73053: न्यङ्क्वादीनां च ======================= **Padacheda:** न्यङ्क्वादीनाम् | S | 6 | 3 | च | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- The guttural is substituted in न्यङ्क्वु etc.. Vasu English Translation ------------------------ The guttural is substituted in न्यङ्क्वु etc.. (1) By the *sutra* नावङ्चेः (*Unadi* I.17), the affix उ is added to the root अञ्च् preceded by नि ॥ (2) मद्गु is formed by adding उ to the root मस्ज (*Unadi* I.7) (3) भृगुः, is formed by the affix उ added to the root भ्रस्ज, the स् is elided, and र is vocalised (*Unadi* I.28). (4 and 5) दूरेपाकः, फलेपाकः formed by the अच् affix of पचादि class, (= दूरे पच्यते स्वयमेव, फले पच्यते स्वयमेव) ॥ The *vriddhi* is by *nipatana*. The seventh case-affix is not elided in these compound words by (6.3.14). (6) क्षणेपाकः ॥ This word is read by some. Others read these as दूरेपाका, फलेपाका with टाप् ॥ A third reading is दूरेपाकुः फलेपाकुः, by the affix उ added irregularly. (7 and 8) तक्र and वक्र ॥ These are formed from the roots तञ्च and वञ्च with the affix रक् (*Unadi* II.13). (9) व्यतिषङ्गः formed from व्यतिषजति with पचादि अच् ॥ (10) अनुषङ्गः ॥ (11) अवसर्गः ॥ (12) उपसर्गः ॥ (13) मेघः ॥ (14) श्वपाकः ॥ (15) मांसपाकः (16) कपोतपाकः (17) उलूकपाकः ॥ (18) पिण्डपाकः formed by the affix अण् with an accusative word in construction as *upapada*. (19) अर्घः when it denotes a name meaning 'price'. This is formed from the root अर्ह with the affix घञ् ॥ When it is not a name, the form is अर्हः ॥ (20 and 21) अवदाघः and निदाघः, when they are names meaning "Summer or Hot season". These are formed from the root दह् preceded by अव and नि ॥ But when they are not names, the forms are अवदाहः, निदाहः ॥ (22) न्यग्रोधः formed from the root रुह् preceded by न्यक् and by adding the पचादि अच् ॥ The ह् is changed to ध ॥ (23) वीरुत् ॥ Formed from रुह् with वि and the affix क्विप्, and ह changed toध ॥ न्यग्रोहयति and विरोहयति ॥ 1 न्यङ्कु, 2 मद्गु, 3 भृगु, 4 दुरेपाक, 5 फलेपाक, 6 क्षणेपाक, 7 दूरेपाका, 8 फलेपाका, 9 दूरेपाकु, 10 फलेपाकु, 11 तक्र, 12, वक्र, 13 व्यतिषङ्ग, 14 अनुषङ्ग, 15 अवसर्ग, 16 उपसर्ग, 17 श्वपाक, 18 मांसपाक, 19 मूलपाक, 20 कपोतपाक, 21 उलूकपाक, 22 संज्ञायां मेघनिदाघावदाघार्षाः मेघ 23 न्यग्रोध, 24 वीरुध् ॥ Kashika ------- न्यङ्कु इत्येवमादीनां कवर्गादेशो भवति। न्यङ्कुः। **नावञ्चेः** (प०उ० १.१७) इत्युप्रत्ययः। मद्गुः। **मिमस्जिभ्य उः** (प०उ० १.७) इति मस्जेरुप्रत्ययः। भृगुः। **प्रथिम्रदिभ्रस्जां संप्रसारणं सलोपश्च** (प०उ० १.२८) इत्युप्रत्ययः। दूरेपाकः। फलेपाकः। दूरे पच्यते स्वयमेव फले पच्यते स्वयमेव। पचाद्यच् (३.१.१३४) निपातनाद् वृद्धिः। **तत्पुरुषे कृति बहुलम्** (६.३.१४) इति सप्तम्या अलुक्। क्षणेपाक इत्यपि हि केचित् पठन्ति। दूरेपाका, फलेपाका इति टाबन्तमपरेऽधीयते। उकारान्ता वपरे — दूरेपाकुः, फलेपाकुरिति। तेषामुप्रत्ययो निपातनादेव। तक्रम्, वक्रमिति। तञ्चतेर्वञ्चतेश्च **स्फायितञ्चिवञ्चि०** (प०उ० २.१३) इत्यादिना सूत्रेण रक्। व्यतिषङ्गः। व्यतिषजतीति पचाद्यच् (३.१.१३४)। अनुषङ्गः। अवसर्गः। उपसर्गः। मेघः। श्वपाकः। मांसपाकः। कपोतपाकः। उलूकपाक इति। कर्मोपपदादण् (३.२.१) प्रत्ययः। संज्ञायाम् — अर्घः, अवदाघः, निदाघः। अर्हतेर्घञ्, अर्घः। अवपूर्वस्य निपूर्वस्य च दहेरवदाघः, निदाघः। संज्ञाया अन्यत्र अर्हः। अवदाहः। निदाहः। न्यग्रोधः, वीरुदित्यत्र न्यक्पूर्वस्य रुहेः पचाद्यचि विपूर्वस्य क्विपि धकारो विधीयते। न्यग्रोहतीति न्यग्रोधः। विरोहतीति वीरुत्॥ Siddhanta Kaumudi ----------------- कुत्वं स्यात् । न्यङ्कुः । **नावञ्चेः** (उणादिः 1.17) इत्युप्रत्ययः ॥ Tattvabodhini ------------- **न्यङ्क्वादीनां च** - न्यङ्कुरिति ।कृष्णसाररुरुन्यङ्कुरङ्कुशम्बररौहिषाः॑ इत्यमरः । Padamanjari ----------- न्यङ्कु इत्येवमादीनां चेति ।'सिद्धये' इति शेषः, कृतकुत्वानामेव गणे पाठात् । किमर्थं तर्हि सूत्रम्, यावता यथैव कुत्वादन्यदपि घत्वगुणदीर्घत्वादिकं निपातनाद्भवति, तथा कुत्वमपि भविष्यति ? सत्यम्; असति तस्मिन्, अनुवादे गणस्य क्वचिदप्यनुपयोगात्प्रमादपाठः शङ्क्येत । पचाद्यचीति । घञि कुत्वस्यासिद्धत्वात् । संज्ञायां मेघ इत्यादि । मेघःउपरोयघरः, निदाघःउघर्मः, अवदाघोऽपि स एव । अर्घःउविक्रीयमाणस्य धान्यादेरियता, मूल्यमित्यन्ये । वीरुदिति । निपातनादुपसर्गस्य दीर्घत्वम् ॥ Nyaas ----- अधिण्ण्यदर्थोऽयमारम्भः। `नावञ्चतेरित्युप्रत्ययः` इति। तत्र `भृमृशीतृचरित्सरितनिधनिमिमस्जिभ्य उः` (द।उ।1।92) इत्यनुवृत्तेः। `मद्गुः` इति। `टुमस्जो शुद्धौ` (धातुपाठः-1415), **झलां जश् झशि** (8.4.53) इति सकारस्य दकारः। `मिमस्जिभ्य उः` इति। अनेन `भृमृशीतृचरि` (द।उ।1।92) इत्यादिकमुपलक्षयति। `भृगुः` इति। `भ्रस्ज पाके` (धातुपाठः-1284)। `प्रथिभ्रदि` (द।उ।1।113) इत्यादिके सूत्रऽत एव सूत्रा(द।उ।1।92)दुप्रत्ययोऽनुवर्तते। `दूरेपाकः`[`दूरेपाकाः` - मु।पाठ] इति। कर्मकर्तरि पचाद्यच्। `उकारान्तावपेर` इति। अधीयत इत्यपेक्ष्यते। `तञ्चतेः` इति। `तन्चु त्वन्चु गतौ` (धातुपाठः-191,192) इति, `वन्चु प्रलम्भने` (धातुपाठः-1703) `स्फायितञ्चिवञ्चि` इति सूत्रैकदेशः `स्फायितञ्चिवञ्चिशकिक्षिपिक्षुदिसृपिदृपितृपिवन्युन्दिइआतिवृत्यजिनीपदिमदिमुदिखिदिभिदिछिदिमन्दिचन्दिदहिदसिदम्भिवहवसिवाशिशीङ्हससिधिशुभिभ्यो रक्` (द।उ।8।31) इत्येतत्? सूत्रमुपलक्षयति। `व्यतिषङ्गः` इति। `षन्ज सङ्गे` (धातुपाठः-987) `अवसर्गः` इति। `सृज विसर्गे` (धातुपाठः-1178) पचाद्यच। `मेधः` इति। `मिह सेचने` (धातुपाठः-992)। अजेव। `आपाकः` इति। कर्मोपपदादण्प्रत्ययः `कर्मष्यण्` (3.2.1) इत्यनेन। `अर्हतेः` इति। `अर्ह पूजायाम्` (धातुपाठः-740)। `दहेः` इति। `दहभस्मीकरणे` (धातुपाठः-992)। `रुहेः` इति। `रुह बीजजन्मनि प्रादुर्भावे` (धातुपाठः-859)।ननु च न्यङ्क्वादयः कृतकुत्वाः प्रातपदिकगणे पठन्ते, तत्किमर्थमिदम्, यथैव हि कुत्वादन्यत्? कार्यं भवति निपातनात्? तथा कुत्वमपि भविष्यति? तस्यैव प्रातपदिकपाठस्याभ्यनुज्ञानार्थमितदमुच्यते। असति ह्रतस्मिन्? प्रमादपाठो विज्ञायतेत॥ Prakriyasarvasvam ----------------- एषां दृष्टं कुत्वादिकार्यं साधु स्यात् । इति मिहेः कुः रुहेर्घः ।