73046: उदीचामातः स्थाने यकपूर्वायाः

Padacheda: उदीचाम् | S | 6 | 3 |

आतः | S | 6 | 1 |

स्थाने | S | 7 | 1 |

यकपूर्वायाः | S | 6 | 1 |

Sutrartha


Vasu English Summary

According to the opinion of Northern Grammarians इ is not substituted for that अ which is obtained by shortening the long आ of the feminine (under sūtra केऽणः (7.4.13) before the affix क) which is preceded by य् or a क्।

Vasu English Translation

According to the opinion of Northern Grammarians इ is not substituted for that अ which is obtained by shortening the long आ of the feminine (under sūtra केऽणः (7.4.13) before the affix क) which is preceded by य् or a क्। The mention of ‘northern grammarians’ makes this an optional rule. As इभ्यका or इभ्यिका, क्षत्रियका or क्षत्रियिका, चटकका or चटकिका, मूषिकका, मूषिकिका ॥ Why do we say preceded by य् or क् ? Observe अश्वक-अश्विका only (from अश्वा) ॥ The word यकपूर्वायाः is exhibited in the feminine, in order to indicate that the rule applies when the feminine affix आ is shortened to अ ॥ Therefore not here शुभंयिका from शुभंया (शुभं याति). So also भद्रंयिका from भद्रया, where आ is part of the root या (see (3.2.74)).

Vart:- Prohibition must be stated of the य् and क् being finals of a root. When the य् or क् preceding this अ, is the final of the root, the prohibition contained in the sutra, does not apply: as सुनयिका, सुशयिका, and अशोकिका ॥

Why do we say ‘of long आ’? Observe सांकाश्ये भवा = सांकाश्यिका ॥ The word संकाश्य is formed from संकाश by the affix ण्य (संकाशे निर्वृत्तं) ॥ Then is added the affix वुञ् (4.2.121). Here there is no shortening of a long आ, and hence no option is allowed. But in इभ्यका or इभ्यिका the long आ has been shortened. Because this word is thus derived: इभमर्हति = इभ्या (दण्डादिभ्योयः (5.1.66)). To this क is added, and the long आ is shortened.

Why is the word स्थान used in the sutra, when by the general rule षष्ठी स्थाने योगः this word would be understood here? The special mention is for the sake of pointing out that the अ which takes the place of आ is intended here: i. e. the इ replaces this short अ; but had the word स्थाने not been used in the sutra the इ would have replaced the long आ ॥

Bhashya

उदीचामातः स्थाने यकपूर्वायाः किमर्थं स्त्रीलिङ्गनिर्देशः क्रियते न यकपूर्वस्येत्येवोच्येत ? ॥ स्त्रीविषयो य आकारस्तस्य स्थाने योऽकारस्तस्य प्रतिषेधो यथा स्यादिह मा भूत्-शुभं यातीति शुभंयाः शुभंयिका । भद्रंयाः- भद्रंयिका(3) यकपूर्वे धात्वन्तप्रतिषेधः यकपूर्वे धात्वन्तप्रतिषेधो वक्तव्यः ॥ किं प्रयोजनम् ? ॥ सुनयिका सुशयिका अशोकिका अपाकिका ॥ ( उदीचामातः स्थाने ) ॥

Kashika

उदीचामाचार्याणां मतेन यकारपूर्वायाः ककारपूर्वायाश्चातः स्थाने योऽकारः, तस्यातः स्थान इकारादेशो न भवति। उदीचांग्रहणं विकल्पार्थम्। इभ्यका, इभ्यिका। क्षत्रियका, क्षत्रियिका। ककारपूर्वायाः — चटकका, चटकिका। मूषिकका, मूषिकिका। आत इति किम्? सांकाश्ये भवा सांकाश्यिका। स्थानग्रहणमनुवादेऽपि स्थानसंबन्धप्रतिपत्त्यर्थम्। आत इत्यनेन ह्यत इति स्थानी विशिष्यते। यकपूर्वाया इति किम्? अश्वा — अश्विका। यकपूर्वाया इति स्त्रीलिङ्गनिर्देश आतः स्त्रीप्रत्ययस्य प्रतिपत्त्यर्थम्, इह न भवति — शुभं यातीति शुभंयाः — शुभंयिका। भद्रं यातीति भद्रंयाः — भद्रंयिका॥ यकपूर्वाया धात्वन्तप्रतिषेधः॥ धात्वन्तयोर्यकारककारयोरस्य प्रतिषेधस्य प्रतिषेधो वक्तव्यः। सुनयिका। सुशयिका। सुपाकिका। अशोकिका॥

Siddhanta Kaumudi

यकपूर्वस्य स्त्रीप्रत्ययाकारस्य स्थाने योऽकारस्तस्य कात्पूर्वस्येद्वा स्यादापि परे । केऽणः (SK834) इति ह्रस्वः । आर्यका । आर्यिका । चटकका । चटकिका । आतः किम् ? सांकाश्ये भवा सांकाश्यिका । यकेति किम् ? अश्विका । स्त्रीप्रत्ययेति किम् ? शुभं यातीति शुभंयाः । अज्ञाता शुभंयाः शुभंयिका ॥<!धात्वन्तयकोस्तु नित्यम् !> (वार्तिकम्) ॥ सुनयिका । सुपाकिका ॥

Balamanorama

उदीचामातः स्थाने यकपूर्वायाः - उदीचामातः । ‘प्रत्ययस्थात्’ इति सूत्रमनुवर्तते । यश्च कश्च यकौ, तौ पूर्वौ यस्या इति विग्रहः । यकेति वर्णग्रहणम्, अकारावुच्चारणार्थौ । ‘यकपूर्वाया’ इत्येतदात इत्यस्य विशेषणम् । तेन अर्थगतं स्त्रीत्वमाकारे आरोप्य ‘यकपूर्वाया’ इति स्त्रीलिङ्गनिर्देशः । तेन आकारस्य स्त्रीवाचकत्वं लभ्यते । तदाह — यकपूर्वस्येत्यादिना । उदीचांग्रहणं विकल्पार्थमेव नतु देशतो व्यवस्थार्थमिति ‘न वेति विभाषा’ इति सूत्रे बाष्ये स्पष्टम् । नच ‘षष्ठी स्थानेयोगा’ इत्येव सिद्धेरिह स्थानेग्रहणं व्यर्थमिति वाच्यम्, अनुवादे परिभाषाणामनुपस्थितेः । तत्र च इदमेव स्थानेग्रहणं ज्ञापकम् । अत एववृद्धिर्यस्याचामादिस्तद्वृद्ध॑मित्यत्र यस्यादिर्वृद्धिरित्यनुवादे इक्परिभाषा न प्रवर्तते । तत्प्रवृत्तौ तु शालाशब्दस्य वृद्धसंज्ञा न स्यात्, शकारादाकारस्य इक्श्तानिकत्वाऽभावात् । ततस्च शालीय इति ‘वृद्धाच्छः’ इति छो न स्यात्, ‘औपगवीय’ इत्यादावेव स्यादित्यलम् । केऽण इति ह्रस्व इति । आर्याशब्दात्स्वार्थिके कप्रत्यये यकाराकारस्य ‘केऽणः’ इति ह्रस्व इत्यर्थः । पुनष्टापि आर्यकाशब्दः । तत्र यकारादकारस्य आकारस्थानिकत्वादित्त्वविकल्पः ।प्रत्ययस्था॑दिति नित्यस्येत्त्वस्यापवादः । तदाह — आर्यका-आर्यिकेति । यकारपूर्वस्य उदाहरणमिदम् । अथ ककारपूर्वस्य उदाहरति — चटकका चटकिकेति । चटकाशब्दात्स्वार्थे कः, ‘केऽणः’ इति ह्रस्वः, पुनष्टाप्, इत्त्वविकल्प इति भावः । साङ्खाश्यिकेति । सङ्काशेन निर्वृत्तं नगरं साङ्काश्यम् ।वृञ्छणकठ॑जित्यादिना सङ्काशिद्भ्यो ण्यः, आदिवृद्धिः,यस्येति चे॑त्यकारलोपः । साङ्काश्यशब्दाद्भवार्थेधन्वयोपधाद्वुञ् । अकादेशःयस्येति चे॑त्यकारलोपः, टाप्,प्रत्ययस्था॑दिति नित्यमित्त्वम् । इह यकारादकारस्य आकारस्थानिकत्वाऽभावादित्त्वविकल्पो न भवतीति भावः । ननु स्त्रीबोधकस्य अत इद्वा स्यादित्येवास्तु, आत इति मास्तु । साङ्काश्यकाशब्दे यकारादकारस्य वुञादेशावयवत्वेन स्त्रीबोधकत्वाभाऽदिति चेत्, तह्र्रात् इति स्पष्टार्थमित्याहुः । अइआकेति । अआआशब्दात्कः, ‘केऽणः’ इति ह्रस्वः, पुनष्टाप्, अआकाशब्दः । अत्र अकारस्य आकारस्थानिकत्वेऽपि यकपूर्वकत्वा.ञभावादित्त्वविकल्पो न, किंतुप्रत्ययस्था॑दिति नित्यमित्त्वमिति भावः । स्त्रीप्रत्यय इति किमिति । ‘यकपूर्वाया’ इति स्त्रीलिङ्गनिर्देशलब्धं स्त्रीप्रत्ययस्येति किमर्थमिति प्रश्नः । शुभंयिकेति ।शुभ॑मिति मान्तमव्ययम् । तस्मिन्नुपपदे ‘या प्रापणे’ इति धातोःअन्येभ्योऽपि दृश्यते॑ इति विच् । शुभंयाशब्दात्स्वार्थे कः । ‘केऽणः’ इति ह्रस्वः, टाप्, शुभंयकाशब्दः । अत्र यकारादकारस्य धात्ववयवस्य स्त्रीवाचकत्वाऽभावादित्त्वविकल्पो न, किन्तु ‘प्रत्ययस्थात्’ इति नित्यमेवेत्त्वमिति भावः ।॒यक पूर्वे धात्वन्तप्रतिषेधः॑ इति वार्तिकमर्थतः संगृह्णाति — धात्वन्तयकोस्तु नित्यमिति । यश्च कश्चेति विग्रहः । धात्वन्तयकारककारयोरुपरि विद्यमानस्य अकारस्य नित्यमित्त्वम्, न तु विकल्प इत्यर्थः । सुनयिकेति । णीञ्धातोः पचाद्यच् ।सार्वधातुकार्धधातुकयो॑रिति गुणेऽयादेशे नयशब्दः । सु=शोभनो नयो यस्याः सा सुनया । ततः स्वार्थे कः, ‘केऽणः’ इति ह्रस्वः । पुनष्टाप्, सुनयकाशब्दः । अत्र यकारस्य धात्वन्तत्वात्ततः परस्याऽकारस्य नेत्वविकल्पः, किंतुप्रत्ययस्था॑दिति नित्यमित्त्वमिति भावः ।

Tattvabodhini

उदीचामातः स्थाने यकपूर्वायाः - उदीचाम् । यकौ पूर्वौ यस्याः सा । अर्थगतं स्त्रीत्वमाकारे आरोप्ययकपूर्वाया॑इति स्त्रीलिङ्गनिर्देशः । तेन स्त्रीप्रत्ययो लभ्यत इत्यह — स्त्रीप्रत्ययाऽकारस्येति । अत्रन यासयो॑रित्यतोने॑ति वर्तते । यकपूर्वस्य स्त्रीप्रत्ययाऽऽकारस्य स्थाने योऽकारस्तस्य कात्पूर्वस्योदीचां मते इत्त्वं नेत्यक्षरार्थः । एवं स्थिते फलितमाह -इद्वास्यादिति । एवमग्रेऽप्यूह्रम् ।षष्ठी स्थानेयोगे॑त्यनेनैव लब्धे सूत्रे स्थानग्रहणमनूद्यमानविशेषणेषु परिभाषानोपतिष्ठत, तदा औपगवीय इत्यादावेववृद्धाच्छः॑स्यात् नतुशलीयः॒॑मालीय॑इत्यादौ ।तत्र ह्राकारवृद्धेरिक्स्थानिकत्वाऽभावात् । तथाअतो गुणे॑इत्यत्रेक्परिभाषोपस्थितौएधे॒॑पचे॒॑यजे॑इत्यादावेव पररूपं स्यात् ।टित आत्मनेपदाना॑मिति इट एत्वे कृत्वे इक्स्थानिकत्वादेकारगुणस्य ।भवन्ती॒॑पचन्ती॑त्यादौ न स्यात्, तत्रेक्स्थानिकत्वाऽभावादकारगुणस्येत्यपि बोध्यम् । नव्यास्तु वृद्धाच्छं बाधित्वाअणृगयनादिभ्यः॑इत्यण्प्रत्ययो यथा स्यादित्येतदर्थभृगयनादिगणे व्याकरणशब्दः पठते । यद्यनूद्यमानविशेषणेषु परिभाषा उपतिष्ठेरन् तर्हि तत्पठनं व्यर्थं स्यात् । आकारवृद्धेरिक्स्थानिकत्वाऽभावने वृद्धसंज्ञाया अभावाच्छस्याऽप्रवृत्तेः । तथा च तस्मादेव पाठादुक्तार्थज्ञापनसंभवे स्थानेग्रहणमिह स्पष्टर्थमित्याहुः । साङ्काश्यिकेति । शङ्काशेन निर्वृत्तं नगरं साङ्काश्यं,वृञ्छ॑णादिसूत्रेणसङ्काशादिभ्योः ण्यः॑ । ततो भवार्थेधन्वयोपधाद्वुञ् । अकादेशः । स च साङ्काश्यभवां स्त्रियमाहेति तदकारस्यापि वैकल्पिकमित्त्वं स्यात्, तस्मादात इत्युक्तम् । अत्र वदन्ति — यथाऽयमकारो नाऽऽकारस्थानिकः, एवं स्त्रीप्रत्ययस्थानिकोऽपि नेति व्द्यङ्गविकलमेतत्,अके॑ति समुदायस्य स्त्रीवाचकवुञ्स्थानिकत्वेऽप्यकारमत्रस्याऽतथात्वात् । तस्मादात इति स्पष्टार्थमेवेति । शुभंया इति ।अन्येभ्योऽपि दृश्यते॑इति विच् ।शुभ॑मिति मान्तो निपातः ।धात्वन्तयकोस्तु नित्यम् । सुनयिकेत । सुष्ठु नयो यस्याः सा सुनया । ततः कः ।केऽणः॑इति ह्रस्वः । एवं सुष्ठु पाको यस्याः सा सुपाकिका ।

Padamanjari

यकौ पूर्वौ यस्याः सा यकपूर्वा, कोऽन्यपदार्थः ? आकारः । अर्थगतं स्त्रीत्वं शब्दे समारोप्य स्त्रीलिङ्गनिर्देशः, पूर्वशब्दो व्यवस्थावचनः । इभ्यिकेति । इभर्हतीति’दण्डादिभ्यो यः’ - इभ्या, ततः पूर्वत्कः, ह्रस्वत्वं च । चटक - मूषकशब्दाभ्यामजादित्वाट्टाप् । साङ्काश्यिकेति । सङ्काशैः निर्वृतं साङ्काश्यम्,’सङ्काशादिभ्यो ण्यः’ , ततो भवार्थे’धन्वयोपधाद्वुञ्’ इति वुञ् । स्थानग्रहणमनर्थकम्,’षष्ठी स्थानेयोगा’ इति सिद्धत्वादिति ? अत आह - स्थानग्रहणमित्यादि । परिभाषाया विधिशेषत्वादनुवादे उपस्थानं न स्यादिति भावः । अनुवादत्वमेव स्पष्टयति - आत इत्यनेन हीति । अतो योऽकारस्तस्येत्वं भवतीति वचनव्यक्तौ नाकारस्य विधिस्पर्शः कश्चिदस्तीत्यर्थः । स्त्रीप्रत्ययस्य प्रतिपत्यर्थमिति । यः’स्त्रियाम्’ इत्यधिकृत्य विहितष्टाबादिः स स्त्रीप्रत्ययः, तस्य प्रतिपतिर्यथा स्यादित्येवमर्थमित्यर्थः । असति हि स्त्रीलिङ्गेयः कश्चनाकारो गृह्यएत । शुभं याति, भद्रं यातीति । क्विप् । शुभम्, भद्रमिति मकारान्तौ निपातितौ, पूर्वत्कः, ह्रस्वत्वं च । प्रतिषेध इति । तेन विधिरेव भवति । सुनयिका, सुशयिकेति । नीशीभ्याम् ठेरच्ऽ, सुशब्देन बहुव्रीहिः, टाबादि पूर्ववत् । सुपाकिका, सुशोकिकेति । पचिशुचिभ्यां घञ्,’चजोः कु घिण्ण्यतोः’ इति कुत्वम् । शेषं पूर्ववत् ॥

Nyaas

पूर्वेण नित्यमित्त्वे प्राप्ते विकल्पार्थं वचनम्। यकौ पूर्वे। यस्याः सा यकपूर्वा। कोऽन्यपदार्थः? समुदायः। तथा हि, पूर्वशब्दोऽवयवे वर्तते। स चावयवः समुदायस्य भवति, नावयवान्तरस्य। न हि वर्णो वर्णस्यावयवो भवति। अवयवान्तरापेक्षस्तु तस्य पूर्वत्वव्यपदेशः। तत्? पुनरवयान्तरं प्रकृतत्वात्? स्थान्यकार एव विज्ञायते। स्त्रीलिङ्गनिर्देशस्तु तस्य[तस्येत्यारभ्य तु इति पर्यन्तं मुद्रितन्यासे नोपलक्ष्यते] समुदायस्यार्थधर्मेण स्त्रीत्वेन वेदितव्यः। प्रयोजनं तु तस्य वक्ष्यते। आतः स्थाने इति। योऽकार इति व्यवहितेन सम्बन्धः। इभ्यिका इत्यादि। इभ्यादिशब्देभ्यः प्रागिवात्? कः (5.3.70) , केऽणः (7.4.13) इति ह्रस्वः। सांकाश्यिका इति। धन्वयोपधाद्वुञ् (4.2.121) । नात्रातः स्थानेऽकार इति नित्यमेवेत्त्वम्। अथ स्थानग्रहणं किमर्थम्, यावतात्? इत्येषैव षष्ठी स्थानेयोगं प्रतिपादयिष्यति, षष्ठी स्थानेयोगा (1.1.49) इति वचनात्? इत्यत आह - स्थानग्रहणम् इत्यादि॥ अकारस्य स्थाने लक्षणान्तरेण दिहितस्याकारस्य संकीर्तनम्नुवादः। अत्रापि स्थाने सम्बन्धप्रतिपत्तिर्यथा स्यात् - इत्येवमर्थं स्थानग्रहणम्। किं पुनः कारणम् - असति स्थानग्रहणेऽनुवादे सम्बन्धप्रतिपत्तिर्न स्यात्? इत्याह - आत इत्यनेन इत्यादि। आदेशविधौ अस्तेर्भूः (2.4.52) इत्येवमादौ षष्ठी स्थानेयोगा (1.1.49) इत्येषा परिभाषोपतिष्ठते, न त्वनुवादे; विधिवाक्यशेषभूतत्वादस्याः। न चात्राकारस्य स्थानेऽकारोऽनेन विधीयते, किं तर्हि? लक्षणान्तरेणाभिनिर्वृत्तोऽनेन विशिष्यते - आतः स्थाने योऽकार इति। तेन नात्र तस्याः परिभाषाया उपसथानमिति तत्र यदि स्थानग्रहणं न क्रियेत, तदातः समीपो योऽकार इति सामीप्पसम्बन्धप्रतिपत्तिः स्यात्। अथ वा पूर्ववत्? प्रश्ने कृत इत्याह - आत इत्यनेन इत्यादि। इकारस्य यः स्थानित्वेनोपात्तोऽकारः स आत इत्यनेन विशिष्यते। एवञ्च विशेष्यत्वादकारस्य प्रधान्यम्; आकारस्य विशेषणत्वादप्राधान्यम्। तत्रासति स्थानग्रहमे यद्यप#इ सा परिभाषानुवाद उपतिष्ठेत तथापि प्रधाने कार्यसम्प्रत्ययादात इत्यस्या एव षष्ठ्याः स्थानसम्बन्धो विज्ञायेत, न त्वात इत्यस्याः। स्थानग्रहणे तु सत्यस्या अपि विज्ञायते - एतदर्थं स्थानग्रहणम्। अइआका इति। पूर्ववत्? कः, ह्रस्वत्वञ्च। अथ यकपूर्वायाः इति स्त्रीलिङ्गेन निर्देशः क्रिमर्थः? इत्याह - स्त्रीलिङ्गेन निर्देशः। असति तस्मिन्नाकारमात्रस्थाने योऽकारस्तस्य स्थानित्वं विज्ञायेत, ततश्च यातेः शुभम्भद्रंशब्दयोरुपपदतः `विजुपे च्छब्दसि (3.2.73) इति आतो मनिब्क्वनिब्वनिपश्च (3.2.74) इति विच्। तदन्तात्? कप्रत्यये शुर्भयिका, भद्रंयिका इत्यत्रापि विकल्पः प्रसज्येत। तस्मात्? तन्निवृत्त्यर्थं स्त्रीलिङ्गनिर्देशः। शुभम्भद्रंशब्दौ मकारान्तौ निपातौ। यकपूर्वायाः इत्यादि। ग्रहणवाक्याम्। तस्य धात्वन्तयोर्यकारककारयोः इत्यादि। विवरणम्। वक्तव्यम् इति। व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् - व्यवस्थितविभाषाविज्ञानाद्धात्वन्तयोरपि यकारवकारयोरनन्तरस्याकारस्येत्त्वप्रतिषेधः प्राप्नोति, स न भविष्यतीति। सुनयिका, सुशयिका इति। णीञ्शीङ्भ्यां एरच् (3.3.56) इत्यच्। शोभनो नयोऽस्याः, शोभनः शयोऽस्याः - सुनया, सुशया, ततः प्रागिवात्? कः (5.3.70) , केऽणः (7.4.13) इति ह्रस्वत्वम्। सुपाकिका, अशोकिका इति। डुपचष्? पाके (धातुपाठः-996), शुच शोके (धातुपाठः-183), भावे घञ्। शोभनः पाकोऽस्याः, अविद्यमानः शोकोऽस्या इति बहुव्रीहिः, शेषाद्विभाषा (5.4.154) इति कप्, आपोऽन्यतरस्याम् (7.4.15) इति ह्रस्वत्वम्॥

Praudhamanorama

साङ्काश्यिकेति। सङ्काशेन निर्वृत्तं साङ्काश्यम् ‘वुञ्छण्’ आदिसूत्रेण सङ्काशादिभ्यो ण्यः। ततो भवार्थे ‘धन्वयोपधाद् वुञ्’ अकादेशः। स च साङ्काश्यभवां स्त्रियमाहेति तदकारस्यापि इत्त्वं विकल्प्येत; तस्मादात इत्युक्तम्। ननु यथायमकारो नाकारस्थानिक एवं स्त्रीप्रत्ययस्थानिकोऽपि नेति द्व्यङ्गविकलमेतत्। अत्राहुः— सति ह्यात इत्येतस्मिन् स्त्रीलिङ्गनिर्देशबलात् स्त्रीवाचक आकारः स्त्रीप्रत्यय एवेति लभ्यते। असति तु तस्मिन् स्त्रीवाचकस्य योऽकार इत्येतावल्लभ्येत ततः साङ्काश्यिकेत्यत्रापि प्रसज्येतेति। अत्रेदं वक्तव्यम। यकपूर्वायाः स्थाने, इति स्थानेशब्दे जागरूके कथमवयवषष्ठीत्वं गम्यताम्। न च वुञः स्थानेऽयमिति वाच्यम्, अकेति समुदायस्य तथात्वेऽपि अकाररूपावयवस्याऽतथात्वात्, वुञो यकपूर्वत्वाभावाच्च। न हि तस्यामवस्थायां ‘यस्य’ इति लोपोऽपि लभ्यते। किं च प्रतिपदोक्तस्य स्त्रीप्रत्ययस्य लाभे भवार्थे विहितस्य वुञादेः प्रसङ्ग एव नास्ति। तस्मादात इति स्पष्टार्थमेव। अश्विकेति। कौमारास्तु भस्त्रादिवाक्येऽश्वशब्दमपि पठन्तोऽस्यापि इत्त्वविकल्पमिच्छन्ति। शुभमिति मान्तो निपातः। सुष्ठु नयो यस्याः सा सुनया। ततः कः। ॥

Prakriyasarvasvam

यकपूर्वस्य स्त्रीप्रत्ययरूपस्याकारस्य स्थाने योऽकारः तस्य कात् पूर्वस्यापि परे इद्वा स्यात् । आर्याशब्दात् कप्रत्यये ‘केऽणः’ (७-४-१३) इति ह्रस्वे च कृते आर्यकः । पुनष्टापि इत्त्वविकल्पः । आर्यिका । आर्यका । चटका । चटकका । शुष्किकेत्यत्र तु निष्ठाकत्वस्यासिद्धत्वाद् न विकल्पः । आतः स्थान इत्युक्तेः सांकाश्यिका । अत्र ह्यकेति प्रत्ययः । आतः स्त्रीप्रत्ययस्येत्युक्तेः शुम्भंयिका । अत्र शुभंया इति क्विबन्तात् के ह्रस्वः । धात्वन्तयकारककारयोस्तु नित्यम् । (वा) । सुनयिका सुपाकिका । त्यक्त्त्यपोश्च नित्यम् (वा) । दाक्षिणात्यिका । इहत्यिका ।।

Vartika

धात्वन्तयकोस्तु नित्यम् ।