73035: जनिवध्योश्च

Padacheda: जनिवध्योः | S | 6 | 2 |

च | S | 0 | 0 |

Sutrartha


Vasu English Summary

The वृद्धि is not substituted for the vowels of जन् ‘to produce’ and वधे before the Aorist sign चिण् and the कृत् affixes with an indicatory ञ् or ण् ।

Vasu English Translation

The वृद्धि is not substituted for the vowels of जन् ‘to produce’ and वधे before the Aorist sign चिण् and the कृत् affixes with an indicatory ञ् or ण् । As अजनि and अवधि with चिण्, and जनकः and वधकः (with ण्वुल्), प्रजनः, वधः ॥ This rule refers to the separate and the distinct root वध and not to the substitute of हन् ॥ This we see in the line भक्षकश्चेन्न विद्यते वधकोऽपि न विद्यते ॥ The form from हन् will be घातकः ॥ Moreover the substitute वध ends with अ i.e. it is of two syllables ‘badha’, and as such it also does not admit Vriddhi. (See (2.4.42)). The prohibition refers to चिण् and krit-affixes, therefore not here, as जजान गर्भं महिमानमिन्द्रम् ॥

Kashika

जनि वधि इत्येतयोश्चिणि कृति च ञ्णिति यदुक्तं तद् न भवति। अजनि। जनकः। प्रजनः। अवधि। वधकः। वधः। वधिः प्रकृत्यन्तरं व्यञ्जनान्तोऽस्ति तस्यायं प्रतिषेधो विधीयते। भक्षकश्चेन्न विद्येत वधकोऽपि न विद्यत इति हि प्रयोगो दृश्यते। वधादेशस्यादन्तत्वादेव वृद्धेरभावः। चिण्कृतोरित्येव — ज॒जान॒ गर्भं॑ महि॒मान॒मिन्द्र॑म् (शौ०सं० ३.१०.१२)॥

Siddhanta Kaumudi

अनयोरुपधायावृद्धिर्न स्याच्चिणि ञ्णिति कृति च । अजनि । अजनिष्ठ ।{$ {!1150 दीपी!} दीप्तौ$} । दीप्यते । दिदीपे । अदीपि । अदीपिष्ट ।{$ {!1151 पूरी!} आप्यायने$} । पूर्यते । अपूरि । अपूरिष्ट ।{$ {!1152 तूरी!} गतित्वरणहिंसनयोः$} । तूर्यते ।{$ {!1153 धूरी!} {!1154 गूरी!} हिंसागत्योः$} । धूर्यते । दुधूरे । गूर्यते । जुगूरे ।{$ {!1155 घूरी!} {!1156 जूरी!} हिंसावयोहान्योः$} ।{$ {!1157 शूरी!} हिंसास्तम्भनयोः$} ।{$ {!1158 चूरी!} दाहे$} ।{$ {!1159 तप!} ऐश्वर्ये वा$} । अयं धातुरैश्वर्ये वा तङ्श्यनौ लभते । अन्यदा तु शब्विकरणः परस्मैपदीत्यर्थः । केचित्तु वाग्रहणं वृतुधारोराद्यवयवमिच्छन्ति । तप्यते । तप्ता । तप्स्यते । पतेति व्यत्यासेन पाठान्तरम् । द्युतद्यामा नियुतः पत्यमानः ।{$ {!1160 वृतु!} वरणे$} । वृत्यते । पक्षान्तरे वावृत्यते । ततो वावृत्यमाना सा रामशालां न्यविक्षतेति भट्टिः ।{$ {!1161 क्लिश!} उपतापे$} । क्लिश्यते । क्लिशिता ।{$ {!1162 काशृ!} दीप्तौ$} । काश्यते ।{$ {!1163 वाशृ!} शब्दे$} । वाश्यते । ववाशे ॥ अथ पञ्च स्वरितेतः ।{$ {!1164 मृष!} तितिक्षायाम्$} । मृष्यति । मृष्यते । ममर्ष । ममृषे ।{$ {!1165 ईशुचिर्!} पूतीभावे$} । पूतीभावः क्लेदः । शुच्यति । शुच्यते । शुशोच । शुशुचे । अशुचत् । अशोचीत् । अशोचिष्ट ।{$ {!1166 णह!} बन्धने$} । नह्यति । नह्यति । ननाह । ननद्ध । नेहिथ । नेहे । नद्धा । नत्स्यति । अनात्सीत् ।{$ {!1167 रञ्ज!} रागे$} । रज्यति । रज्यते ।{$ {!1168 शप!} आक्रोशे$} । शप्यति । श्प्यते ॥ अथैकादशानुदात्तेताः ॥{$ {!1169 पद!} गतौ $}। पद्यते । पेदे । पत्ता । पद्येत । पत्सीष्ट ॥

Laghu Siddhanta Kaumudi

अनयोरुपधाया वृद्धिर्न स्याच्चिणि ञ्णिति कृति च। अजनि, अजनिष्ट॥ {$ {! 20 दीपी !} दीप्तौ $} (धातुपाठे (04.0045)) ॥ दीप्यते। दिदीपे। अदीपि, अदीपिष्ट॥ {$ {! 21 पद !} गतौ $} (धातुपाठे (04.0065)) ॥ पद्यते। पेदे। पत्ता। पत्सीष्ट॥

Balamanorama

जनिवध्योश्च - जनीवध्योश्च । ‘अत उपधायाः’ इत्यत उपधाया इति,मृजेर्वृद्धि॑रित्यतो वृद्धिरिति,नोदात्तोपदेशस्ये॑त्यतो नेति,आतो यु॑गित्यतश्चिणकृतोरिति,अचो ञ्णिती॑त्यतो ञ्णितीति चानुवर्तते । तदाह — अनयोरिति । दीपीधातुरीदित् ।॒दीपजने॑ति च्लेश्चिण्विकल्पं मत्वाह -अदीपि अदीपिष्टेति । पूरीधातुरपि ईदित् ।दीपजने॑ति चिण्विकल्पं मत्वाह — अपूरि अपूरिष्टेति.तूरी इत्यादयोऽपि ‘चूरी दाहे’ इत्यन्ता ईदित एव.तप ऐआर्ये वेति ।श्यन् आत्मनेपदं चे॑ति शेषः । उभयोः प्रकृतत्वादित्यभिप्रेत्य शेषं पूरयति — श्यनं तङं चेति । अन्यदा त्विति । ऐआर्यादन्यार्थे वृत्तिदशायामित्यर्थः । केचित्त्विति । ‘तप ऐआर्ये’ ‘वावृतु वरणे’ इति धातुपाठे स्थितम् । तत्र ‘वावृतु वरणे’ इत्येवं वाशब्दं वृतु इत्यस्य आद्यवयवमिच्छन्तीत्यर्थः । एवं च ‘तप ऐआर्ये’ इत्येव स्थितम् । अस्मिन्पक्षेतपधातोर्नित्यमेव श्यन् तङ् चेति भावः । तप्यते इति । ईष्टे इत्यर्थः । प्रथमपक्षे ऐआर्ये तपतीत्यपि भवति । पत इतीति । तपधातोस्तकारपकारयोः क्रमव्यत्यासेन ‘पत ऐआर्ये वा’ इति पाठान्तरमित्यर्थः । एवं व्यत्यासेन पाठे प्रयोगं दर्शयति — द्युतद्यामा नियुत इति । प्रवायुमच्छा बृतीत्यृच एकदेशोऽयम् । ‘पत्यमान’ इत्यस्य ईशान इत्यर्थः । अत्र लटः शानजात्मनेपदं श्यन् च । पक्षान्तरे इति । ‘वावृतु’ इति पाठपक्षे इत्यर्थः । वावृत्यते इति । वृणोतीत्यर्थः । अपेक्षते इति यावत् । वावृतुधातोः प्रयोगं दर्शयति — ततोवावृत्यमानेति । अपेक्षमाणेत्यर्थः ।न्यविवक्षतेति.॒नेर्विशः ॑ इत्यात्मनेपदम् ।शल इगुपधा॑दिति क्सः । अथ पञ्च स्वरितेत इति । ‘शप आक्रोसे’ इत्यन्ता इत्यर्थः । शुच्यतीति । क्लिन्नं भवतीत्यर्थः । अशुचदिति । इरित्त्वादङिति भावः । णह बन्धने इति । णोपदेशोऽयम् । अनिट् । ननाहेति । नेहतुः । भारद्वाजनियमात्थलि वेडिति मत्वाह — नेहिथ ननद्धेति । इट्पक्षेथलि चे सेटी॑त्येत्त्वाभ्यासलोपौ । इडभावे तु ‘नहो धः’ इति हस्य ध इति भावः । रञ्ज रागे । अनिट् । रज्यतीति ।अनिदिता॑मिति नलोप इति भावः । ररञ्ज ररञ्जतुः । ररञ्जिथ- ररङ्क्थ । ररञ्जिव । रङ्क्ता इत्यादि । अथैकादशेति । ‘लिश अल्पीभावे’ इत्यन्ता इत्यर्थः । पद गतौ । अनिट् ।

Tattvabodhini

जनिवध्योश्च - ञिति णिति कृति चेति । ञिति कृत्युदाहरणं घञि — जनः । णिति कृति तु — जनकः । जनयतीत्यत्रोपधावृद्धौ सत्यांजनीजृ॑षिति मित्त्वात्मितां ह्रस्वः॑ इति ह्रस्वः । रदीपी दीप्तौ । ईदत्त्वान्निष्ठायामिण्न । दीप्तः । एं पूरीत्यादेरीदित्त्वात्पूर्ण इत्यादि ज्ञेयम् । केचित्त्विति । तेषां मते ऐआर्ये तप्यते इत्येव प्रयोगो न तु तपतीति । न्यविक्षतेति । निपूर्वाद्विशतेर्लुङिशल इगुपधे॑ति क्सः ।नेर्विशः॑ इति तङ् । वाशृ शब्दे ।मन्दिवाशी॑त्युरच् । वाशुरा रात्रिः । तितिक्षायामिति ।गुप्तिज्किद्भ्यः॑ इति सन् । तत्र हितिजे क्षमाया॑मित्युक्तम् । ई शुचिर् । ईदित्त्वान्नेट् । शुक्तम् । क्लिन्नमित्यर्थः । ननद्धेति ।नहो धः॑ इति धत्वम् ।

Padamanjari

वधिः प्रकृत्यन्तरमिति ।’वध हिंसायाम्’ इति भूवादौ पाठात् । भक्षकश्चेदिति । योऽपि मांसं क्रीत्वा भक्षयति, तस्यापि हिंसानुषङ्गोऽस्तीत्येतदनेन प्रतिपाद्यते । यथाह मनुः (मओ स्मृओ 5।51) - अनुमन्ता विशसिता निहन्ता क्रयविक्रयी । संस्कर्ता चोपहर्ता च खादकश्चेति घातकाः ॥ इति । हनादेशस्येति । अवधि भवता दस्युरित्यत्र । जजान गर्भमिति । व्यत्ययेन परस्मैपदम्, अन्तर्भावितण्यर्थत्वात् सकर्मकत्वम् ॥

Nyaas

वधिरयं हनादेशोऽस्ति, तस्यैदं ग्रहणमिति कस्यचिदाशङ्का स्यात्, अतस्तां निराकर्त्तुमाह - वधिः प्रकृत्यन्तरम् इत्यादि। प्रकृत्यन्तरमपि भवन्? यदयकारान्तः स्यात्, अनर्थकः प्रतिषेधः स्यात्, धोपधत्वादेव न वृद्धिर्भवतीति मत्वाऽऽह - व्यञ्जनान्तस्य इति। कुतः पुनर्विधिः प्रकृत्यन्तरमस्तीत्येतदवसितम्? इत्याह - भक्षकश्च इत्यादि। अथ हनादेशस्यैव वधेरयं प्रतिषेधः कस्मान्न भवति? इत्याह - हनादेशस्य इत्यादि। जजान गर्भम् इत्यादि। छान्दसः प्रयोगः॥

Prakriyasarvasvam

अनयोश्च चिणादौ वृद्धिर्न । जनकः । वधकः ।

Sutra Prayogas

  • अजनि (भट्टिकाव्यम्): जनिवध्योश्च इति न वृद्धिः।

  • कीटोपजनः (भट्टिकाव्यम्): जनिवध्योश्च इति न वृद्धिः।