73049: आदाचार्याणाम्

Padacheda: आत् | S | 1 | 1 |

आचार्याणाम् | S | 6 | 3 |

Sutrartha


Vasu English Summary

According to the opinion of other Teachers, आ is substituted for the which is obtained by shortening the long आ of the feminine (under sūtra केऽणः (7.4.13)) of a word which has no corresponding masculine form.

Vasu English Translation

According to the opinion of other Teachers, आ is substituted for the which is obtained by shortening the long आ of the feminine (under sūtra केऽणः (7.4.13)) of a word which has no corresponding masculine form. As खट्वाका, अखट्वाका or परमखट्वाका ॥

Note: The “Teachers” referred to here are either those other than the Northern Grammarians, or it may refer to the Teacher of Panini, the plural being for the sake of respect. Thus there are three forms अखट्वका, अखट्विका, and अखट्वाका ॥

Kashika

अभाषितपुंस्कादातः स्थाने योऽकारस्तस्याचार्याणामाकारादेशो भवति। खट्वाका। अखट्वाका। परमखट्वाका॥

Siddhanta Kaumudi

पूर्वसूत्रविषये आद्वा स्यात् । गङ्गाका । गङ्गिका । उक्तपुंस्कात्तु शुभ्रिका ॥

Balamanorama

आदाचार्याणाम् - आदाचार्याणां । पूर्वसूत्रविषय इति । अभाषितपुंस्काद्विहितस्यातः स्थाने अत इत्यर्थः । शुभ्रिकेति । शुभ्रशब्दो विशेष्यनिघ्नोऽनियतलिङ्गः । ततः स्त्रियां टापि शुभ्राशब्दात्कः । ‘केऽणः’ इति ह्रस्वः, पुनष्टाप् । अत्र कात्पूर्ववर्तिनष्टापोऽभाषितपुंस्काद्विहितत्वाऽभावात्तत्स्थानिकस्याऽतो नेत्वविकल्पः । किं तुप्रत्ययस्था॑दिति नित्यमित्वमित्यर्थः । अनुपसर्जनादित्यधिकारस्य उत्तरावधिमाह — यूनस्तिरित्यभिव्याप्येति । ‘यूनस्तिः’ इत्यत्राप्ययमधिकारो नतु ततः प्रागित्यर्थः । अत्र च व्याख्यानमेव शरणम् । अत्र यद्वक्तव्यं तत् ‘यूनस्तिः’ इत्यत्र वक्ष्यते । ननु बहवः कुरुचरा यस्यां सा बहुकुरुचरा, नदमतिक्रान्ता अतिनदा इत्यादिषु उपसर्जनेषुकुरुचरनदादिशब्देभ्यःटिड्ढाणञि॑त्यादिना विधीयमानानां ङीबादिप्रत्ययानां प्रसक्तिरेव नास्ति, समासप्रत्ययविधौ तदन्तविधिप्रतिषेधात् । तस्मादनुपसर्जनाधिकारो व्यर्थ इत्यत आह — अयमेवेति । अनुपसर्जनादित्यधिकार एवायं स्त्रीप्रत्ययेषु तदन्तविधिं ज्ञापयतीत्यर्थः । एतच्च भाष्ये स्पष्टम् । तत्फलं तुवनो र चे॑त्यत्र वन्नन्तान्तलाभ इत्यादि ज्ञेयम् । ननु स्त्रीप्रत्ययेषु तदन्तविध्यभावेऽपि नद इवाचरति नदा स्त्रीत्यादिषु आचारक्विबन्तप्रकृतिककर्तृक्विबन्तेषु ङीबादिनिवृत्तये अनुपसर्जनाधिकारस्यावस्यकत्वात्कथं तस्य स्त्रीप्रत्ययविधिषु तदन्तविधिज्ञापकतेति चेत्, न, अनुपसर्जनाधिकारस्य स्त्रीप्रत्ययविधिषु तदन्तविधिज्ञापनार्थत्वपरभाष्यप्रामाण्येन स्त्रियामाचारक्विबन्तप्रकृतिककर्तृक्विबन्तानामनभिधानोन्नयनादित्यलम् ।

Padamanjari

इत्वापवादोऽयं योगः ।’के’ णःऽ इति ह्रस्वापवादश्च । आचार्याणामिति । उदीचामित्युक्तम्, ततोऽन्येषामाचार्याणामित्यर्थः । अपर आह - आचार्यस्य पाणिनेर्य आचार्यः स इहाचार्यः, गुरुत्वातु बहुवचनमिति । सर्वथा अभाषितपुंस्केषु त्रैरूप्यम् - अखट्वका, अखट्विका, अखट्वाकेति ॥

Nyaas

नञ्पूर्वाणामपीत निवृत्तम्; पूर्वसूत्रे चानुकृष्टत्वात्। इत्त्वापवादोऽयं योगः। केऽणः (7.4.13) इति ह्रस्वपवादश्च। आचार्यग्रहणं नित्यार्थम्। असति हि तस्मिन्; उदीचाम् (7.3.46) इत्यधिकाराद्विकल्पः स्यात्। आचार्यग्रहणे तु सति तेन उदीचाम् इत्येतस्मिन्निवर्त्तिते, नित्य एष विधिर्भवतीति॥

Prakriyasarvasvam

केषाञ्चिन्मते नित्यस्त्रीलिङ्गानामत आत् स्यात् । मालाका इति ।