73068: प्रयोज्यनियोज्यौ शक्यार्थे¶
Padacheda: प्रयोज्यनियोज्यौ | S | 1 | 2 |
शक्यार्थे | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
प्रयोज्य and नियोज्य preserve their palatal in the sense of ‘capable to do this’.
Vasu English Translation¶
प्रयोज्य and नियोज्य preserve their palatal in the sense of ‘capable to do this’. As प्रयोज्यः = प्रयोक्तुं शक्यः, नियोज्यः = नियोक्तुं शक्यः, but प्रयोग्य and नियोग्य in other senses.
Kashika¶
प्रयोज्य नियोज्य इत्येतौ शब्दौ शक्यार्थे निपात्येते। शक्यः प्रयोक्तुं प्रयोज्यः। शक्यो नियोक्तुं नियोज्यः। शक्यार्थ इति किम्? प्रयोग्यः नियोग्यः॥
Siddhanta Kaumudi¶
प्रयोक्तुं शक्यः प्रयोज्यः । नियोक्तुं शक्यो नियोज्यो भृत्यः ॥
Balamanorama¶
प्रयोज्यनियोज्यौ शक्यार्थे - प्रयोज्यनियोज्यौ । शक्यार्थे ण्ये क्वुत्वाऽभावो निपात्यते ।शकि लिङ् चे॑ति कृत्यानां शक्यार्थेऽपि विहितत्वाण्ण्यदन्तस्य शक्यार्थकत्वमपि ।
Padamanjari¶
इह’प्रयुजनियुजः शक्यार्थे’ इति वक्तव्यम्,’ण्ये’ इत्येव, एवं सिद्धे निपातनाश्रयणं रूढ।ल्र्थम् - गुणभूत् एवैतयोः प्रयोगो यथा स्यात् - प्रयोन्यो भृत्यः, नियोज्यो दास इति । स्वामिनि प्रयोज्यनियोज्यशब्दौ न भवतः ॥
Nyaas¶
प्रपूर्वस्य निपूर्वस्य च युजिर्? योगे (धातुपाठः-1444) इत्यस्य ष्यति कुत्वाभावो निपात्यते, स चेण्ण्यच्छक्यार्थे भवति। शक्यार्थे पुनण्र्यत् शकि लिङ्? च (3.3.172) इत्यनेन वेदितव्यः। तत्र हि कृत्याश्च (3.3.171) इत्यनुवर्तते। अथ किमर्थं पुनर्निपातनम्, यावता ण्ये (7.3.65) इत्यनुवर्तत एव? तत्र प्रयुजनियुजोः शक्यर्थे इति वक्तव्ये निपातनं रूढर्थम्। अगुणभूता यत्र शक्यार्थता तत्र यथा स्यात् - प्रयोज्यो भृत्यः, नियोज्यो दास इति। स्वमिनि प्रयोज्यो नियोज्य इति न भवति। न हि तत्र प्रयोज्यनियोज्यशब्दौ रूढौ, किं तर्हि? गुणभूतादेव॥
Prakriyasarvasvam¶
अन्यत्र प्रयोज्यम् । नियोज्यम् ।