽन्यस्मिन्निति । विशब्दनात् अन्यत् — अविशब्दनं, तस्मिन्नित्यर्थः । इरित्त्वादङ् वेति ।इरितो वेत्यनेने॑ति शेषः । अघुषदिति । अङो ङित्त्वान्न लघूपधगुणः । अघोषीदिति । अङभावपक्षे लघूपधगुणेइट ईटी॑ति सिज्लोपः । हलन्तलक्षणवृद्धेःनेटी॑ति निषेधः । अक्ष्धातुरूदित्त्वाद्वेट्कः ।

Tattvabodhini

क्सस्याचि - घुषि कान्तिकरणे । लुङि अघुंषिष्ट । अघुंषिषाताम् । अदुपधपाठे तु — अघषिष्ट । अघषिषाताम् ।

Padamanjari

अधुक्षातामिति । दुहेः स्वरितेत्वेनात्मनेपदम्, आताम्, अत्रासति लोपे ठातो ङ्तिःऽ इति इयादेशः प्राप्नोति । अधुक्षीति । इटि लोपः । ककारवतः सशब्दस्य ग्रहणादिह न भवति - वत्सौ;’तृणादिभ्यः सः’ , तृणसौ, तृणसः ॥

Nyaas

अधुक्षाताम्, अधुक्षाथाम् इति। दुहेर्लुङ्, च्लिः, स्वरितञितः (1.3.72) इत्यात्मनेपदम्, आतामाथाम्, शाल इगुपधादनिटः क्सः (3.1.45) इति क्सादेशश्च्लेः, तस्यानेन अलोऽन्त्यस्य (1.1.52) लोपः, दादेर्घातोर्घः (8.2.32) इति हकारस्य धकारः, एकाचो वशो भष् (8.2.37) इत्यादिना भष् - धकारः, खरि च (8.4.54) इति चर्त्वम् - धकारस्य ककारः इण्कोः (8.3.57) इति षत्वम्। अधिक्षि इति। उत्तमपुरुषैकवचनमिट्। अधुक्षत् इति। तिप्, इतश्च (3.4.100) इतीकारलोपः। अधुक्षताम् इति। तस्थस्थमिपाम् (3.4.101) इत्यादिना तसस्ताम्। ककारक्त उपादानम्, इह मा भूत् - हंसौ हंसाः, षत्सौ, वत्सा इति॥

Prakriyasarvasvam

अजादौ प्रत्यये परे क्सस्याऽन्तलोपः स्यात् । अद्विक्षन् । लोपफलं तङ्येव । अद्विक्षः । अद्विक्षतम् । ‘क्सस्याऽचि’ । अद्विक्षम् । अद्विक्षाव । तङि अद्विक्षत । ‘क्सस्याऽचि’ । अद्विक्षाताम् । लोपाभावे तु अद्विक्षेतामिति प्रसङ्गः । द्विक्ष झ । ‘झोऽन्तः’ । अद्विक्षन्त । अजादित्वस्य भावित्वात्* प्रागेव ‘क्सस्याऽचि’ इति लोपे ‘आत्मनेपदेष्व—’ इत्यद्भावः इति केचित् । अद्विक्षत । एतन्माधवानिष्टम् । अद्विक्षथाः । अद्विक्षध्वम् । अद्विक्षि । अद्विक्षावहि । चिणि अद्वेषि । शेषं तङ्वत् । लिटि दिद्वेष । दिद्विषतुः । दिद्वेषिथ । दिद्विषथुः । दिद्विष । दिद्वेष । दिद्विषिव । दिद्विषे । दिद्विषाते । दिद्विषिषे । दिद्विषिध्वे । द्विष्यात् । द्विष्यास्ताम् । द्विक्षीष्ट । द्विक्षीयास्ताम् । द्विक्षीध्वम् । लुङादौ द्वेष्टा । द्वेक्ष्यति, द्वेक्ष्यते । अद्वेक्ष्यत्, अद्वेक्ष्यत । दुह प्रपूरणे । प्रपूरणं क्षारणम् । झलि ‘दादेर्धातोर्घः—’ (८-२-३२) । धत्वजश्त्वे । दोग्धि । दुग्धः । दुहन्ति । सकारे भष्भावः । धत्वचर्त्वे । धोक्षि । दुग्धः । दुग्ध । दोह्मि । दुह्वः । स्वरितेत्त्वात्तङि दुग्धे दुहाते । दुहते । धुक्षे । ध्वे भष्त्वम्२ । धुग्ध्वे । दुहे । दुह्वहे । कर्मणि दुह्यते । दुह्यात् । दुह्याताम्; दुहीत । दुहीयाताम् । दुहीथाः । दुहीध्वम् । दुहीय । दोग्धु, दुग्धात् । दुग्धाम् । दुहन्तु । दुग्धाम् । दुहाताम् । धुक्ष्व । धुग्ध्वम् । दोहै । दोहावहै । लङि तिप्सिपोर्लोपे पदान्ते घत्वम् । भष्त्वम् । जश्त्वचर्त्वे । अधोक् । अदुग्धाम् । अदुहन् । अधोक् । अदुहि । अदुह्वहि । लुङि ‘शल इगुपधादनिटः क्सः’ । घत्वभष्त्वचर्त्वषत्वानि । अदुहि । अदुह्वहि । लुङि ‘शल इगुपधादनिटः क्सः’ । धत्वभष्त्वचर्त्वषत्वानि । तङ्यपि क्सः । तङ्यपि क्सः ।