73035: जनिवध्योश्च ================== **Padacheda:** जनिवध्योः | S | 6 | 2 | च | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- The वृद्धि is not substituted for the vowels of जन् 'to produce' and वधे before the Aorist sign चिण् and the कृत् affixes with an indicatory ञ् or ण् । Vasu English Translation ------------------------ The वृद्धि is not substituted for the vowels of जन् 'to produce' and वधे before the Aorist sign चिण् and the कृत् affixes with an indicatory ञ् or ण् । As अजनि and अवधि with चिण्, and जनकः and वधकः (with ण्वुल्), प्रजनः, वधः ॥ This rule refers to the separate and the distinct root वध and not to the substitute of हन् ॥ This we see in the line भक्षकश्चेन्न विद्यते वधकोऽपि न विद्यते ॥ The form from हन् will be घातकः ॥ Moreover the substitute वध ends with अ i.e. it is of two syllables '*badha*', and as such it also does not admit *Vriddhi*. (See (2.4.42)). The prohibition refers to चिण् and *krit*-affixes, therefore not here, as जजान गर्भं महिमानमिन्द्रम् ॥ Kashika ------- जनि वधि इत्येतयोश्चिणि कृति च ञ्णिति यदुक्तं तद् न भवति। अजनि। जनकः। प्रजनः। अवधि। वधकः। वधः। वधिः प्रकृत्यन्तरं व्यञ्जनान्तोऽस्ति तस्यायं प्रतिषेधो विधीयते। भक्षकश्चेन्न विद्येत वधकोऽपि न विद्यत इति हि प्रयोगो दृश्यते। वधादेशस्यादन्तत्वादेव वृद्धेरभावः। चिण्कृतोरित्येव — ज॒जान॒ गर्भं॑ महि॒मान॒मिन्द्र॑म् (शौ०सं० ३.१०.१२)॥ Siddhanta Kaumudi ----------------- अनयोरुपधायावृद्धिर्न स्याच्चिणि ञ्णिति कृति च । अजनि । अजनिष्ठ ।{$ {!1150 दीपी!} दीप्तौ$} । दीप्यते । दिदीपे । अदीपि । अदीपिष्ट ।{$ {!1151 पूरी!} आप्यायने$} । पूर्यते । अपूरि । अपूरिष्ट ।{$ {!1152 तूरी!} गतित्वरणहिंसनयोः$} । तूर्यते ।{$ {!1153 धूरी!} {!1154 गूरी!} हिंसागत्योः$} । धूर्यते । दुधूरे । गूर्यते । जुगूरे ।{$ {!1155 घूरी!} {!1156 जूरी!} हिंसावयोहान्योः$} ।{$ {!1157 शूरी!} हिंसास्तम्भनयोः$} ।{$ {!1158 चूरी!} दाहे$} ।{$ {!1159 तप!} ऐश्वर्ये वा$} । अयं धातुरैश्वर्ये वा तङ्श्यनौ लभते । अन्यदा तु शब्विकरणः परस्मैपदीत्यर्थः । केचित्तु वाग्रहणं वृतुधारोराद्यवयवमिच्छन्ति । तप्यते । तप्ता । तप्स्यते । पतेति व्यत्यासेन पाठान्तरम् । द्युतद्यामा नियुतः पत्यमानः ।{$ {!1160 वृतु!} वरणे$} । वृत्यते । पक्षान्तरे वावृत्यते । ततो वावृत्यमाना सा रामशालां न्यविक्षतेति भट्टिः ।{$ {!1161 क्लिश!} उपतापे$} । क्लिश्यते । क्लिशिता ।{$ {!1162 काशृ!} दीप्तौ$} । काश्यते ।{$ {!1163 वाशृ!} शब्दे$} । वाश्यते । ववाशे ॥ अथ पञ्च स्वरितेतः ।{$ {!1164 मृष!} तितिक्षायाम्$} । मृष्यति । मृष्यते । ममर्ष । ममृषे ।{$ {!1165 ईशुचिर्!} पूतीभावे$} । पूतीभावः क्लेदः । शुच्यति । शुच्यते । शुशोच । शुशुचे । अशुचत् । अशोचीत् । अशोचिष्ट ।{$ {!1166 णह!} बन्धने$} । नह्यति । नह्यति । ननाह । ननद्ध । नेहिथ । नेहे । नद्धा । नत्स्यति । अनात्सीत् ।{$ {!1167 रञ्ज!} रागे$} । रज्यति । रज्यते ।{$ {!1168 शप!} आक्रोशे$} । शप्यति । श्प्यते ॥ अथैकादशानुदात्तेताः ॥{$ {!1169 पद!} गतौ $}। पद्यते । पेदे । पत्ता । पद्येत । पत्सीष्ट ॥ Laghu Siddhanta Kaumudi ----------------------- अनयोरुपधाया वृद्धिर्न स्याच्चिणि ञ्णिति कृति च। अजनि, अजनिष्ट॥ {$ {! 20 दीपी !} दीप्तौ $} (धातुपाठे (04.0045)) ॥ दीप्यते। दिदीपे। अदीपि, अदीपिष्ट॥ {$ {! 21 पद !} गतौ $} (धातुपाठे (04.0065)) ॥ पद्यते। पेदे। पत्ता। पत्सीष्ट॥ Balamanorama ------------ **जनिवध्योश्च** - जनीवध्योश्च । 'अत उपधायाः' इत्यत उपधाया इति,मृजेर्वृद्धि॑रित्यतो वृद्धिरिति,नोदात्तोपदेशस्ये॑त्यतो नेति,आतो यु॑गित्यतश्चिणकृतोरिति,अचो ञ्णिती॑त्यतो ञ्णितीति चानुवर्तते । तदाह — अनयोरिति । दीपीधातुरीदित् ।॒दीपजने॑ति च्लेश्चिण्विकल्पं मत्वाह -अदीपि अदीपिष्टेति । पूरीधातुरपि ईदित् ।दीपजने॑ति चिण्विकल्पं मत्वाह — अपूरि अपूरिष्टेति.तूरी इत्यादयोऽपि 'चूरी दाहे' इत्यन्ता ईदित एव.तप ऐआर्ये वेति ।श्यन् आत्मनेपदं चे॑ति शेषः । उभयोः प्रकृतत्वादित्यभिप्रेत्य शेषं पूरयति — श्यनं तङं चेति । अन्यदा त्विति । ऐआर्यादन्यार्थे वृत्तिदशायामित्यर्थः । केचित्त्विति । 'तप ऐआर्ये' 'वावृतु वरणे' इति धातुपाठे स्थितम् । तत्र 'वावृतु वरणे' इत्येवं वाशब्दं वृतु इत्यस्य आद्यवयवमिच्छन्तीत्यर्थः । एवं च 'तप ऐआर्ये' इत्येव स्थितम् । अस्मिन्पक्षेतपधातोर्नित्यमेव श्यन् तङ् चेति भावः । तप्यते इति । ईष्टे इत्यर्थः । प्रथमपक्षे ऐआर्ये तपतीत्यपि भवति । पत इतीति । तपधातोस्तकारपकारयोः क्रमव्यत्यासेन 'पत ऐआर्ये वा' इति पाठान्तरमित्यर्थः । एवं व्यत्यासेन पाठे प्रयोगं दर्शयति — द्युतद्यामा नियुत इति । प्रवायुमच्छा बृतीत्यृच एकदेशोऽयम् । 'पत्यमान' इत्यस्य ईशान इत्यर्थः । अत्र लटः शानजात्मनेपदं श्यन् च । पक्षान्तरे इति । 'वावृतु' इति पाठपक्षे इत्यर्थः । वावृत्यते इति । वृणोतीत्यर्थः । अपेक्षते इति यावत् । वावृतुधातोः प्रयोगं दर्शयति — ततोवावृत्यमानेति । अपेक्षमाणेत्यर्थः ।न्यविवक्षतेति.॒नेर्विशः ॑ इत्यात्मनेपदम् ।शल इगुपधा॑दिति क्सः । अथ पञ्च स्वरितेत इति । 'शप आक्रोसे' इत्यन्ता इत्यर्थः । शुच्यतीति । क्लिन्नं भवतीत्यर्थः । अशुचदिति । इरित्त्वादङिति भावः । णह बन्धने इति । णोपदेशोऽयम् । अनिट् । ननाहेति । नेहतुः । भारद्वाजनियमात्थलि वेडिति मत्वाह — नेहिथ ननद्धेति । इट्पक्षेथलि चे सेटी॑त्येत्त्वाभ्यासलोपौ । इडभावे तु 'नहो धः' इति हस्य ध इति भावः । रञ्ज रागे । अनिट् । रज्यतीति ।अनिदिता॑मिति नलोप इति भावः । ररञ्ज ररञ्जतुः । ररञ्जिथ- ररङ्क्थ । ररञ्जिव । रङ्क्ता इत्यादि । अथैकादशेति । 'लिश अल्पीभावे' इत्यन्ता इत्यर्थः । पद गतौ । अनिट् । Tattvabodhini ------------- **जनिवध्योश्च** - ञिति णिति कृति चेति । ञिति कृत्युदाहरणं घञि — जनः । णिति कृति तु — जनकः । जनयतीत्यत्रोपधावृद्धौ सत्यांजनीजृ॑षिति मित्त्वात्मितां ह्रस्वः॑ इति ह्रस्वः । रदीपी दीप्तौ । ईदत्त्वान्निष्ठायामिण्न । दीप्तः । एं पूरीत्यादेरीदित्त्वात्पूर्ण इत्यादि ज्ञेयम् । केचित्त्विति । तेषां मते ऐआर्ये तप्यते इत्येव प्रयोगो न तु तपतीति । न्यविक्षतेति । निपूर्वाद्विशतेर्लुङिशल इगुपधे॑ति क्सः ।नेर्विशः॑ इति तङ् । वाशृ शब्दे ।मन्दिवाशी॑त्युरच् । वाशुरा रात्रिः । तितिक्षायामिति ।गुप्तिज्किद्भ्यः॑ इति सन् । तत्र हितिजे क्षमाया॑मित्युक्तम् । ई शुचिर् । ईदित्त्वान्नेट् । शुक्तम् । क्लिन्नमित्यर्थः । ननद्धेति ।नहो धः॑ इति धत्वम् । Padamanjari ----------- वधिः प्रकृत्यन्तरमिति ।'वध हिंसायाम्' इति भूवादौ पाठात् । भक्षकश्चेदिति । योऽपि मांसं क्रीत्वा भक्षयति, तस्यापि हिंसानुषङ्गोऽस्तीत्येतदनेन प्रतिपाद्यते । यथाह मनुः (मओ स्मृओ 5।51) - अनुमन्ता विशसिता निहन्ता क्रयविक्रयी । संस्कर्ता चोपहर्ता च खादकश्चेति घातकाः ॥ इति । हनादेशस्येति । अवधि भवता दस्युरित्यत्र । जजान गर्भमिति । व्यत्ययेन परस्मैपदम्, अन्तर्भावितण्यर्थत्वात् सकर्मकत्वम् ॥ Nyaas ----- वधिरयं हनादेशोऽस्ति, तस्यैदं ग्रहणमिति कस्यचिदाशङ्का स्यात्, अतस्तां निराकर्त्तुमाह - `वधिः प्रकृत्यन्तरम्` इत्यादि। प्रकृत्यन्तरमपि भवन्? यदयकारान्तः स्यात्, अनर्थकः प्रतिषेधः स्यात्, धोपधत्वादेव न वृद्धिर्भवतीति मत्वाऽऽह - `व्यञ्जनान्तस्य` इति। कुतः पुनर्विधिः प्रकृत्यन्तरमस्तीत्येतदवसितम्? इत्याह - `भक्षकश्च` इत्यादि। अथ हनादेशस्यैव वधेरयं प्रतिषेधः कस्मान्न भवति? इत्याह - `हनादेशस्य` इत्यादि। `जजान गर्भम्` इत्यादि। छान्दसः प्रयोगः॥ Prakriyasarvasvam ----------------- अनयोश्च चिणादौ वृद्धिर्न । जनकः । वधकः । Sutra Prayogas -------------- * **अजनि** (भट्टिकाव्यम्): `जनिवध्योश्च` इति न वृद्धिः। * **कीटोपजनः** (भट्टिकाव्यम्): `जनिवध्योश्च` इति न वृद्धिः।