73045: न यासयोः¶
Padacheda: न | S | 0 | 0 |
यासयोः | S | 6 | 2 |
Sutrartha¶
Vasu English Summary¶
The इ is not substituted for the अ of य् and स् with the augment क् when the feminine आ follows.
Vasu English Translation¶
The इ is not substituted for the अ of य् and स् with the augment क् when the feminine आ follows. As यका सका ॥ The या and सा simply stand for यद् and तद्, and the prohibition is not confined to the nominative case only, as the forms या and सा may lead one to think. न यत् तदोः would have been a better sutra. The prohibition applies in every case, as यकामधीते, तकां पचामहे ॥ Or यकांयकामधीमहे (i.e. ऋचां गाथां च), and तकां तकाम्पचामहे (i. e. औषधीं शाकिनीं वा)
Vart:- The affix त्यकन् (5.3.34) should be enumerated also along with यत् and तद् ॥ As उपत्यका, अधित्यका ॥
Vart:- The feminine of पावक &c in the Veda does not take इ for अ ॥ As हिरण्यवर्णः शुचयः पावकाः, यासु अ लोमकाः, ऋक्षकाः &c. But पाविकाः, अलामिकाः in secular literature.
Vart:- So also in the affix वुन् used in benediction: as जीवताद् जीवका, नन्दताद् नन्दका, भवताद् भवका ॥ See (3.1.150).
Vart:- So also when the second member is elided in a compound: as देवका, यज्ञका, the second member दत्त is elided, the fuller forms being देवदत्तिका, यज्ञदत्तिका (अनजादौ च विभाषा लोपो वक्तव्यः) See (5.3.83) Vartika.
Vart:- क्षिपक &c should be enumerated in this prohibition : as क्षिपका, ध्रुवका, धुवका, चटका ॥
Vart:- तारका is formed when it means ‘stars’, but तारिका ‘a maid-servant’ from तारयति ॥
Vart:- वर्णका is formed when it means ‘a mantle or mask’, but वर्णिका ‘an expounder’: as वर्णिका भागुरी लोकायते ‘Bhaguri is a commentary of Lokayata’
Vart:- वर्तका ‘a bird’ according to the Eastern grammarians, but वर्तिका according to the Northern authorities. Why do we say ‘when meaning a bird’? ‘Observe वर्त्तिका भागुरी लोकायतस्य ॥
Vart:- अष्टका when meaning a पितृदैवत्य ceremony, but अष्टिका खारी ॥ The ceremony related to Pitridevata is called Pitridaivatya, the affix is यत् ॥ The former is derived from the root अश् with the affix तकन् (अश्नन्ति ब्राह्मणा ओदनमस्यां), the other is derived from the numeral अष्ट by the affix कन् (5.1.22).
Vart:- Optionally सूतका, पुत्रका and वृन्दारका, the other forms are सूतिका, पुत्रिका, and वृन्दारिका ॥
Bhashya¶
न यासयोः न यत्तदोः(4) न यत्तदोरिति वक्तव्यम् ॥ इहापि यथा स्यात्-यकामधीमहे(5), तकां पचामह(6) इति प्रतिषेधे त्यकन उपसङ्ख्यानम् प्रतिषेधे त्यकन उपसङ्ख्यानं कर्तव्यम् । उपत्यका अधित्यका ॥ तत्तर्हि उपसङ्ख्यानं कर्तव्यम् ? ॥ न कर्तव्यम् । आचार्यप्रवृत्तिर्ज्ञापयति - नैवंजातीयकानामित्वं भवतीति यदयं मृदस्तिकन्नितीत्वभूतं निर्देशं करोति पावकादीनां छन्दस्युसङ्ख्यानम् पावकादीनां छन्दस्युपसङ्ख्यानं कर्तव्यम् हिरण्यवर्णाः शुचयः पावकाः । ऋक्षकाः(2) अलोमकाः ॥ छन्दसीति किमर्थम् ? ॥ पाविका अलोमिका आशिषि चोपसङ्ख्यानमाशिषि चोपसङ्ख्यानं कर्तव्यम् । जीवतात् जीवका । नन्दतान्नन्दका । भवताद्भवका उत्तरपदलोपे चोपसङ्ख्यानमुत्तरपदलोपे चोपसङ्ख्यानं कर्तव्यम् । देवदत्तिका देवका । यज्ञदत्तिका यज्ञका क्षिपकादीनां(3) चोपसङ्ख्यानम् क्षिपकादीनां चोपसङ्ख्यानं कर्तव्यम् । क्षिपका ध्रुवका धुवका चटका(4) तारका(3) । ज्योतिष्युपसङ्ख्यानम् ॥ तारका ज्योतिष्युपसङ्ख्यानं कर्तव्यम्। तारका। ज्योतिषीति किमर्थम् ? ॥ तारयतीति तारिका दासी वर्णका तान्तवे उपसङ्ख्यानम् वर्णका तान्तवे उपसङ्ख्यानं कर्तव्यम् । वर्णका । तान्तव इति किमर्थम् ? ॥ वर्णिका भागुरी लोकायतस्य वर्तका शकुनौ प्राचामुपसङ्ख्यानम् वर्तका शकुनौ प्राचामुपससङ्ख्यानं कर्तव्यम् वर्त्तका शकुनिः ॥ शकुनाविति किमर्थम् ? ॥ वर्तिका भागुरी लोकायतस्य । प्राचामिति किमर्थम् ? ॥ वर्त्तिका अष्टका(1) पितृदेवत्ये उपसङ्ख्यानमष्टका पितृदेवत्ये उपसङ्ख्यानं कर्तव्यम् । अष्टका । पितृदेवत्य इति किमर्थम् ? ॥ अष्टिका खारी वा सूतकापुत्रकावृन्दारकाणामुपससङ्ख्यानम् वा सूतकापुत्रकावृन्दारकाणामुपसङ्ख्यानं कर्तव्यम् । सूतका-सूतिका ॥ पुत्रका-पुत्रिका । वृन्दारका(2) वृन्दारिका ॥ (नया)
Kashika¶
या सा इत्येतयोरिकारादेशो न भवति। यका। सका। या सा इति निर्देशोऽतन्त्रम्, यत्तदोरुपलक्षणार्थमेतत्। इहापि प्रतिषेध इष्यते — यकांयकामधीमहे,तकांतकां पचामह इति॥ यासयोरित्त्वप्रतिषेधे त्यकन उपसंख्यानम्॥ उपत्यका। अधित्यका॥ पावकादीनां छन्दस्युपसंख्यानम्॥ हिर॑ण्यवर्ण्ााः॒ शुच॑यः पाव॒काः (शौ०सं० १.३३.१)। यासु अलोमकाः। छन्दसीति किम्? पाविका॥ आशिषि चोपसंख्यानम्॥ जीवताद् जीवका। नन्दताद् नन्दका। भवताद् भवका॥ उत्तरपदलोपे चोपसंख्यानम्॥ देवदत्तिका, देवका। यज्ञदत्तिका, यज्ञका॥ क्षिपकादीनां चोपसंख्यानम्॥ क्षिपका। धुव्रका॥ तारका ज्योतिष्युपसंख्यानम्॥ तारका। ज्योतिषीति किम्? तारिका दासी॥ वर्णका तान्तव उपसंख्यानम्॥ वर्णका प्रावरणभेदः। तान्तव इति किम्? वर्णिका भागुरी लौकायते॥ वर्तका शकुनौ प्राचामुपसंख्यानम्॥ वर्तका शकुनिः प्राचाम्। अन्यत्रोदीचां तु वर्तिका। शकुनाविति किम्? वर्तिका भागुरी लौकायतस्य॥ अष्टका पितृदेवत्ये॥ अष्टका। पितृदेवत्य इति किम्? अष्टिका खारी॥ वा सूतकापुत्रकावृन्दारकाणामुपसंख्यानम्॥ सूतिका, सूतका। पुत्रिका, पुत्रका। वृन्दारिका, वृन्दारका॥
Siddhanta Kaumudi¶
यत्तद्दोरस्येन्न स्यात् । यका । सका । यकाम् । तकाम् ।<!त्यकनश्च निषेधः !> (वार्तिकम्) ॥ अधित्यका । उपत्यका ॥<!आशिषि वुनश्च न !> (वार्तिकम्) ॥ जीवका । भवका ॥<!उत्तरपदलोपे न !> (वार्तिकम्) ॥ देवदत्तिका । देवका ॥<!क्षिपकादीनां च न !> (वार्तिकम्) ॥ क्षिपका । ध्रुवका । कन्यका । चटका ॥<!तारका ज्योतिषि !> (वार्तिकम्) ॥ अन्यत्र तारिका ॥<!वर्णका तान्तवे !> (वार्तिकम्) ॥ अन्यत्र वर्णिका ॥<!वर्तका शकुनौ प्राचाम् !> (वार्तिकम्) ॥ उदीचां तु वर्तिका ॥<!अष्टका पितृदेवत्ये !> (वार्तिकम्) ॥ अष्टिकान्या ।<!सूतकापुत्रिकावृन्दारकाणां वेति वक्तव्यम् !> (वार्तिकम्) ॥ इह वा अ इति छेदः । कात्पूर्वस्याकारादेशो वेत्यर्थः । तेन पुत्रिकाशब्दे ङीन इवर्णस्य पक्षेऽकारः । अन्यत्रेत्त्वबाधनार्थमकारस्यैव पक्षेऽकारः । सूतका । सूतिकेत्यादि ॥
Balamanorama¶
न यासयोः - न यासयोः । नात्र कृतटापोः प्रतमान्तयोर्निर्देशः । यत्त दोरित्येव विवक्षितमिति बाष्ये स्पष्टम् ।प्रत्ययस्था॑दित्यतोऽत इति इदिति चानुवर्तते । तदाह — यत्तदोरिति । यका सकेति ।अव्ययसर्वनाम्ना॑मिति यत्तच्छब्दयोष्टेः प्रागकचि सौ त्यदाद्यत्वं, पररूपं, टाप्, हल्ङ्यादिना सुलोपः । तच्छब्दे ‘तदोः सः सौ’ इति तकारस्य सकारः । उभयत्रापिप्रत्ययस्था॑दिति प्राप्तमित्त्वमत्र सूत्रे निषिध्यते । अथन यासयो॑रित्यस्य प्रथमान्तानुकरणत्वे किं बाधकमित्यत आह — यकां तकामिति ।त्यकनश्च निषेध इति । त्यकन्प्रत्ययान्तस्यापिप्रत्ययस्था॑दितीत्त्वप्रतिषेधो वक्तव्य इत्यर्थः । उपत्यका अधित्यकेति ।उपाधिभ्यां त्यकन्नासन्नारूढयोः॑ इति त्यकन्, टाप्, सोर्हल्ङ्यादिलोपः ।उपत्यकाद्रेरासन्ना भूमिरूध्र्वमधित्यका॑ इत्यमरः । ननु त्यकन्विधौ अकारस्य उच्चारणसामर्थ्यादेव इत्त्वं न भवति, अन्यथा त्यिकनमेव विदध्यात्, अतः किं तन्निषेधेनेति चेत्, मैवम् — ॒पञ्चोपत्यको ग्राम॑ इत्यत्र अकारश्रवणार्थत्वादित्यलम् ।आशिषीति । आशिषि यो बुन् तस्य योऽयमकादेशः, तदकारस्यप्रत्ययस्था॑दितीत्त्वं नेति वक्तव्यमित्यर्थः । जीवका भवकेति । जीवतात्, भवतादित्यर्थः । जीवधातोः भूधातौश्चआशिषि चे॑ति वुन्, ‘युवोरनाकौ’ इति तस्य अकादेशः,सार्वधातुकार्धधातुकयोः॑ इति भूधातोरूकारस्य गुणेऽवादेशश्च । उत्तरपदेति । उत्तरपदलोपेऽपीत्त्वं नेति वक्तव्यमित्यर्थः । देवकेति । देवदत्तशब्दाट्टाप् । देवदत्तिकेति तु दत्तपदस्य लोपाभिव्यक्तये उपन्यस्तम् । क्षिपकादीनां चेति । क्षिपकादिशब्दानामित्त्वं नेति वक्तव्यमित्यर्थः । क्षिपकादिगणं पठति — क्षिपकेति ।क्षिप प्रेरणे॑ । इगुपधाज्ञाप्रीकिरः कः॑ । कित्त्वान्न लघूपधगुणः, क्षिपाशब्दात्स्वार्थे कः, ‘केऽणः’ इति ह्रस्वः, पुनष्टाप् । ध्रुवकेति । ‘ध्रुव स्थैर्ये’ कुटादिः, क्षिपकेतिवद्रूपम् । यद्वा ‘ध्र स्थैर्ये’ पचाद्यच्, ‘गाङ्कुटादिभ्यः’ इति ङित्त्वान्न गुणः, उवङ् । ध्रुवशब्दाट्टाप् । ततः स्वार्थिकः कः ‘केऽणः’ इति ह्रस्वः । पुनष्टाप् । कन्यकेति । कन्याशब्दात्कः, ‘केऽणः’ इति ह्रस्वः, पुनष्टाप् । चटकेति ।चट भेदेन । पचाद्यच्, टाप् । स्वार्थे कः, ‘केऽणः’ इति ह्रस्वः पुनष्टाप् । क्षिपकादिराकृतिगणः । तेन अलका इष्टका इत्यादि । तारका ज्योतिषीति । वार्तिकमिदम् । ज्योतिषि वाच्ये तारकेति भवति । इत्त्वं न भवतीति यावत् । ‘तृ प्लवनसंतरणयोः’ ण्वुल्, अकादेशः ऋकारस्य वृद्धिः, रपरत्वं, टाप् । ज्योतिरित्यनेन नक्षत्रम्, अक्ष्णः कनीनिका च विवक्षिते ।नक्षत्रमृक्षं भं तारा तारकापि॑ इति,तारकाक्ष्णः कनीनिका॑ इति चामरः । अन्यत्रेति । ज्योतिषोऽन्यत्र वाच्ये तारिकेत्येव भवतीत्यर्थः ।वर्णका तान्तव इति । इदमपि वार्तिकम् । तान्तवे गम्ये वर्णकेति भवति । इत्त्वं नेत्यर्थः । तन्तूनां विकारस्तान्तवम् ।ओरञ॑ । वर्णकेति प्रावरणविशेषः ।वर्ण वर्णक्रियाविस्तारगुणवचनेषु॑ चुरादिः । ण्यन्ताण्ण्वुल्, अकादेशः, णिलोपः, टाप् । अन्यत्रेति । तान्तवादन्यत्र वर्णकेति इत्त्वमित्यर्थः । वर्णिका-स्तोत्रीत्यर्थः । वर्णिकेति ग्रन्थविशेषस्य संज्ञा वा ।वर्तका शकुनौ प्राचामिति । इदमपि वार्तिकम् । शकुनिः पक्षी, तत्र गम्ये प्राचां मते वर्तकेति भवति, इत्त्वं न भवतीत्यर्थः । प्राचाङ्ग्रहणस्य प्रयोजनमाह — उदीचां त्विति । उदीचां मते तु शकुनौ गम्ये वार्तिकेतीत्त्वं भवतीत्यर्थः । वर्तयतेर्ण्वुल्, अकादेशः, णिलोपः, स्वार्थे कः, टाप् ।कोयष्टिकष्टिट्टिभका वर्तको वर्तिकादयः॑ इत्यमरः । शकुनेरन्यत्र तु नित्यमेवेत्त्वम् । अष्टका पितृदेवत्ये इति । इदमपि वार्तिकम् । पितरश्च ता देवताश्च पितृदेवताः । तदर्थं पितृदेवत्यम् ।देवतान्तात्तादर्थ्ये य॑दिति यत् । पित्रर्थे कर्मणि वाच्ये अष्टकेति भवति । ‘अश भोजने’ इत्यस्मात्इष्यशिभ्यां तक॑न्निति तकन् प्रत्ययः,व्रश्चा॑दिना शस्य षः, तकारस्य ष्टुत्वेन टः, अष्टकशब्दाट्टाप् । अष्टिकान्येति । अष्टाबध्यायाः परिमाणमस्या अष्टिका पाणिनीयाष्टाध्यायी,सङ्ख्यायाः अतिशदन्तायाः कन् इति सूत्रेण अष्टौ इति सुबन्तात्कन्प्रत्ययः, सुबन्तात्तद्धितोत्पत्तेः सिद्धान्तयिष्यमाणत्वात् । ततस्तद्धितान्तत्वेन प्रातिपदिकत्वात्सुपो धातुप्रातिपदिकयोः॑ इति जसो लुकि निमित्तापायादष्टन आत्वनिवृत्तौ, अन्तर्वर्तिर्नी विभक्तिमाश्रित्य पदत्वान्नकारलोपे, अष्टशब्दाट्टापिप्रत्ययस्था॑दितीत्त्वं भवत्येव । न चान्तर्वर्तिसुपः परत्वं टापः शङ्क्यं, ककारेण व्यवधानात् । असुप इत्यस्यबहुपरिव्राजका नगरी॑त्यत्राऽव्यवहिते सुपः परे टापि चरितार्थत्वात् । अतएवक्षिपकादीनां ने॑ति निषेधोऽर्थवान् । अन्यथा क्षिपाशब्दात्सुबन्तात्स्वार्थिके कप्रत्यये सुपो लुकि अन्तर्वर्तिनीं विभक्तिमाश्रित्य टापः सुबपेक्षया परत्वादसुपैति निषेधसिद्धेः किं तेनेत्यलम् ।॒वा सूतकापुत्रिकाबृन्दारकाणा॑मिति वार्तिकमर्थतः पठति — सूतकेति । अत्र पुत्रिकाशब्द इकारमध्यो नत्वकारमध्यः, स्त्रियां पुत्रशब्दस्य शाङ्र्गरवादित्वेन ङीनन्तत्वादिति कैयटः । अत्रेत्त्वविकल्पभ्रमं वारयति — इह वा अ इति । सवर्मदीर्घे सति वा इति निर्देश इति भावः । अत्र अ इति लुप्तप्रथमाकं, कात्पूर्वस्येत्यनुवर्तते, अत इति निवृत्तम्, पुत्रिकाशब्दे अतोऽभावात् । तदाह — कात्पूर्वस्येति । नन्वत्र इत्त्वविकल्प एव कुतोन विधीयत इत्यत आह — तेनेति । अत्वविधानेनेत्यर्थः । पुत्रशब्दाच्चाङ्र्गरवादित्वान्ङीनि स्वार्थिके कप्रत्यये ‘केऽणः’ इति ह्रस्वे, टापि, पुत्रिकाशब्दः ।अत्र इकारस्य इत्त्वविकल्पविधौ पुत्रिका पुत्रीकेति इन्मध्य ईन्मध्यश्च स्यात् । अत्वविधौ तु पुत्रका पुत्रिकेत्यकारमध्यः इकारमध्यश्च भवतीति भावः । ननु सूतकाशब्देवृन्दारकाशब्दे च कात्पूर्वस्याऽकारस्य अकारविधिः किमर्थमित्यताअह — अन्यत्रेति । सूतकाशब्दे वृन्दारकाशब्दे चप्रत्ययस्था॑दिति नित्यमित्त्वे प्राप्ते तद्विकल्पार्थमित्यर्थः ।षूञ्प्राणिगर्भविमोचने॑ । धात्वर्थेनोपसङ्ग्रहादकर्मकः ।गत्यर्थाकर्मके॑त्यादिना कर्तरि क्तः, टाप्, स्वार्थिकः क#ः, केऽणः॑ इति ह्रस्वः, पुनष्टाप् । अत्राकारस्य अत्त्वाऽभावपक्षेप्रत्ययस्था॑दितीत्वम् । वृन्दमस्यास्तीति मत्वर्थेशृङ्गबृन्दाभ्यामारक॑न्नित्यारकन्प्रत्ययः । अमरेण तावद्देवतावाची बृन्दारकशब्दःअमरा निर्जरा देवाः॑ इत्यादिना पुंलिङ्गेष्वनुक्रान्तः । रूपिवाची मुख्यवाची च त्रिलिङ्गः । ‘त्रिषूत्तरे’ इत्युपक्रम्यबृन्दरकौ रूपमुख्यौ॑ इत्यमरः । स्त्रियां टाप् । अत्राप्यकारस्य अत्त्वाभावपक्षे इत्त्वम् ।
Tattvabodhini¶
न यासयोः - न यासयोः ।प्रत्ययस्था॑दिति प्राप्ते निषेधोऽयम् ।यासे॑ति यत्तदोरुपलक्षणमित्याशयेनाह -यत्तदोरिति । यका सकेति । यत्तदोरकच् । त्यदाद्यत्वे टाप् । स्वरूपस्यऽविवक्षायां फलमाह — यकां तकामिति । यद्यपिन यत्तदो॑रित्येव सूत्रयितुमुचितं, तथापि संनिपातपरिभाषाया अनित्यत्वज्ञापनार्थंन यस्यो॑रित्युक्तमित्याहुओः । वस्तुतस्तु [॒न]यत्तदो॑रित्युक्तेऽप्यनित्यत्वं सिध्यत्येव, अन्यथा अनयोरकारस्याप्परत्वं दुर्लभमिति किमनेन निषेधेनेति ।त्यकनश्च निषेधः । त्यकनश्च निषेध इति । ननुमृदस्तिक॑न्नितिवत्प्राक्रियालाघवायत्यिक॑न्निति वक्तव्येत्यक॑न्नित्यकारनिपर्देशसामर्थ्यादित्त्वाऽभावे सिद्धे किमनेन निषेधवचनेन । मैवम् । पञ्चभोरुपत्यकाभिः क्रीतःपञ्चोपत्यक॑इत्यादौ तद्धितलुकि रुआईप्रत्ययस्यापि लुक्यकारस्य श्रवणार्थत्वात्तस्य ।त्यिक॑न्नित्युक्ते हिपञ्चोपत्यिक॑इति स्यात्, इष्यते तुपञ्चोपत्यक॑इति । तस्मादावश्यकमेव निषेधवचनम् ।मृदस्तिक॑न्नित्यत्रापीकारोच्चारणं तद्धितलुकि श्रवणार्थं न तु प्रक्रीयालाघवार्थम् । अन्यथा पञ्चमिर्मृत्तिकाभिः क्रीत इतिआर्हा॑दिति ठकःअध्र्धपूर्वे॑ति लुकि कृतेलुक्तद्धितलुकी॑ति टापो लुकी निमित्ताऽभावात्प्रत्ययस्थादि॑तीत्त्वं न स्यात् — पञ्चमृत्तिक इत्यत्र । नच लुकः प्रागेवाऽन्तारङ्गत्वात्प्रत्ययस्थात् — ॑इतीत्त्वं सिध्यत्येवेति वाच्यम्,अन्तरङ्गानपि विधीन् बहिरङ्गो लुग्बाधते॑इत्यभ्युपगमात् । अतएवसनीरुआंसते॑इत्यादौ नलोपाऽभावः सिध्यति । पञ्चभिः खट्वाभिः क्रीतःपञ्चखट्व॑इत्यादौ टापा सहैकादेशोऽपि न भवति, अन्यथा एकादेशस्यादिवद्भावाट्टाब्ग्रहणेन ग्रहणात्लुक्तद्धितलुकी॑त्यनुपसर्जनस्त्रीप्रत्ययस्य लुकि कृते अकारस्य श्रवणं न स्यात् । एतच्च भाष्यकैयटयोः स्पष्टम् । उपत्यकेति ।उपाधिभ्यां त्यकन्नासन्नारुढयोः॑ ।आशिषीति । आशीरर्थे विहितस्य वुन्प्रत्ययस्याऽत इत्त्वं न भवतीति वक्तव्यमित्यर्थः । जीवका । भवकेति । जीवताद्भवतादित्यर्थे जीवतिभवतिभ्यामाशिषि चे॑ति बुन्, तस्याऽकादेशे कृते टाप् ।उत्तरपदलोपे न । देवकेति देवदत्तशब्दात्स्वार्थिकः कः ।अनजादौ विभषा लोपो वक्तव्यः॑इति प्रागिवीयेषु वक्ष्यमाणत्वाद्द्वितीयादच ऊध्र्वस्य दत्तशब्दस्य लोपः । देवदत्तिकाशब्दस्योपन्यासस्तु दत्तलोपमभिव्यङ्क्तुं, तद्दभावे इत्त्वनिषेधाऽभावं च दर्शयितुम् ।क्षिपकादीनां च । क्षिपकादीनां चेति ।ने॑त्यनुषज्यते । क्षिपकेत्यादि । क्षिपेरिगुपधलक्षणः कः । एवंध्रुव स्थैर्ये॑इत्यस्मादपि कः । यद्वाध्रु गतिस्थैर्ययोः॑पचाद्यच् । कुटादित्वान्ङित्त्वेन गुणाऽभावे उवङ् ।चट भेदने॑पचाद्यच् । ततष्टाप् । अज्ञातादौ कः ।केऽणः॑इति ह्रस्वः । पुनष्टाप् ।तारका ज्योतिषि । तारकेतचि । तरतेर्ण्वुल् । अकादेशः । नक्षत्रं नेत्रकनीनिका च ज्योतिः ।प्रावारविशेषः ।वर्ण वर्णक्रियाविस्तारगुणवचनेषु॑इति चौरादिकाण्ण्वुल् । तन्तूनां विकारस्तान्तवम् । अन्यत्र वर्णिकेति । ग्रन्थविशेषस्य व्याख्या स्तोत्रकत्र्री च ।वर्तका शकुनौ प्राचाम् । वर्तकेति । वर्तयतीति वर्तका । शकुनावेव वाच्येऽयं विकल्पः, अन्यत्र नित्यमेवेत्त्वमिति बोध्यम् ।अष्टका पितृदेवत्ये । अष्टकेति । पतरश्च तचा देवताश्च पितृदेवताः । तदर्थं कर्म — पितृदैवत्यम् । देवतान्तात्तादर्थ्ये यत् । अश्रन्ति ब्राआहृणा यस्यां सा अष्टाका ।इष्यशिभ्यां तकन् । अष्टिकान्येति । अष्टौ परिमाणमस्याः ।सङ्ख्याया अतिशदन्तायाः कन् ।सूतकापुत्रिकावृन्दरकाणां वेतिवक्तव्यम् । सुतकेति । सूतशब्दात् स्वार्थे कन् ।वृन्दमस्यास्तीति मत्वर्थेशृङ्गवृन्दाभ्यां॑ मित्यारकन् । देवतावाचिवृन्दारकशब्दस्य पुंलिङ्गत्वेऽपि रूपिमुख्यवाचिनोः स्त्रीलिङ्गत्वं संभवत्येव, अतएवत्रिषूत्तरे॑इत्युपक्रम्यवृन्दारकौ रूपिमुख्यौ॑इत्यमरेणोक्तम् ।
Padamanjari¶
पूर्वेण नित्यमित्वे प्राप्ते निषेधोऽयमुच्यते, प्राप्तिपूर्वकत्वात् प्रतिषेधस्य । यदा यतदोरकज्भवति तदा प्रतिषेधः । यका, सकेति । यतदोरकच्, सौ त्यदाद्यत्वे टाप् । या सेति प्रथमैकवचनान्तयोरुपादानाद्विभक्त्यन्तरे प्रतिषेधो न स्यादित्यत आह - यासेति निर्देशो न तन्त्रमिति । यतदोरुपलक्षणमिति । यद्येवम्, यतदोरित्येव वक्तव्यम् ? सत्यम्; तथा तु न कृतं किं कुर्मः ! यकांयकामधीमह इति । ऋचं गाथां च । तकांतकाम्पचामह इति । ओषधिं शाकिनीं वा, द्वावेतौ प्रयोगौ । उपत्यकेति । ठुपाधिभ्यां त्यकन्नासन्नारूढयोःऽ । अत्र कश्चिदाह -‘स्त्रीविषयो’ यं त्यकन्प्रत्ययान्तः; ततश्च प्रक्रियालाघवाय त्यिकन्निति वक्तव्ये त्यकन्नित्यकारोच्चारणसामर्थ्यादित्वाभावःऽ इति तदयुक्तम्; पञ्चभिरुपत्यकाभिः क्रीतः पञ्चोपत्यक इत्यादावार्हीयस्य ठकः ठध्यर्धपूर्वऽ इति लुकि कृते’लुक् तद्धितलुकि’ इति टापो लुकि निमिताभावादित्वं न स्यादिति तद्धितलुगर्थमेतत्स्यात्, बहिरङ्गो लुक्, ठन्तरङ्गानपि विधीन्बहिरङ्गो लुग्बाधतेऽ । ननु च’सुपो धातुप्रातिपदिकयोः’ इत्येतद्विषयमेतत् ? नेत्याह; यश्च यावाÄश्च तुग्ग्रामः, सर्वोऽप्यन्तरङ्गान्विधीन्बाधते, यथा -‘सनीस्रंस’ इत्यादौ नलोपो न भवति । पञ्चखट्व इत्यादौ टापा सहैकादेशो न भवति; यदि स्यात्, आदिवद्भावादाव्ग्रहणेन ग्रहणाल्लुकि सति अकारोऽत्र न श्रूयेत । पावका इति । पुनन्ति पावयन्तीवि वा पावकाः । अलोमका इति । बहुव्रीहेः कप् । जीवकेति । ठाशिषि चऽ इति वुन् । देवकेति । देवदतशब्दात् ठनुकम्पायां कन्ऽ, ठनजादौ च विभाषा लोपो वक्तव्यःऽ इति दतशब्दस्य लोपः । क्षिपकेति । क्षिपेरिगुपधात्कः ।’ध्रु गतिस्थैर्ययोः’ , पचाद्यचि कुटादित्वाद् गुणाभावे उवङ्, उभाभ्यामज्ञातादिषु’प्रागिवात्कः’ । तरतेर्ण्वुल् - तारका । वर्णयति महत्वादिकं गुणमिति वणकाउप्रावारविशेषः, तन्तूनां विकारस्तान्तवम् ठोरञ्ऽ । वणिकेति । भागुरी व्याख्या, टीकाविशेषः । वृतेर्ण्यन्तात् ण्वुल् - वर्तिका । अष्टकेति । अश्नन्ति ब्राह्मणा ओदनमस्यामित्यष्टका, ठिष्यशिभ्यां तकन्ऽ इति तकन् । पितरश्च ता देवताश्च पितृदेवताः, तदर्थं कर्म पितृदैवत्यम्’देवतान्तातादर्थ्ये यत्’ इति यत् । अष्टिकेति । अष्टौ परिमाणमस्याः,’संख्याया अतिशदन्तायाः कन्’ । सूतकेति ।’न सामिवचने’ इति प्रतिषेधेन ज्ञापितः स्वार्थे कन् । पुत्रिकेति । शार्ङ्गरवादित्वान्ङीनि कृते स्वाथिकः कन्,’के’ णःऽ इति ह्रस्व इकारः, तस्य पक्षेऽत्वं विधीयते । वृन्दारिकेति ।’शृङ्गवृन्दाभ्यामारकन् वक्तव्यः’ इत्यारकन् ॥
Nyaas¶
येतयेतस्य उदीचामातः स्थाने (7.3.46) इत्यादिना विकल्पे प्राप्ते, सेत्यस्य पूर्वेण नित्ये प्राप्ते प्रतिषेधोऽयमारभ्यते; प्राप्तिपूर्वकत्वात्? प्रतिषेधस्य। यदा तयोरकज्भवति तदाऽयं प्रतिषेधो विज्ञायते। यका, सका इति। यत्तदोः पूर्ववदकच्, सुः, त्यदाद्यत्वञ्च। यासेति निर्देशोऽतन्त्रम् इति। अप्रधानमित्यर्थः। किं कारणम्? इत्याह - यत्तदोरुपलक्षणार्थमेतत् इति। किं कारणमेवं व्याख्यायते? इत्याह - इहापि इत्यादि। यासेति प्रथमैकवचनान्तरूपम्। ततर यद्ययं निर्देशस्तन्त्रं स्यात्, प्रथमैकवचनन्तयोग्र्रहणाद्विभक्त्यन्तरे यकाम्, तकामित्यत्र न स्यात्, इष्यते च तत्रापि। तस्मादतन्त्रमयं निर्देशो यत्तदोः प्रातिपदिकयोरुपलक्षणार्थमेतत् - इत्युच्यते। यासयोरित्त्वप्रतिषेधे इत्यादि। उपसंख्यानशब्दस्य प्रतिपादनमर्थः। तदेतदुक्तं भवति - यत्तदोः प्रतिषेध इत्यस्मिन्? क्रियमाणे त्यकन्प्रत्ययान्तस्य त्यकन्प्रत्ययान्तस्य प्रतिषेधप्रतिपादनं कर्तव्यमिति। तत्रेदं प्रतिपादनम् - नेति योगविभागोऽत्र क्रियते, तेन त्यकन्प्रत्ययान्तस्य प्रतिषेधो भविष्यतीति। एवमुत्तरत्राप्युपसंखघ्यानशब्दस्य प्रतिपादनार्थो वेदितव्यः। प्रतिपादनमप्येतदेव योगविबागकरणमाश्रितय कर्तव्यम्। उपत्यका, अधत्यका इति। उपाधिभ्यां त्यकन्नासन्नारूढयोः (5.2.34) इति त्यकन्। `पावका इति। ण्वुल्। अलोमका इति। नास्या लोमानि सन्तीति बहुव्रीहिः। शेषाद्विभाषा (5.4.154) इति कप्। जीवका, नन्दका ति। आशिषि च (3.1.150) इति वुन्। देवका, यज्ञका इति। देवदत्तयज्ञदत्तशब्दाभ्यां अनुकम्पायां कन् (5.3.76) इति कनि कृते अनजादौ च विभाषा लोपो वक्तव्यः (वा। 614) इत्युत्तरपदलोपः। क्षिपका, ध्रुवका इति। क्षिप प्रेरणे (धातुपाठः-1285), ध्रुव स्थैर्ये (धातुपाठः-943), इगुपधज्ञाप्रीकिरः कः (3.1.135) । तदन्तादज्ञाताद्यर्थे प्रागवात्कः (5.3.70) । तारका इति। तरतेर्ण्वुल्। वर्णका तान्तवः` इति। तन्तूनां विकार इति ओरञ् (4.3.137) , ओर्गुणः (6.4.146) । तान्तवः=प्रावरणविशेषः। तत्र वर्णकेत्युपसंख्यातव्या। वर्ण वर्णक्रियाधिस्तारगुणवचनेषु`[`वर्णं - नास्ति मुद्रितन्यसपाठे] (धातुपाठः-1938) इति चौरादिको धातुः, ततो ण्वुल् - वर्णिका इति। व्याख्यत्रीत्यर्थः। वर्तका इति। वृतु वर्तने (धातुपाठः-758), ण्वुल्। वर्त्तिका इति। अध्येत्रीत्यर्थः। अष्टका पितृदैवत्ये इति। पितृदैवत्यम्=वैदिककरमविशेषः, तत्राष्टकेत्युपसंख्यायते। अशू व्याप्तौ (धातुपाठः-1264) इत्यस्मात्? इष्यसिभ्यां तकन् (द।उ।3-30) इति तकन्प्रत्ययः, व्रश्चादिसूत्रेण (8.2.36) षत्वम्, ष्टुत्वम्। अष्टका इति। अष्टौ परिमाणमस्या इति तदस्य परिमाणम् (5.1.57) इति संख्याया अतिशदन्तायाः कम् (5.1.22) । वा सूतका इत्यादि। उपसंख्यातशब्दसय प्रतिपादनमर्थः। तत्रैदं प्रतिपादनम् - सूतका, सूतिका - इत्यादयः शब्दा पृषोदरान्तःपातिनः, तेन पृषोदरादित्वादेवायं विकल्पः सिद्धः॥
Praudhamanorama¶
अत्र न्यासकारः। या इत्येतस्य ‘उदीचामातः स्थाने’ इति विकल्पे प्राप्ते निषेधोऽयमिति; तन्न, ‘आतः स्थाने’ इत्यंशस्येहाभावात्। या सेति यत्तदोरुपलक्षणमित्याशयेनाह— यत्तदोरिति। स्वरूपस्याविवक्षायां फलमुदाहरति- यकां, तकामिति। यासयोरित्यपहाय यत्तदोरित्येव वक्तुमुचितम्। उपत्यकेति। ‘उपाधिभ्यां त्यकन्नासन्नारूढयोः’ इति। ‘क्षिपकादीनां च’। नेत्यनुषज्यते। क्षिपकेति। क्षिपेरिगुपधलक्षणः कः। ततोऽज्ञातादौ कः। चट भेदने। पचाद्यच्। ततः कः। तारकेति। तरतेर्ण्वुल्। ज्योतिर्नक्षत्रं, नेत्रकनीनिका च। वर्णका- प्रावारविशेषः। तन्तूनां विकारस्तान्तवम्। ‘ओरञ्’। अन्यत्र वर्णिकेति। ग्रन्थविशेषस्य व्याख्या स्तोत्रकर्त्री च। वर्तयतीति वर्तका- शकुनौ इत्त्वं वा। अन्यत्र नित्यमेव। पितरश्च ताः देवताश्च पितृदेवतास्तदर्थं कर्म पितृदेवत्यम्। ‘देवतान्तात्तादर्थ्ये यत्’ इति यत्। अश्नन्ति ब्राह्मणा यस्यां सा अष्टका। ‘इष्यशिभ्यां तकन्’। अष्टिकान्येति। अष्टौ परिमाणमस्याः ‘संख्याया अतिशदन्तायाः कन्’। अर्थगतं स्त्रीत्वमाकारेऽद्ध्यारोप्य ‘यकपूर्वायाः’ इति स्त्रीलिङ्गनिर्देशः। तेन स्त्रीप्रत्ययो लभ्यत इत्याशयेनाह—
Prakriyasarvasvam¶
यत्तदोरापि परे कात्पूर्वस्यात इत्त्वं न । यका सका । यकाम् । तकाम् । आशिषि वुनश्च नेष्टम् । जीवका । जयका भूयात् । तद्धितोक्तोत्तरपदलोपेऽपि न । देवदत्तिका देवका । यज्ञदत्तिका यज्ञका । क्षिपकादीनां न । ‘क्षिपकाध्रुवकाध्रुवका- फलकाचरकाचटकेष्टकँलुकैरकाकरकावकाळकादण्डकाकन्यकामेनकादीना’मिति भोजः (स० ७–१–९६) आद्य आयुधभेदः । पुनर्द्वौ पात्रभेदौ । आद्युक्तेरित्वका नक्षत्रम् । तारका ज्योतिषि । अन्यत्र तारिका नौः ॥ <karika>स्यात् प्रावरणभेदेऽर्थे वर्णकान्यत्र वर्णिका । वर्तका शकुनौ प्राचामुदीचां वर्तिकाँेव सा ॥ ४७१ ॥</karika> अष्टका पितृदेवत्ये क्रीता त्वष्टभिरष्टिका । सूतकादित्रये वा स्यात् सूतका सूतिका तथा ।। पुत्रका पुत्रिका वृन्दारका वृन्दारिकाथवा ।। ४७२ ।।
Vartika¶
त्यकनश्च निषेधः ।