73067: वचोऽशब्दसंज्ञायाम्¶
Padacheda: वचः | S | 6 | 1 |
अशब्दसंज्ञायाम् | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
A guttural is not substituted for the final of वच् before ण्यत् when it does not mean ‘a word or speech’.
Vasu English Translation¶
A guttural is not substituted for the final of वच् before ण्यत् when it does not mean ‘a word or speech’. As वाच्यमाह, अवाच्यमाह, but अवघुषितं वाक्यमाह ॥
Kashika¶
वचोऽशब्दसंज्ञायां ण्यति परतः कवर्गो न भवति। वाच्यमाह। अवाच्यमाह। अशब्दसंज्ञायामिति किम्? अवघुषितं वाक्यमाह॥
Siddhanta Kaumudi¶
वाच्यम् । शब्दाख्यायां तु वाक्यम् ॥
Balamanorama¶
वचोऽशब्दसंज्ञायाम् - वचोऽशब्दसंज्ञायाम् । वचधातोर्ण्ये कुत्वं न, शब्दसंज्ञां वर्जयित्वेत्यर्थः । वाच्यमिति । वस्त्विति शेषः ।अशब्दसंज्ञायामित्यस्य प्रयोजनमाह — शब्दाख्यायां तु वाक्यमिति ।एकतिङ् वाक्य॑मिति संज्ञाशब्दोऽयमिति भावः ।प्रवाच्य॑मित्यत्र तु ग्रन्थविशेषसंज्ञात्वेऽपि नायं कुत्वनिषेधस्य निषेधः,यजयाचे॑त्यत्र प्रवचेति विशिष्योपादनात्, असंज्ञायामित्यस्य प्रपूर्वाद्वचेरन्यत्र चरितार्थत्वात् । एतदभिप्रायेणैवप्रवाच्यं ग्रन्थविशेष॑ इत्युक्तं प्राक् ।
Tattvabodhini¶
वचोऽशब्दसंज्ञायाम् - वाक्यमिति ।तिङ्सुबन्तचयो वाक्यम् । भोज्यम् । भक्ष्यमिहाभ्यवहार्यमात्रं विवक्षितं, न तुखरविशदमभ्यवहार्थम् । तेन भोज्या यवागूरित्यपि भवतीत्याहुः ।
Prakriyasarvasvam¶
वचेः शब्दसंज्ञातोऽन्यत्र कुत्वं न । वाच्योऽर्थः । शब्दनाम्नि तु वाक्यम् । सत्रांशभूतस्य दशरात्रस्य दशमेऽहनि वाच्ये वचेः कुत्वमिष्टम् । नास्मिन् केनचित् कस्यचिद् विवक्तव्यमित्यविवाक्यम् अहः ।