73069: भोज्यं भक्ष्ये¶
Padacheda: भोज्यम् | S | 1 | 1 |
भक्ष्ये | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
भोज्य preserves its palatal in the sense of ‘eatable’.
Vasu English Translation¶
भोज्य preserves its palatal in the sense of ‘eatable’. The word is derived from भुज् with ण्यत् in the sense of ‘able’. As भोज्य ओदनः ‘eatable rice’, भोज्या यवागूः ‘eatable barley-gruel’. भक्ष्य here means anything which is fit for being eaten. When not having this sense, we have भोग्यः कम्बलः ॥
Bhashya¶
भोज्यम्भक्ष्ये भोज्यमभ्यवहार्ये(6) भोज्यमभ्यवहार्य इति वक्तव्यम् । इहापि यथा स्यात् - भोज्यः सूपः भोज्या यवागूरिति ॥ किं पुनः कारणं न सिध्यति ? ॥ भक्षिरयं खरविशदे एव(6) वर्तते तेन द्रवे न प्राप्नोति ॥ नावश्यं भक्षिः खरविशदे एव वर्तते ॥ किं तर्हि ? ॥ अन्यत्रापि वर्तते । तद्यथा - अब्भक्षो वायुभक्ष इति ॥ ( भोज्यं भक्ष्ये ) ॥
Kashika¶
भोज्यं निपात्यते भक्ष्येऽभिधेये। भोज्य ओदनः। भोज्या यवागूः। इह भक्ष्यमभ्यवहार्यमात्रम्। भक्ष्य इति किम्? भोग्यः कम्बलः॥
Siddhanta Kaumudi¶
भोग्यमन्यत् ॥<!ण्यत्प्रकरणे लपिदभिभ्यां चेति वक्तव्यम् !> (वार्तिकम्) ॥ लाप्यम् । दभिर्धातुष्वपठितोऽपि वार्तिकबलात्स्वीकार्यः । दाभ्यः ॥
Laghu Siddhanta Kaumudi¶
भोग्यमन्यत् ॥ इति कृत्यप्रक्रिया ॥
Balamanorama¶
भोज्यं भक्ष्ये - भोज्यं भक्ष्ये । भक्ष्ये गम्ये ण्ये भुजेः कुत्वाऽभावो निपात्यते । इति प्रासङ्गिकम् । अथ प्रकृतम् — लपिदभिभ्यां चेति । वार्तिकमिदम्ऋहलोण्र्य॑दिति सूत्रस्थम् । ‘पोरदुपधा’ दिति प्राप्तस्य ण्यदपवादस्य यतोऽपवादः ।
Tattvabodhini¶
भोज्यं भक्ष्ये - भोज्यम् । भक्ष्यमिहाभ्यवहार्यमात्रं विवक्षितं, नतु खरविशदमभ्यवहार्यम् ।तेन भोज्या यवागूरित्यपि भवतीत्याहुः । भोग्यमन्यदिति । पालनीयमुपभोग्यं चेत्यर्थः । * लपिदभिभ्यां चेति वक्तव्यम् । लपिदभिभ्यां चेति ।पोरदुपधा॑ दिति प्राप्तस्य यतोऽपवादः । जयादित्यस्तु — आसुयुवपरिपी॑ति सूत्रे लपं प्रक्षिप्यरपिलपित्रपी॑ति पठित्वाऽनुक्तसमुच्चयार्थेन चकारेण दभेः सङ्ग्रह इत्युक्तवान्,तत्र वैषम्येण व्याख्यानं निर्बीजं, भाष्यविरोधश्च स्पष्ट एवेति बोध्यम् । स्वीकार्य इति ।कास्यनेकाच आम्वक्तव्यश्चुलुम्पाद्यर्थ॑मिति वार्तिकबलाद्यथा चुलुम्पादिभ्य आम् स्वीक्रियते तद्वदिति भावः । तथा च प्रयुज्यतेनता नशन्ति न दभाति तस्करः॑ ,विष्णुर्गोपा अदाभ्यः॑ इत्यादि ।
Padamanjari¶
भोज्या यावगूरिति । ननु भक्षिरयं खरविशदेऽभ्यवहार्ये वर्तत इति’संस्कृतं भक्षाः’ इत्यत्रोक्तम्, तत्कथं द्रवद्रव्ये भवति ? इत्यत आह - इहेति । एवं मन्यते - नात्र भक्षिः खरविशद एव वर्तते; अब्भक्षः, वायुभक्ष इत्यत्रापि दर्शनादिति शब्दान्तरसन्निधिबलादेतदेवं भवति ।’स्वभावतस्तु भक्षिः खरविशद एव वर्तते’ इति वार्तिककारस्य पक्षः, यदाह -‘भोज्यमभ्यवहार्य इति वक्तव्यम्’ इति ॥
Nyaas¶
भोज्यम् इति। भुज पालनाभ्यवहारयोः (धातुपाठः-1454) इत्यस्य ण्यति भक्ष्येऽभिधेये कुत्वाभावो निपात्यते। भोज्या यवागूः इति। ननु च भक्षिरयं खरविशदेऽभ्यवहार्ये वर्तते, न तु द्रवद्रव्ये, यथा - संस्कृतं भक्षाः (4.2.16) इत्यत्र, तत्कथं भक्ष्ये इत्युच्यमाने यवाग्वां भवति? इत्याह - इह भक्ष्यम् इत्यादि। नावश्यं भक्षिः खरविरादे वर्तते। तथा हि - द्रवद्रव्येऽप्यस्य प्रयोगो द्रृश्यते। यथा - अबभक्षः, वायुभक्षः, वायुभक्ष इति। तस्मादभ्यवहार्यसामान्ये भक्षिर्वर्तत इति यवाग्वामपि भवति। भुजो भक्ष्ये इति वक्तव्ये निपातनं रूढर्थम्। अभ्यवहार्ये भक्ष्ये कर्मणि यथा स्यात्? परिपालनीये मा भूत् - भोग्या अपूपाः। पालनीया इत्यर्थः॥
Prakriyasarvasvam¶
भोज्या यवागूः । अन्यत्र भोग्यं सुखम् ।
Sutra Prayogas¶
भोज्यं (कुमारसम्भवम्): भोज्यं भक्ष्ये इति निपातनात्कुत्वाभावः।