73072: क्सस्याचि ================ **Padacheda:** क्सस्य | S | 6 | 1 | अचि | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The अ of the Aorist characteristic कस् is elided before an affix beginning with a vowel. Vasu English Translation ------------------------ The अ of the Aorist characteristic कस् is elided before an affix beginning with a vowel. As अधुक्षाताम्, अधुक्षाथाम्, अधुक्षि from the root दुह् ॥ Had the अ not been elided before आताम् and आथाम्, then इय must have been substituted for it according to (7.2.81). Why do we say before an affix beginning with a vowel? Observe अधुक्षत्, अधुक्षताम् ॥ Why do we say क्स and not only स? So that the elision should not take place here, as उत्सौ, उत्साः, वत्सौ, वत्साः, तृणसौ, तृणसः ॥ Kashika ------- क्सस्याजादौ प्रत्यये लोपो भवति। अधुक्षाताम्। अधुक्षाथाम्। अधुक्षि। अचीति किम्? अधुक्षत्। अधुक्षताम्। ककारवत उपादानं किम्? इह मा भूत् — उत्सौ, उत्साः। वत्सौ, वत्साः॥ Siddhanta Kaumudi ----------------- अजादौ तङि क्सस्य लोपः स्यात् । अलोऽन्त्यस्य-(SK42) । अघृक्षाताम् । अघृक्षन्त ।{$ {!651 ग्लह!} च$} । ग्लहते ।{$ {!652 घुषि!} कान्तिकरणे $}। घुंषते । जुघुंषे । केचिद्धषेत्यदुपधं पठन्ति ॥ अथार्हत्यन्ताः परस्मैपदिनः ।{$ {!653 घुषिर्!} अविशब्दने$} । विशब्दनं प्रतिज्ञानं ततोऽन्यस्मिन्नर्थे इत्येके । शब्दे इत्यन्ये पेठुः । घोषति । जुघोष । घोषिता । इरित्त्वादङ् वा । अघुषत् । अघोषीत् ।{$ {!654 अक्षू!} व्याप्तौ$} ॥ Laghu Siddhanta Kaumudi ----------------------- अजादौ तङि क्सस्य लोपः। अधुक्षाताम्। अधुक्षन्त। अदुग्धाः, अधुक्षथाः। अधुक्षाथाम्। अधुग्ध्वम्, अधुक्षध्वम्। अधुक्षि। अदुह्वहि, अधुक्षावहि। अधुक्षामहि। अधोक्ष्यत॥ एवं ॥ {$ {! 22 दिह !} उपचये $} (धातुपाठे (02.0005)) ॥ {$ {! 23 लिह !} आस्वादने $} (धातुपाठे (02.0006)) ॥ लेढि। लीढः। लिहन्ति। लेक्षि। लीढे। लिहाते। लिहते। लिक्षे। लिहाथे। लीढ्वे। लिलेह, लिलिहे। लेढासि, लेढासे। लेक्ष्यति, लेक्ष्यते। लेढु। लीढाम्। लिहन्तु। लीढि। लेहानि। लीढाम्। अलेट्, अलेड्। अलिक्षत्, अलीढ, अलिक्षत। अलेक्ष्यत्, अलेक्ष्यत॥ {$ {! 24 ब्रूञ् !} व्यक्तायां वाचि $} (धातुपाठे (02.0039)) ॥ Balamanorama ------------ **क्सस्याचि** - अघृक्ष — आतामिति स्थिते 'आतो ङितः' इति इयादेशे प्राप्ते -क्सस्य । अचीत्यऽस्याङ्गाक्षिप्तप्रत्ययविशेषणत्वात्तदादिविधिः । 'घोर्लोपो लेटि वे' त्यतो लोप इत्यनुवर्तते । तदाह — अजादावित्यादिना । अलोऽन्त्यस्येति । अन्त्यस्याऽकारस्य लोप इति भावः । वस्तुतस्तुलुग्वा दुहदिहे॑त्युत्तरसूत्रादात्मनेपदे इत्यपकृष्य तद्विशेषणत्वादचीति चदादिविधिः । तेन दृसेः क्सप्रत्यये 'तादृक्षा' इत्यादौ नायं लोपः ।अजादौ तङी॑त्येव क्वचित्पाठो दृश्यते । अघृक्षातामिति । अघृक्ष — आतामिति स्थिते क्साऽकारस्य लोपे अतः परत्वाऽभावात् 'आतो ङितः' इति इय् नेति भावः । अघृक्षन्तेति । झस्य अजादित्वाभावात्तस्मिन्परे क्सस्य अकारलोपाऽभावादतः परत्वात् 'आत्मनेपदेष्वनतः' इत्यदादेशो न । कृते तु झोऽन्तादेशे क्सस्याकारलोपः पररूपं वा । ग्लह चेति । ग्ल्हधातुरपि ग्रहणे वर्तत इत्यर्थः । अदुपधोऽयम् । घुषि कान्तीति । उदुपधोऽयम् । इदित्त्वान्नुम् ।नश्चे॑त्यनुस्वारः । यय्परकत्वाऽभावान्न परसवर्णः । तदाह — घुषत इति । सेक्टोऽयम् । अदुपधपक्षे तु घषते । जघषे । ऊष्मान्ता आत्मनेपदिनो गताः । अथार्हत्यन्ताः परस्मैपदिन इति । 'ऊष्मान्ता' इति शेषः । तत्र तुस ह्यसेत्यतः प्राक् षान्ताः । घुषिरिति.इर् इत् । प्रतिज्ञानमिति ।वेदाः प्रमाण॑मित्याद्यभ्युपगम इत्यर्थः । ततोऽन्यस्मिन्निति । विशब्दनात् अन्यत् — अविशब्दनं, तस्मिन्नित्यर्थः । इरित्त्वादङ् वेति ।इरितो वेत्यनेने॑ति शेषः । अघुषदिति । अङो ङित्त्वान्न लघूपधगुणः । अघोषीदिति । अङभावपक्षे लघूपधगुणेइट ईटी॑ति सिज्लोपः । हलन्तलक्षणवृद्धेःनेटी॑ति निषेधः । अक्ष्धातुरूदित्त्वाद्वेट्कः । Tattvabodhini ------------- **क्सस्याचि** - घुषि कान्तिकरणे । लुङि अघुंषिष्ट । अघुंषिषाताम् । अदुपधपाठे तु — अघषिष्ट । अघषिषाताम् । Padamanjari ----------- अधुक्षातामिति । दुहेः स्वरितेत्वेनात्मनेपदम्, आताम्, अत्रासति लोपे ठातो ङ्तिःऽ इति इयादेशः प्राप्नोति । अधुक्षीति । इटि लोपः । ककारवतः सशब्दस्य ग्रहणादिह न भवति - वत्सौ;'तृणादिभ्यः सः' , तृणसौ, तृणसः ॥ Nyaas ----- `अधुक्षाताम्, अधुक्षाथाम्` इति। दुहेर्लुङ्, च्लिः, `स्वरितञितः` (1.3.72) इत्यात्मनेपदम्, आतामाथाम्, `शाल इगुपधादनिटः क्सः` (3.1.45) इति क्सादेशश्च्लेः, तस्यानेन **अलोऽन्त्यस्य** (1.1.52) लोपः, `दादेर्घातोर्घः` (8.2.32) इति हकारस्य धकारः, `एकाचो वशो भष्` (8.2.37) इत्यादिना भष् - धकारः, `खरि च` (8.4.54) इति चर्त्वम् - धकारस्य ककारः `इण्कोः` (8.3.57) इति षत्वम्। `अधिक्षि` इति। उत्तमपुरुषैकवचनमिट्। `अधुक्षत्` इति। तिप्, `इतश्च` (3.4.100) इतीकारलोपः। `अधुक्षताम्` इति। `तस्थस्थमिपाम्` (3.4.101) इत्यादिना तसस्ताम्। ककारक्त उपादानम्, इह मा भूत् - हंसौ हंसाः, षत्सौ, वत्सा इति॥ Prakriyasarvasvam ----------------- अजादौ प्रत्यये परे क्सस्याऽन्तलोपः स्यात् । अद्विक्षन् । लोपफलं तङ्येव । अद्विक्षः । अद्विक्षतम् । 'क्सस्याऽचि' । अद्विक्षम् । अद्विक्षाव । तङि अद्विक्षत । 'क्सस्याऽचि' । अद्विक्षाताम् । लोपाभावे तु अद्विक्षेतामिति प्रसङ्गः । द्विक्ष झ । 'झोऽन्तः' । अद्विक्षन्त । अजादित्वस्य भावित्वात्* प्रागेव 'क्सस्याऽचि' इति लोपे 'आत्मनेपदेष्व—' इत्यद्भावः इति केचित् । अद्विक्षत । एतन्माधवानिष्टम् । अद्विक्षथाः । अद्विक्षध्वम् । अद्विक्षि । अद्विक्षावहि । चिणि अद्वेषि । शेषं तङ्वत् । लिटि दिद्वेष । दिद्विषतुः । दिद्वेषिथ । दिद्विषथुः । दिद्विष । दिद्वेष । दिद्विषिव । दिद्विषे । दिद्विषाते । दिद्विषिषे । दिद्विषिध्वे । द्विष्यात् । द्विष्यास्ताम् । द्विक्षीष्ट । द्विक्षीयास्ताम् । द्विक्षीध्वम् । लुङादौ द्वेष्टा । द्वेक्ष्यति, द्वेक्ष्यते । अद्वेक्ष्यत्, अद्वेक्ष्यत । दुह प्रपूरणे । प्रपूरणं क्षारणम् । झलि 'दादेर्धातोर्घः—' (८-२-३२) । धत्वजश्त्वे । दोग्धि । दुग्धः । दुहन्ति । सकारे भष्भावः । धत्वचर्त्वे । धोक्षि । दुग्धः । दुग्ध । दोह्मि । दुह्वः । स्वरितेत्त्वात्तङि दुग्धे दुहाते । दुहते । धुक्षे । ध्वे भष्त्वम्२ । धुग्ध्वे । दुहे । दुह्वहे । कर्मणि दुह्यते । दुह्यात् । दुह्याताम्; दुहीत । दुहीयाताम् । दुहीथाः । दुहीध्वम् । दुहीय । दोग्धु, दुग्धात् । दुग्धाम् । दुहन्तु । दुग्धाम् । दुहाताम् । धुक्ष्व । धुग्ध्वम् । दोहै । दोहावहै । लङि तिप्सिपोर्लोपे पदान्ते घत्वम् । भष्त्वम् । जश्त्वचर्त्वे । अधोक् । अदुग्धाम् । अदुहन् । अधोक् । अदुहि । अदुह्वहि । लुङि 'शल इगुपधादनिटः क्सः' । घत्वभष्त्वचर्त्वषत्वानि । अदुहि । अदुह्वहि । लुङि 'शल इगुपधादनिटः क्सः' । धत्वभष्त्वचर्त्वषत्वानि । तङ्यपि क्सः । तङ्यपि क्सः ।