73034: नोदात्तोपदेशस्य मान्तस्यानाचमेः¶
Padacheda: न | S | 0 | 0 |
उदात्तोपदेशस्य | S | 6 | 1 |
मान्तस्य | S | 6 | 1 |
अनाचमेः | S | 6 | 1 |
Sutrartha¶
Vasu English Summary¶
The वृद्धि is not substituted before the Aorist sign चिण् or a कृत् affix with an indicatory ञ् or ण् for the vowel of that root which ends in म and is acutely accented (उदात्त) in its original enunciation (धातुपाठ), but not so in चम् after आ।
Vasu English Translation¶
The वृद्धि is not substituted before the Aorist sign चिण् or a कृत् affix with an indicatory ञ् or ण् for the vowel of that root which ends in म and is acutely accented (उदात्त) in its original enunciation (धातुपाठ), but not so in चम् after आ। The vriddhi of the penultimate अ takes place before णित् and ञित् affixes (7.2.116), that vriddhi does not take place in the case of udatta roots ending in म् ॥ Thus अशमि, अतमि, and अदमि in चिण् ॥ Compare (6.4.92), (6.4.93). Similarly with कृत् affixes, as शमकः, तमकः, दमकः, शमः, तमः, दमः ॥ Why do we say ‘acutely accented’? Observe यामकः, रामकः ॥ How do you explain उद्यम and उपरम? These are irregular forms exhibited by Panini himself in the Dhatupatha अडउद्यमे (Bhuadi 380), यम उपरमे (Bhuadi 1033) Why do we use “in the original enunciation or upadesa”? So that the rule may apply to शमी, दमी, तमी, but not to याममः, रामकः ॥ Here to the root शम्, तम् and दम् is added the affix घिनुण् (3.2.141). The words शमिन्꣡ &c. get the affix-accent, namely acute इ꣡; and thus the root-vowel becomes anudatta. Though the root now becomes anudatta, yet because in its upadesa it was udatta, the present sutra will apply and prevent vriddhi. The roots यम्, रम् are anudatta in upadesa, but in यामकः, रामकः they become udatta by लित् accent. This accent is a secondary accent and not the ‘original’ accent; and hence the present rule does not apply and there is vriddhi. Why do we say ending in म्? Observe चारकः पाठकः ॥ Why with the exception of आचम्? Observe आचामकः ॥
Vart:- Prohibition must be stated in the case of the roots आ-चम्, कम् and वम्, as वामः, कामः and आचामः ॥ In the case of कस्, the affix घञ् is added in that alternative, when the root does not take the affix णिङ् (3.1.31). It thus gets vriddhi.
The word आमः is formed from the Churadi अम्, which with the affix णिच् gets Vriddhi, because णिच् is not a krit-affix, and is not therefore governed by this rule. If you say “let there be vriddhi of णिच्, but this vriddhi will be shortened by (6.4.92) because it is a मित् root”, we reply “this root is not मित्” ॥ The मित् roots are those enumerated in Bhuadi class, subdivision घटादिः (800). No doubt, there it is said that the roots ending in अम् are मित् (in अमन्ताश्च). But a root is regarded मित् only with regard to the Causative णिच् affix, and not with regard to that णिच् of the Churadi class where the sense of the causative is not involved in it. Therefore this root is not मित् (6.4.93).
The phrases सूर्यविश्रामा भूमिः and others like it are incorrect. Why do we say ‘चिण् and krit only’? Observe शशाम, ददाम, चचाम ॥
Bhashya¶
नोदात्तोपदेशस्य मान्तस्याऽनाचमेः अत्यल्पमिदमुच्यते - अनाचमेरिति ॥ ( अनाचमिकमिवमीनाम्(2) ) अनाचमिकमिवमीनामिति वक्तव्यम् । आचामः(3) कामः वामः(4) ॥ (नोदात्तोप)
Kashika¶
उदात्तोपदेशस्य मान्तस्याङ्गस्याचमिवर्जितस्य चिणि कृति च ञ्णिति यदुक्तंतद् न भवति। किं चोक्तम्? अत उपधायाः (७.२.११६) इति वृद्धिः। अशमि। अतमि। अदमि। कृति खल्वपि — शमकः। तमकः। दमकः। शमः। तमः। दमः। उदात्तोपदेशस्येति किम्? यामकः। रामकः। कथमुद्यमोपरमौ? अड उद्यमे,**यम उपरमे** इति निपातनादनुगन्तव्यौ। उपदेशग्रहणं किम्? शमी, दमी, तमीत्यत्र यथास्याद्, इह मा भूत् — यामकः, रामक इति। मान्तस्येति किम्? चारकः। पाठकः। अनाचमेरिति किम्? आचामकः॥ अनाचमिकमिवमीनामिति वक्तव्यम्॥ आचामः। कामः। वामः। आम इति चौरादिकस्य णिचि वृद्धौ सत्यां भवति। तत्र हि मित्त्वं नास्ति। नान्ये मितोऽहेतौ इति। सूर्यविश्रामा भूमिरित्येवमादिकं प्रयोगमन्याय्यमेव मन्यन्ते। चिण्कृतोरित्येव — शशाम। तमाम॥
Siddhanta Kaumudi¶
उपाधाया वृद्धिर्न स्याच्चिणि ञिति णिति कृति च । अशमि । अदमि । उदात्तोपदेशस्येति किम् । अगामि । मान्तस्य किम् । अवादि । अनाचमेः किम् । आचामि ।<!अनाचमिकमिवमीनामिति वक्तव्यम् !> (वार्तिकम्) ॥ चिणि आयादयः -(SK2305) इति णिङभावे । अकामि । णिङ्णिचोरप्येवम् । अवामि । वध हिंसायाम् । हलन्तः । जनिवध्योः (SK2512) इति न वृद्धिः । अवधि । जाग्रोऽविचिण्णल्ङित्सु (SK2480) इत्युक्तेर्न गुणः । अजागारि ॥
Balamanorama¶
नोदात्तोपदेशस्य मान्तस्यानाचमेः - नोदात्तोपदेशस्य ।मृजेर्वृद्धि॑रित्यतो वृद्धिरिति, ‘अत उपधायाः’ इत्यत उपधाया इति,अचो ञ्णिती॑त्यतो ञ्णितीति, ‘आतो युक्’ इत्यततश्चिण्णकृतोरिति चानुवर्तते । तत्र णितीति कृतएव विशेषणं, न तु चिणः, अव्यभिचारात् । तदाह — उपधाया इत्यादिना । अनुदात्तोपदेशाः - सङ्गृहीताः । ततोऽन्यः सर्वोऽपि धातुरुदात्तोपदेशः । आङ्पूर्वश्चमिराचमिः, तद्वर्जस्येत्यर्थः । अशमि अदमीति । शमधातोर्दमधातोश्च लुङि चिणि ‘अत उपधायाः’ इति वृद्धिर्न । अगामीति । गमेरनुदात्तोपदेशत्वादिति भावः । अवादीति । वदधातुर्न मान्त इति भावः । आचामीति ।अनाचमे॑रित्युक्तेरिह नोपधावृद्धिनिषेधः । अनाचमिकमिवमीनामिति । आचामिकमिवमिवर्जानामित्यर्थः । एवं च कमिवम्योरपि न निषेध इति फलितम् । ननु कर्मेर्णिङन्तत्वात्केवलस्य तस्य चिणादौ प्रयोग एव नास्तीत्यत आह — चिण्यायादय इति । णिङणिचोरप्येवमिति । णिङन्ताण्णिजन्ताद्वा कमेश्चिणि णिलोपे सति पूर्ववद्रूपं शिष्यते इत्यर्थः । ननुजनिवध्योश्चे॑ति वधेरुपधावृद्धिनिषेधो व्यर्थः, वधादेशस्याऽदन्ततया अल्लोपस्य स्थानिवत्त्वादेव अवधीत्यादौ उपधावृद्ध्यभावसिद्धेरित्याशङ्क्य वधर्धात्वन्तरं हलन्तमेवजनिवध्योश्चे॑त्यत्र गृह्रत इत्यभ#इप्रेत्य आह - वध हिंसायां हलन्त इति ।
Tattvabodhini¶
नोदात्तोपदेशस्य मान्तस्यानाचमेः - नोदात्तोपदेशस्य । ञिति कृति — शमः । दमः । घञ् । णिति कृति शमकः । दमकः । ण्वुल् । उपदेशैति किम् । शमी ।दमी । इह घिनुणि कृते वज्र्यमानस्वरेण उदात्तत्वाऽभावान्निषेधो न स्यात् । कथं तर्हिहरेर्यदक्रामि पदैककेन खमिति श्रीहर्षप्रयोग इतिचेत् । अत्राहुः — निवृत्तप्रेषणाद्धातोः प्राकृतेऽर्थे णिचि ततश्चिण् बोध्यः । तथा च णिचोऽकृत्त्वाद्वृद्धेर्न निषेधः ।मिता॑मिति ह्रस्वस्तु न भवति,वा चित्तविरागे॑ इत्यतो वेत्यनुवत्र्य व्यवस्थितविभाषाश्रयणादिति घटादावुक्तत्वात् । किं च ह्रस्वे जातेऽपि न क्षतिः,चिण्णमुलो॑रिति दीर्घविकल्पनादिति । कथमड उद्यमे यम उपरमे इति प्रयोगः । संज्ञापूर्वकविधेरनित्यवाद्वृरद्ध्यभाव इति ज्ञेम् । अथवा उद्यमोपरमशब्दौ घञर्थे कविधानाद्बोध्यौ । णिङूणिचोरप्येवमिति । णिङन्ताण्णिजन्ताद्वा कमश्चिणिणेरनिटी॑ति णिलोपे सति रूपं तुल्यमिति भावः ।
Padamanjari¶
उपदेशे उदात उदातोपदेशः । अस्मादेव निपातनात्साधुः । किञ्चोक्तमिति । सन्निहितस्य कस्यचिदप्रसङ्गात्प्रश्नः । अत उपधाया इति वृद्धिरिति । चिण्कृदुपजीवनार्थं तु न तदनन्तरमिदमारब्धम् । निपातनादनुगन्तव्यमिति । येषां तु ठपाणिनीयो धातुपाठेऽर्थनिर्द्देशःऽ इति पक्षः, तेषामत्र’संज्ञापूर्वको विधिरनित्यः’ इति वृद्ध्यभावः । शमी, तमीति ।’शमित्यष्टाभ्यो घिनुण्’ , अत्र प्रत्ययस्वरे कृते सम्प्रति धातुरनुदातः । यामकः, रामक इति । लित्स्वरे कृते भवत्ययं सम्प्रत्युदातः । ठनाचमेःऽ इत्यल्पमिदमुच्यते ? इत्याह - अनाचमिकमिवमीनामिति वक्तव्यमिति ।’टुअवम उद्गिरणे’ ,’कमु कान्तौ’ ,’चमु अदने’ , तत्र सूत्रे आङ्पूर्वस्य पर्युदासः, वाक्ये तु केवलस्य । वृतौ तु वाक्योदाहरणमप्याङ्पूर्वस्यैव दर्शितम्, नात्राप्तैर्निरणायि । काम इति । कमेः ठायादय आर्धधातुके वाऽ इति णिङ्भाव पक्षे घञ्, वृद्धिः । णिचि वृद्धौ सत्यमिति । न हि तत्रायं प्रतिषेधः; णिचोऽकृत्वात् । ननु च सत्यामपि वृद्धौ’जनीजृष्क्नसुरञ्जौ’ मन्ताश्चऽ इति मित्वे सति’मितां ह्रस्वः’ इति ह्रस्वेन भाव्यम् ? अत आह - तत्र हीति । नान्ये मितोऽहेतावितीति । अहेतौ चुरादिणिच्यनुक्रान्तेभ्योऽन्येऽमन्तादयो मितो न भवन्तीत्यर्थः । अन्याय्यमेव मन्यन्त इति ।’विश्रान्तिभूमिः’ इति पठितव्यमित्यर्थः । तेन’विश्रामं लभता मिदं च शिथिलज्याबन्धमस्मद्धनुः’ इति व्याख्यातम् ॥
Nyaas¶
अशमि, अतमि, अदमि इति। शमु उपशमे (धातुपाठः-1201), तमु काङक्षायाम् (धातुपाठः-1202), दमु उपशमे (धातुपाठः-1203), लुङादि पूर्ववत्। शमकः इत्यादौ ण्वुल्। शमः इत्यादौ घञ्। यामकः, रामकः इति। यम उपरमे (धातुपाठः-984), रमु क्रीडायाम् (धातुपाठः-856)। अनुदात्तोपदेशावेतौ। अथ कथमुद्यमोपरमौ? इत्याह - उद्यमोपरमौ इत्यादि। अनुगन्तश्यौ इत्यादि। साधुत्वेनेति शेषः। निपातनादेतो साधुत्वेन वेदितव्यावित्यर्थः।शमी, तमी, दमीत्यत्र यथा स्यात् इति। शमादिभ्यः शमित्यष्टाभ्यो धिनुण् (3.2.141) । असत्युपदेशग्रहणेऽत्र न स्यात्; प्रत्ययस्वरे कृते धातोरनुदात्तत्वात्। उपदेशग्रहणे तु सति तेनाद्यवस्था लक्ष्य इति यद्यप्युततरकालमनुदात्तत्वं भवति, तथापि भवत्येव प्रतिषेधः; उपदेशावस्थायामुदात्तत्वात्। इह इत्यादि। यद्युपदेशग्रहर्ण न क्रियते, ततो यामकः, रामक इत्यत्रापि स्यात्; लिति (6.1.193) इति प्रत्ययात्? पूर्वस्योदात्तत्वविधानात्। उपदेशग्रहणे तु न भवति; उपदेशेऽनुदात्तत्वात्। अनाचमिकमिवमीनामिति वक्तव्यम् इति। कमु कान्तौ (धातुपाठः-443), टुवम उद्गिरर्णे (धातुपाठः-849), चम छमु, चमु, झमु अदने (धातुपाठः-469,470,471,472) एषां त्रयाणां धातुनां प्रतिषेधो न भवतोत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् - चमेस्तावदनाचमेरिति सूत्र एवोपादानात्? प्रतिषेधो न भवतीति। इतरयोस्तु धामदेवाङ् डडडऔ (4.2.8) , धनहिरण्यात् कामे (5.2.65) इति निपतनादिति। अथ कथमामः? इत्याह - आम ति चौरादिकस्य इत्यादि। अम रोगे (धातुपाठः-1720) इत्यस्य चौरादिकस्य णिचि वृद्धौ, एरच् (3.3.56) इत्यचि कृते-आम इति। न हि णिच्यपि वृद्धेः प्रतिषेधो भवति; तस्याचिण्कृत्त्वात्। अकृत्त्वं तु पूर्ववद्वेदितव्यम्। ननु जनीजृष्क्ससुरञ्जोऽमन्ताश्च (धातुपाठः-817 अनन्तरम्? ग।सू।) इति मित्संज्ञायां सत्याम्? मितां ह्रस्वः (6.4.92) इत्यनेनेह णौ भवितव्यम्? इत्यत आह - अत्र हि भित्त्वं नास्ति इति। कथं नास्ति? इत्याह - नान्ये इत्यादि। यस्तु भ्वादिः अम गत्यादिषु (धातुपाठः-465) पठते, अम इत्येवं तस्य भवितव्यम्। अथ कथं विश्राम इति, न चायमसाधुरिति शक्यते वक्तुम्, यतः सूर्यविश्रामा भूमिः इति प्रयोगो द#ऋश्यते? इत्याह - एवमादिकं प्रयोगम् इत्यादि॥
Prakriyasarvasvam¶
धातुपाठे उदात्ततयोक्तस्य मान्तस्याचमिवर्जितस्य धातोर्ञिणि ञ्णिति कृति च परे वृद्धिर्न स्यात् । शमकः । दमकः । मान्तेषु यमिरमिनमिगमयोऽनुदात्ताः । तेषां वृद्धिः स्यादेव । यामक इत्यादि । यमकमिति यमशब्दात्* । गमकश्च गमयतेरेव । अनाचमेरित्यत्र ‘अवमिकम्याचमीनामिति वाच्यम् । (वा० ७-३-३४) वामकः । कामकः । आचामकः ।
Vartika¶
अनाचमिकमिवमीनामिति वक्तव्यम् ।
Sutra Prayogas¶
विश्रमार्थम् (शिशुपालवधम्): नोदात्तोपदेशस्य मान्तस्यानाचमेः इति वृद्ध्यभावः।
शमिनामपि (भट्टिकाव्यम्): नोदात्तोपदेशस्य मान्तस्यानाचामेः इति उपधावृद्धिप्रतिषेधः।
संशमः (भट्टिकाव्यम्): घञि नोदात्त इति वृद्धिप्रतिषेधः ।
शमं शमं (भट्टिकाव्यम्): नोदात्त इति वृद्धिप्रतिषेधः।