73070: घोर्लोपो लेटि वा¶
Padacheda: घोः | S | 6 | 1 |
लोपः | S | 1 | 1 |
लेटि | S | 7 | 1 |
वा | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
The final of दा and धा (धु roots) may optionally be elided in the लेट् (Vedic Subjunctive).
Vasu English Translation¶
The final of दा and धा (धु roots) may optionally be elided in the लेट् (Vedic Subjunctive). As दधद्रत्ना दाशुषे Rig I.35.8. सामो ददद् गन्धर्वाय Rig X. 85.41. But also यदग्निरग्नये ददात् ॥ The form ददात्, however, may also be deduced even when the final of दा is elided, for then by the आट् augment (3.4.94) we get this form. The word वा is therefore employed in the sutra only for the sake of distinctness, for the sutra without वा would have also given the above forms, as we have shown. Or the वा is used to remove the doubt which one may entertain to this effect “ ददात् is the form which may be deduced by the general rule, since लोप is taught, this form will be excluded altogether and will never appear”.
The form दधत् is thus evolved. We add तिप् to the root धा; then the इ of ति is elided (3.4.97). दाशुषे = यजमानाय रत्नानि दद्यात् ॥ Others say, the दधत् is the form of the root with the शतृ affix. ददत् is from the root दाञ् ॥
Some say that वा is jnapaka and indicates the existence of the following maxim :- अनित्यमागमशासनम् “the rule about augments is anitya”. So that the augment आट् being anitya, we could not have got the form ददात् ॥ Hence the employment of the word वा ॥
Bhashya¶
घोर्लोपो लेटि वा वेति शक्यमवक्तुम्(1) कस्मान्न भवति - तदन्गिरन्गिये ददात् ? ॥ अस्त्वत्र लोपः, आटः भविष्यति । तेनोभयं सिध्द्यति - दधद्रत्नानि दाशुषे । दधाद्रत्नानि दाशुषे ॥ ( घोर्लोपो लेटि वा ) ।
Kashika¶
घुसंज्ञकानां लेटि परतो वा लोपो भवति। दध॒द्रत्ना॑नि दा॒शुषे॑ (ऋ०४.१५.३)। सोमो॑ ददद् गन्ध॒र्वाय॑ (ऋ० १०.८५.४१)। न च भवति — यदग्निरग्नये ददात्। आडागमे सति लोपेऽपि ददादिति सिद्धं भवति। तत्र वावचनं विस्पष्टार्थम्, एषा हि कस्यचिदाशङ्का स्याद् — ददादित्येव नित्ये प्राप्ते लोप आरभ्यमाणो बाधत एवैतद् रूपमिति॥
Siddhanta Kaumudi¶
दधद्रत्नानि दाशुषे (दध॒द्रत्ना॑नि दा॒शुषे॑) । सोमो ददद्गन्धर्वाय (सोमो॑ ददद्गन्ध॒र्वाय॑) । यदग्निरग्नय ददात् (यद॒ग्निर॒ग्नय॑ ददात्) ॥
Padamanjari¶
दधदिति । दधातेर्लेट्, तिप् ठितश्च लोपः परस्मैपदेषुऽ इतीकारलोपः । दाशुषे यजमानाय सत्नानि, दद्यादित्यर्थः । अन्ये त्वाहुः - दधदिति शत्रन्तमेतत्, दददिति दाञो रूपम् । वावचनं प्रत्याचिख्यासुराह - आडागमे सतीति । अस्त्वत्र लोपः; आटः श्रवणं भविष्यतीत्यर्थः । किमर्थ तर्हि वावचनम् ? इत्यत आह - तत्रेति । किमत्र विस्पष्टनीयम् ? अत आह - एषा हीति । अन्ये त्वाहुः - ज्ञापकार्थं वाग्रहणम्, एतज्ज्ञापयति - अनित्यमागमशासनमिति । अनित्यत्वे त्वाट।ल्सति ददादिति न स्यादिति तत्सिद्धये वाग्रहणं कर्तव्यमिति ॥
Nyaas¶
ददन् इति। डुदाञ्? दाने (धातुपाठः-1091), लिङर्थे लेट्? (3.4.97) , झेरन्तादेशः, (7.1.3) , इतश्च लोपः परस्मैपदेषु (3.4.97) इतीकारलोपः, लेटोऽडाटौ (3.4.94) इत्यट्, शप्, तस्य जुहोत्यादित्वात्? श्लुः श्लौ (6.1.10) इति द्विर्वचनम्, संयोगान्तलोपः, (8.2.23) ङमो ह्रस्वावचि ङमुण्णित्यम् (8.3.32) इति ङ्मुडागमः। सोमोददद्गन्धर्वाय इति। ददातेस्पिप्, शेषं पुर्ववत्। यदग्निरग्नये ददात् इति। ददा+आदिति स्थितेऽकः सवर्णे दीर्घत्वम्? (6.1.97) शेषं पूर्ववत्। यद्याडागमे [यद्यडागमे - प्रांउ।पाठः] कृते सत्यपि लोपे च ददादिति सिध्यति, किमर्थं तर्हि वेत्युच्यते? इत्याह - तत्र इत्यादि। स्यादेतत् - विस्ष्टार्थं तर्हि वाग्रहणणयुक्तम्; वदादित्यस्य रूपस्यासिदिंध प्रत्याशङ्काया अभावात्? इत्यत आह - एषा हि इत्यादि। सुबोधम्।
Prakriyasarvasvam¶
लेटि घोरन्त्यलोपः स्याद् दधद्रत्नानि दाशुषे । दाशुषेऽग्निहि रत्नानि दध्यादिति किलोच्यते ॥