73071: ओतः श्यनि

Padacheda: ओतः | S | 6 | 1 |

श्यनि | S | 7 | 1 |

Sutrartha


Vasu English Summary

A अङ्ग (stem) ending in ओ loses its final before the Present characteristic श्यन् of the दिवादिगणः (4th Conjugation).

Vasu English Translation

A अङ्ग (stem) ending in ओ loses its final before the Present characteristic श्यन् of the दिवादिगणः (4th Conjugation). As मिश्यति from शो, अवच्छयति from छो, अवद्यति from दो, and अवस्यति from सो ॥ The त् in ओत् is for the sake of euphony or ease of pronunciation.

According to Padamanjari, the sutra should have been ओतः शिति, and thereby there would be the saving of half a matra, and also there would be no necessity of repeating the word शिति in (7.3.75).

Bhashya

ओतः श्यनि ओतः शिति ओतः शितीति वक्तव्यम् ॥ किं प्रयोजनम् ? ॥ उत्तरत्र शिद्ग्रहणाऽभावाय तत्रायमप्यर्थः ष्ठिबुक्लमुचमां शितीति शिद्ग्रहणं न कर्तव्यं भवति ॥ ननु च भोः श्यन्ग्रहणमपि तर्ह्यत्तरार्थं कर्त्तव्यम् । शमामष्टानां दीर्घः श्यनीति श्यन्ग्रहणं न कर्तव्यं भवति ॥ अत्राप्यस्तु - शितीत्येव । यदि(4) शितीत्युच्यते अनुत्वेन्द्रो भ्रमतु मदतु - अत्रापि प्राप्नोति ॥ शमादिभिरत्र शितं विशेषयिष्यामः - शमादीनां यः शिदिति ॥ कश्च शमादीनां शित् ? ॥ शमादिभ्यो यो विहितः ॥ एवमपि तस्यति यस्यति - अत्र प्राप्नोति ॥ अष्टानामिति वचनान्न भविष्यति ॥ ( ओतः )

Kashika

ओकारान्तस्याङ्गस्य श्यनि परतो लोपो भवति। शो — निश्यति। छो — अवच्छ्यति। दो — अवद्यति। सो — अवस्यति॥

Siddhanta Kaumudi

लोपः स्यात् । श्यनि । श्यति । श्यतः । श्यन्ति । शशौ । शशतुः । शाता । शास्यति । विभाषा घ्राधेट् - (SK2376) इतीट्सकौ । अशात् । अशाताम् । अशुः । अशासीत् । अशासिष्टाम् ।{$ {!1146 छो!} छदने$} । छयति ।{$ {!1147 षो!} ऽन्तकर्मणि$} । स्यति । ससौ । अभिष्यति । अभ्यष्यत् । अभिससौ ।{$ {!1148 दो!} अवखण्डने$} । द्यति । ददौ । प्रणिदाता । देयात् । अदात् ॥ अथात्मनेपदिनः पञ्चदश ॥{$ {!1149 जनी!} प्रदुर्भावे$} ॥

Laghu Siddhanta Kaumudi

लोपः स्यात्। श्यति। श्यतः। श्यन्ति। शशौ। शशतुः। शाता। शास्यति॥

Balamanorama

ओतः श्यनि - ओतः श्यनि ।घोर्लोपो लेटि वे॑त्यतो लोप इत्यनुवर्तते इत्यभिप्रेत्य शेषं पूरयति — लोपः स्यादिति । शशाविति । ‘आदेच’ इत्यात्त्वे णल औत्त्वमिति भावः । शशतुरिति । शशिथ — शशाथ । शशिव.शास्यतीति । श्यतु । अश्यत् । श्येत् । शायात् । लुङि सिचि विशेषमाह — विभाषा घ्रेति । सिचो लुक्पक्षे आह — अशादिति । ‘आतःर’ इति जुसिति मत्वा आह — अशुरिति । सिचो लुगभावे सगिटौ मत्वा आह — अशासीदिति । छोदातुरपि शोधातुवत् । षो अन्तकर्मणीति । समापने विनाशने वेत्यर्थः । शोधातुवद्रूपाणि । षोपदेशोऽयम् । स्यतीति ।ओतः श्यनी॑ति लोपः । अभिष्यतीति ।उपसर्गा॑दिति षत्वम् । अभ्यष्यदिति ।प्राक्सिता॑दिति षत्वम् । अभिससाविति ।स्थादिष्वि॑ति नियमान्न षः । दो अवखण्डने । प्रणिदातेति ।नेर्गदे॑ति णत्म् । देयादिति । आशीर्लिङिएर्लिङी॑त्येत्त्वम् । अदादिति ।गातिस्थे॑ति सिचो लुक् । अथात्मनेपदिन इति । ‘वाशृ शब्दे’ इत्यन्ता इत्यर्थः । जनी प्रादुर्भावे इति ।श्वीदितो निष्ठाया॑मित्याद्यर्थमीदित्त्वम् ।

Tattvabodhini

ओतः श्यनि - षोऽन्त । अन्तक्रम — नाशनम् ।राघव !स्य शरैर्गोरैर्घोरं रावणमाहवे॑ इति । राघवेति संबुद्ध्यन्तम् । स्येति लोण्मध्यमैकवचनम् । अभिष्यतीति ।उपसर्गात्सुनोती॑ति षत्वम् । अभ्यष्यदिति ।प्राक्सितादड्व्यवायेऽपी॑ति षत्वम् । अभिससाविति ।स्थादिषु॑ इति नियमान्न षत्वम् । दो अवखण्डने । अवेत्युपसर्गप्रयोगो वैचित्र्यार्थः, खण्डने इत्येतावत्युक्तेऽपीष्टसिद्धेः । प्रणिदातेति ।नेर्गदे॑ति णत्वम् । देयादिति ।एर्लिङी॑त्येत्त्वम् । अदादिति ।गातिस्थे॑ति सिचो लुक् ।

Padamanjari

श्यतीत्यादि।’शो तनूकरणे’ ,’छाए छेदने’ ,’दो अवखण्डने’ ,’षो अन्तकर्मणि’ । इहि ठोतः शितिऽ इति वक्तव्यम्, न च ओकारान्तानां श्यनोऽन्यः शित् सम्भवति, अर्धमात्रया च लाघवं भवति; तत्रायमप्यर्थः -‘ष्ठिवुल्कमुचमां शिति’ इति शिद्ग्रहणं न कर्तव्यं भवति, इदमेवानुवर्तिष्यते । ननु श्यन्ग्रहणमुतरार्थं कर्तव्यम् -‘शमामष्टानाम्’ इति ? तत्राप्यस्तु शितीत्येव; यदि शितीत्युच्यते, भ्रमे’वा भ्राश’ इति पक्षे शब् भ्रमति - अत्रापि प्राप्नोति ? शमादिभिः शितं विशेषयिष्यामः - शमादिभ्यो यो विहितः शिदिति, श्यन्नेव च सर्वेभ्यः शमादिभ्यो विहितः, एवमपि शिद्विशेषणत्वेन शमादीनामुपयोगात्कार्यनिर्द्देशाभावात् नश्यतीत्यादावपि प्रसङ्गः ? नैष दोषः; ठष्टानाम्ऽ इत्यनेन संख्येयाः कार्यिणो निर्दिश्यन्ते, ते च सन्निधानात् शमादय एव विज्ञास्यन्ते ॥

Nyaas

निश्यति इत्यादि। शो तनूकरणे (धातुपाठः-1145), छो छेदने`[`नास्त्ययं धातुः - मुद्रितग्रन्थे] (धातुपाठः-1146) दो अवखण्डने (धातुपाठः-1148) षो अन्तकर्मणि (धातुपाठः-1147)। अथ किमर्थं इयनीत्युच्यते, न शिति इत्येवोच्येत, एवं ह्रुच्यमाने श्यन्येव लोपो भविष्यति, न ह्रोकारान्ताच्छ्यनोऽन्यच्छित्? सम्भवति, लघु चैवं सूत्रं भवति, तत्रायमप्यर्थः - ष्ठिवुक्लमुचमां शिति (7.3.75) इत्यत्र शिद्ग्रहणं न कर्तव्यं भवतीत्येतदेव तत्रानुवर्त्तिष्यते? सत्यं सिध्यत्येव, किन्तु प्रतिपत्तिगौरवं स्यात्। तस्मात्? प्रतिपत्तिगौरवपरीहारार्थं श्यनीत्युक्तम्। ओतः इति। तपरकरणं मुखसुखार्थम्। न ह्रन्यदस्य निवर्त्त्यं विधेयं वा सम्भवति॥

Prakriyasarvasvam

दिवु क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिगतिषु । ‘दिवादिभ्यः श्यन्’ इति श्यन् । वान्तत्वाद् ‘हलि च’ इति दीर्घः । दीव्यति । शेषं सार्वधातुके शब्वत् । यकि दीव्यते । लुङादौ अदेवीत् । अदेविष्टाम् ; कर्मणि अदेवि । अदेविषाताम् । दिदेव । दिदिवतुः । दिदेविथ । दिदिवथुः । दिदिव । दिदेव । दिदिविव । कर्माणि दिदिवे । दिदिविषे । दिदिविड्ढ्वे, दिदिविध्वे । दीव्यात् । देविता । देविष्यति । अदेविष्यत् । दो अवखण्डने ।

Sutra Prayogas

  • अवद्यन् (किरातार्जुनीयम्): ओतः श्यनि इत्योकारलोपः।

  • न्यश्यन्शस्त्राण्यभीष्टानि (भट्टिकाव्यम्): ओतः श्यनि इत्योकारलोपः।