73033: आतो युक् चिण्कृतोः

Padacheda: आतः | S | 6 | 1 |

युक् | S | 1 | 1 |

चिण्कृतोः | S | 7 | 2 |

Sutrartha


Vasu English Summary

A root-अङ्ग (stem) ending in आ gets the augment युक् (य्) before the Aorist sign चिण् which causes also the वृद्धि of the root-vowel.

Vasu English Translation

A root-अङ्ग (stem) ending in आ gets the augment युक् (य्) before the Aorist sign चिण् which causes also the वृद्धि of the root-vowel. As अदायि, अधायि with चिण्, दायः and दायकः, धायः, धायकः with ण and ण्वुल् ॥ Why चिण् and krit only? Observe ददौ, दधौ in the Perfect, and चौडिः, बालाकिः with इञ् a Taddhita affix (4.1.96). So also ज्ञा देवता अस्य = ज्ञः ॥

Bhashya

आतो युक् चिण्कृतोः कृद्ग्रहणं किमर्थम् ? ॥ इह मा भूत् - ददौ दधौ ॥ नैतदस्ति प्रयोजनम्, अचिण्णलोरिति वर्तते ॥ यद्यचिण्णलोरिति वर्तते, - अदायि(3) अधायीत्यत्र न प्राप्नोति ॥ वचनाच्चिणि भविष्यति - अचिण्णलोरिति वर्तते ॥ एवमपि चौडिः वालाकिरित्यत्र प्राप्नोति ॥ लोपोऽत्र बाधको भविष्यति ॥ इदमिह सम्प्रधार्यं - लोपः क्रियतां युगिति, - किमत्र कर्तव्यम् ? ॥ परत्वाद्युक् ॥ एवं तर्ह्यचामादेरिति वर्तते । यत्राचामादिराकारस्तत्र युगिति ॥ एवमपि ज्ञा देवता अस्य स्थालीपाकस्य ज्ञः स्थालीपाकः - अत्र प्राप्नोति । तस्मात्कृद्ग्रहणं कर्तव्यम् ॥

Kashika

आकारान्तस्याङ्गस्य चिणि कृति ञ्णिति युगागमो भवति। अदायि। अधायि। कृति — दायः। दायकः। धायः। धायकः। चिण्कृतोरिति किम्? ददौ। दधौ। चौडिः। बालाकिः। बाह्वादित्वात् (४.१.९६) इञ्। ज्ञा देवता अस्य ज्ञः॥

Siddhanta Kaumudi

आदन्तानां युगागमः स्याच्चिणि ञिति णिति कृति च । दायिता । दाता । दायिषीष्ट । दासीष्ट । अदायि । अदायिषाताम् । स्थाघ्वोरिच्च (SK2389) । अदिषाताम् । अधायिषाताम् । अधिषाताम् । अग्लायिषाताम् । अग्लासाताम् । इत्यते । अचिण्णलोः (SK2574) इत्युक्तेर्हनस्तो न । हो हन्तेः-(SK358) इति कुत्वम् । घानिता । हन्ता । धानिष्यते । हनिष्यते । आशीर्लिङि वधादेशस्यापवादश्चिण्वद्भावः । आर्धधातुके सीयुटीति विशेषविहितत्वात् । घानिषीष्ट । पक्षे वधिषीष्ट । अघानि । अघानिषाताम् । अहसाताम् । पक्षे वधादेशः । अवधि । अवधिषाताम् । अघानिष्यत । अहनिष्यत । न च स्यादिषु चिण्वदित्यतिदेशाद्वधादेशः स्यादिति वाच्यम् । अङ्गस्य (SK200) इत्यधिकारादाङ्गस्यैवातिदेशात् । गृह्यते । चिण्वदिटो न दीर्घत्वम् । प्रकृतस्य वलादिलक्षणस्यैवेटो ग्रहोऽलिटि-(SK2562) इत्यनेन दीर्घविधानात् । ग्राहिता । ग्रहीता । ग्राहिष्यते । ग्रहीष्यते । ग्राहिषीष्ट । ग्रहिषीष्ट । अग्राहि । अग्राहिषातम् । अग्रहीषाताम् । दृश्यते । अदर्शि । अदर्शिषाताम् । सिचः कित्त्वादम्न । अदृक्षाताम् । गिरतेर्लुङि ध्वमि चतुरधिकं शतम् । तथा हि चिण्वदिटो दीर्घो नेत्युक्तम् । अगारिध्वम् । द्वितीये त्विटि वॄतो वा (SK2391) इति वा दीर्घः । अगरीध्वम् । अगरिध्वम् । एषां त्रायाणां लत्वं ढत्वं द्वित्वत्रयं चेति पञ्च वैकल्पिकानि । इत्थं षण्णवतिः । लिङ्सिचोः (SK2528) इति विकल्पत्वादिडभावे उश्च (SK2368) इति कित्त्वम् । रपरत्वं हलि च (SK354) इति दीर्घः । इणः षीध्वं-(SK2247) इति नित्यं ढत्वम् । अशीढ्र्वम् । ढवमानां द्वित्वविकल्पे अष्टौ । उक्तषण्णवत्या सह संकलने उक्ता संख्येति ॥ इङ् दीर्घश्चिण्वदिट् लत्वं ढत्वं द्वित्वत्रिकं तथा । इत्याष्टानां विकल्पेन चतुर्भिरधिकं शतम् ॥ हेतुमण्ण्यन्तात्कर्मणि लः । यक् । णिलोपः । शभ्यते मोहो मुकुन्देन ॥

Laghu Siddhanta Kaumudi

आदन्तानां युगागमः स्याच्चिणि ञ्णिति कृति च। दायिता, दाता। दायिषीष्ट, दासीष्ट। अदायि। अदायिषाताम्॥ भज्यते॥

Balamanorama

आतो युक् चिण्कृतोः - आतोयुक् । अङ्गस्येत्यत्यधिकृतमाता विशेषितं, तदन्तविधिः ।अचो ञ्णिती॑त्यो ञ्णितीत्यनुवृत्तं कृतएव विशेषणं, नतु चिणः, तस्य णित्त्वाऽव्यभिचारात् । तदाह — आदन्तानामित्यादि । दायितेति.चिण्वदिट्पक्षे युक् । अदायिषातामिति ।स्थाध्वोरिच्चे॑त्येतद्बाधित्वा परत्वाच्चिम्वदिटि कृतेघुमास्थे॑तीत्त्वं न, अजादित्वात्त्वं न, अजादित्वात् । पुनःस्थाध्वोरिच्चे॑रिति तु न भवति, अझलादित्वात् । तत्र हिइको झ॑लिति सूत्रझलित्यनुवृत्तं । तथा च झलादिरेव सिच् किदिति लाभादिडादिः सिज्न कित्, तत्संनियोगादित्त्वमपि न भवतीत्याहुः । वस्तुतस्तु सत्यपि तस्मिन्नाऽत्र काचित् क्षतिः । सिचः कित्तवेऽप्यनिग्लक्षणया वृद्ध्या रूपसिद्धेरिति दिक् । अथ हनधातोः कर्मलकारे आह — हन्यते इति । अचिण्णलोरिति । लुटि चिण्वदिटि वृद्धौहनस्तोऽचिण्णलो॑रिति हनो नकारस्य तकारो न भवति, चिण्ववत्त्वादित्यर्थः । कुत्वमिति । तस्यणिति विहितस्याऽत्र चिण्वत्त्वात्प्राप्तिरिति भावः । घानिष्यते इति ।ऋद्धनो॑रिति बाधित्वा नित्यत्वाच्चिण्वदिट ।ऋद्धनो॑रिति तु चिण्वदिटि कृते न भवतीत्यनित्यं, तत्र वलीत्यनुवृत्तेरिति भावः । नन्वाशीर्लिङि घानिषीष्टेत्यत्र हन् सीष्ट इत#इ स्थिते परमपि चिण्वत्त्वं बाधित्वा वधादेशः प्राप्नोति, आर्धधातुके विवक्षिते विहितत्वेन वधादेशस्याऽन्तरङ्गत्वादित्यत आह — आशीर्लिङीत्यादि । नु घानितेत्यादौ अप्राप्तेऽपि वधादेशे आरम्भात्कथं वधादेशस्य चिण्वद्भावोऽपवादः स्यादित्यत आह — आर्धधातुके सीयुटीति ।स्यसिच्सीयु॑डिति सूत्रे अजन्तस्य स्ये, अजन्तस्य सिचि, अजन्तस्य आर्धधातुके, सीयुटि, अजन्तस्य तासौ, इत्यजन्तस्य चत्वारि वाक्यानि । एवं हनग्रहदृशामप्येकैकस्य चत्वारि वाक्यानीति स्थितिः । तत्र हन आर्धधातुके सीयुटिचिण्वदिड्विधिर्निरवकाशत्वाद्वधादेशापवादः, अप्राप्त एव वधादेशे आरम्भात् । वधादेशस्तु न चिण्वदिटोऽपवादः, तस्य वध्यादित्यत्रकर्तरि लिङि चरितार्थत्वादिति भावः । पक्षे इति । चिण्वत्त्वाऽभावपक्षे ।हनो वध लिङी॑ति वधादेशे वलादिलक्षणे इटि अतो लोपे रूपम्, वधादेशस्याऽदन्तत्वात् । न च हनधातोरनुदात्तत्वादुपदेशे एकाच्त्वात्तदीयवधादेशस्यापि तथाविधत्वादिह कथं वलादिलक्षम इडिति वाच्यम्, ‘एकाच उपदेशे’ इत्यत्र ‘अच’ इत्येकत्वसामर्थ्यादेकत्वे सिद्धे पुनरेकग्रहणबलेन इटि अतो लोपे रूपम्, वधादेशस्याऽदन्तत्वात् । न च हनधातोरनुदात्तत्वादुपदेशे एकाच्त्वात्तदीयवधादेशस्यापि तथाविधत्वादिह कथं वलादिलक्षण इडिति वाच्यम्, ‘एकाच उपदेशे’ इत्यत्र ‘अच’ इत्येकत्ववसामर्थ्यादेकत्वे सिद्धे पुनरकेग्रहणबलेनय उपदेशे एकाजेव नतु कदाप्यनेका॑जिति लभ्यते । तेन वधेर्हन्त्युपदेशमादाय एकाचोऽपि न निषेधः । आदेशोपदेशे अनेकाच्त्वादित्युक्तं प्राक् । लुङि तु सिचश्चिणि उपधावृद्धौ कुत्वेन घः । आत्मनेपदेष्वन्यतरस्या॑मिति वधादेशाऽभावः । अघानिषातामिति । चिण्वदिटि वधादेशाऽभावपक्षे रूपम् ।अहसातामिति । चिण्वदिडभावपक्षेहनः सि॑जिति कित्त्वादनुदात्तोपदेशेत्यनुनासिकलोपः । पक्षे अवधीति ।आत्मनेपदेष्वन्यतस्या॑मिति वधादेशपक्षे इत्यर्थः अवधिषातामिति ।आत्मनेपदेष्वन्यतस्या॑मिति वधादेशस्यापि पाक्षिकतयाऽप्राप्तेपि वधादेशे चिण्वत्त्वस्यारम्भन्नापवादत्वमिति भावः । ननु चिणि वधादेशस्य दृष्टत्वात्स्यादिषु चिण्वत्त्वाद्वधादेशः स्यादित्याशङ्क्य परिहरति — न चेत्यादिना । आङ्गस्यैवेति । वधादेशस्तु द्वैतीयीकः, न त्वङ्गाधिकारस्थ इति भावः । अथ ‘ग्रह उपादाने’ इत्यस्माददुपधात्कर्मलकारे उदाहरति — गृह्रते इति ।ग्रहिज्ये॑ति संप्रसारणम् । अथ लुटि तासि चिण्वदिटिग्रहोऽलिटी॑ति दीर्घमाशङ्क्याह — चिण्वदिटो न दीर्घत्वमिति । कुत इत्यत आह — प्रकृतस्येति । वलादिलक्षणस्य इटः प्रकृतत्वात्तस्यैवग्रहोऽलिटी॑ति दीर्घविधौ ग्रहणं नतु चिण्वदिट इति भाष्ये स्पष्टम् । अथ दृशेः कर्मलकारे उदाहरति — दृश्यते इति । लिटि- ददृशे । लुटि तासि चिण्वदिट्पक्षे — दर्शिता । चिण्वत्त्वाऽबावेसृजिदृशो॑रित्यम् । द्रष्टा.दर्शिष्यते । द्रक्ष्यते । दर्शिषीष्ट । चिण्वदिडभावे तुलिङ्सिचावात्मनेपदेषु॑ इति सिचः कित्त्वात्सृजिदृशो॑रित्यम्न । नापि लघूपधगुणः । दृक्षीष्ट । अदर्शीति.चिणि लघूपधगुणः । अदर्शिषातामिति । चिण्वदिटि रूपम् । चिण्वत्त्वाऽभावे त्वाह — सिचः कित्त्वादम्नेति ।लिङ्सिचावात्मनेपदेषु॑ इति सिचः कित्त्वात्सृजिदृशो॑रित्यम्न भवति, अकितीति पर्युदासादित्यर्थः । अथ गृधातोः कर्मलकारे यकि ऋत इत्त्वेहलि चे॑ति दीर्घे — गीर्यते । जगरे । लुटि तासि चिण्वत्त्वपक्षे — गारिता । चिण्वत्त्वाऽभावे वलादिलक्षणे इटि गुणे रपरत्वे — गरिता गरीता ।वृतो वे॑ति वा दीर्घः । गारिष्यते गरिष्यते गरीष्यते । गीर्यताम् । अगीर्यत । गीर्येत । गारिषीष्ट । चिण्वत्त्वाऽभावपक्षे तुलिङ्सिचोरात्मनेपदेषु॑ इति इड्विकल्पः । इडभावपक्षेउश्चे॑ति कित्त्वम् । इत्त्वम् । रपरत्वम् ।हलि चे॑ति दीर्घः । षत्वम् । गीर्षीष्ट । इट्पक्षे तु — गारिषीष्ट । लुङि — अगारि । अगारिषाताम् । अगीर्षाताम्- अगरिषातामिति सिद्धवत्कृत्य आह — लुङि ध्वमि चतुरधिकं शतमिति ।रूपाणी॑ति शेषः । तदेवोपपादयति — तथाहिति । अगारिध्वमिति । गृ स् ध्वम् इति स्थिते चिण्वदिटि वृद्धौ रपरत्वेधिचे॑ति सलोपे रूपमिति भावः । द्वितीये त्विटीति । चिण्वदिडभावपपक्षे वलादितलक्षणे सिच इटि ऋकारस्य गुणे रपत्वेधि चे॑ति सलोपे ‘वतो वा’ इति दीर्घविकल्पे अगरिध्वम्, अगरीध्वमिति रूपद्वयमित्यर्थः । एषामिति । एषां त्रयाणां मध्ये एकैकस्मिन् रेफस्यअचि विभाषे॑ति लत्वम् । ‘विभाषेटः’ इति वा धस्य ढत्वम् । तथा धस्य,तदादेशढस्य,वस्य, मस्य च द्वित्वत्रयमित्येवं पञ्च वैकल्पिकानीत्यर्थः तत्र धढयोर्मस्य चअनचि चे॑ति द्वित्वविकल्पः । वकारस्य तु ‘मय’ इति पञ्चमीमाश्रित्य ‘यणो मयः’ इति द्वित्वविकल्पैति विवेकः । यद्यपि धढयोर्वस्य मसय् च द्वित्वचतुष्टयमिति वक्तुमुचितं, तथापि ढस्य धस्थानिकतया धढयोरेकत्वमभिप्रेत्यद्वित्वत्रय॑मित्युक्तिः । इत्थमिति । एवं च त्रयाणामेषां लत्वविकल्पे रेफवन्ति त्रीणि, लकारवन्ति त्रीणीति षट् (६) । एषु षट्सु धस्य द्वित्वविकल्पे एकधानि षट्, द्विधानि च षडिति द्वादश (१२) । तथा रेफवत्सु त्रिषु लकारवत्सु च त्रिषु ढस्य द्वित्वविकल्पे एकढानि षट्, द्विढानि च षडिति द्वादश (१२) । उभयेषामपि द्वादशानां मेलने चतुर्विंशतिः । (२४) । एषु वस्य द्वित्वविकल्पे एकवानि चतुर्विंशति, द्विवानि चतुर्विंशतिरित्यष्टाचत्वारिंशत् । (४८) । एषु मस्यद्वित्वविकल्पे एकमान्यष्टाचत्वारिंशत्,द्विमान्यष्टाचत्वारिंशदिति (९६) षण्णवतिरित्यर्थः । लिङ्सिचोरितीति । चिण्वदिडभावपक्षे वलादिलक्षणस्य इटोलिङ्सिचोरिति विकल्पितत्वात्तदभावपक्षे ‘उश्चे’ ति सिचः कित्त्वाद्गुणाऽभावे ऋत इत्त्वे रपरत्वेहलि चे॑तिदीर्गे रेफादिणः परत्वात्इणः षीध्व॑मिति नित्यं ढत्वे अर्गीढ्वमिति रूपमित्यर्थः । ढवमानामिति । ढस्यअचो रहाभ्या॑मिति द्वित्वविकल्पे एकढं द्विढमिति द्वे रूपे । तयोर्वस्य ‘यणो मयः’ इति द्वित्वविकल्पे एकवे द्वे , द्विवे द्वे इति चत्वारि (४) । एषु चतुर्षु मस्यअनचि चे॑ति द्वित्वविकल्पे एकमानि चत्वारि, द्विमानि चत्वारीत्यष्टौ (८) रूपाणीत्यर्थः । षण्णवत्येति । उक्तषण्णवत्या अष्टानां मेलने सति या सङ्ख्या सिध्यति सा चतुरुत्तरशतसङ्क्या (१०४) उक्तेति ज्ञेयमित्यर्थः । उक्तप्रक्रियां श्लोकेन सङ्गृह्णाति — इट्दीर्घ इत्यादिना । वलादिलक्,ण इट्,वृतो वे॑ति दीर्घः । अजन्तलक्षणश्चिण्वदिट्,अचि विभाषे॑ति लत्वं, ‘विभाषेट’ इति वा ढत्वं, धढवमानां द्वित्वत्रिकमित्यष्टानां विकल्पाच्चतुरधिकं शतं रूपाणीत्यर्थः ।शमय्ते मोहो मुकुन्देने॑त्यत्र प्रक्रियां दर्शयति — हेतुमण्ण्यन्तादिति । शमधातोर्हेतुमण्णौ उपधावृद्धौ मन्तत्वेन मित्त्वाद्ध्रस्वे शमीत्यस्मात्कर्मणि लः, नतु भावे, हेतुमण्ण्यन्तस्य सकर्मकत्वनियमादिति भावः । यगिति । तङि कृतेसार्वधातुके य॑गित्यनेन॑ति शेषः । णिलोप इति ।णेरनिटीत्यनेने॑ति शेषः । लुटि तासि शमि इ ता इति स्थिते अमन्तत्वेन मित्त्वान्नित्यमुपधाह्रस्वे प्राप्ते -

Tattvabodhini

आतो युक् चिण्कृतोः - आतो युक् ।अचो ञ्णिती॑त्यतो ञ्णितीत्यनुवर्तते । तच्च कृतो विशेषणं न तु चिणः, तस्य णित्त्वेनाऽव्यभिचारात् । चिण्कृतोः किम् । चौडिः । बालाकिः । बाह्वादित्वादिञ् । ददौ । ञ्णितीति किं । पानीयम् । दानीयम् । अदायिषातामिति ।स्थाधवोरिच्चे॑त्येतद्बाधित्वा परत्वाच्चिण्वदिटि कृतेघुमास्थे॑ तीत्वं न भवति, अजादित्वात् ।स्थाध्वोरिच्चे॑त्यपि पुनर्न् भवति, अज्झलादित्वादित्याहुः । तेषामयमाशयः — इको झ॑लिति सूत्राज्झलनुवर्तते । तथा च झलादिरेव सिच् किन्न त्वयमिडादिः सिच् । एवं च तत्संनियोगशिष्टत्वादित्त्वमप्यत्र न भवतीति । वस्तुतस्तु सत्यपि तस्मिन्नेह काचित्क्षतिः- सिचः कित्त्वेऽप्यनिग्लक्षणाया अनिषेधात्अचो ञ्णिती॑ति वृद्ध्या रूपनिष्पत्तेः । आशीर्लिङीति । न तु लुङि । तत्र चिण्वद्भावात्आत्मनेपदेष्वन्यतस्यार॑मिति वधादेशस्यापि वैकल्पिकतया येन नाप्राप्तिन्यायऽभावादिति भावः । आर्धधातुके सीयुटीत्यादि । यद्यपिहनो वध लिङी॑ त्यत्रापि आर्धधातुकाधिकारादाद्र्धधातुके लिङीत्यपि समानं, तथापि लिङीति पदद्वयसाधारणं , सीयुट् तु आत्मनेपद एवेति विशेषविहितत्वमस्तीति भावः । अहसातामिति । चिण्वदिटोऽभावेहनः सि॑जिति कित्त्वात्,अनुदात्तोपदेशे॑ त्यनुनासिकलोपः । चिणि वधादेशस्य दृष्टत्वाच्चिण्वद्भावेन स्यादिषु प्राप्तिमाशङ्क्य परहरति — नचेत्यादिना । अदर्शिषातामिति ।न दृशः॑ इति क्सस्य निषेधादिह सिचि चिण्वदिट् । सिचः कित्त्वादिति ।लिङ्गिचावात्मनेपदेषु॑ इत्यनेन । लत्वमिति ।अचि विभाषे॑ति । गिरते रेफस्य ल्वे षट् । ढत्वमिति ।विभाषेटः॑ इत्यनेन । षण्णां ढत्वे द्वादश । द्वित्वत्रयं चेति ।अनचि चे॑ति । द्वादशानां मध्ये षण्णां ढस्य, षण्णां धस्य च द्वित्वे चतुर्विशतिः (२४) ।मय॑ इति पञ्चमीयण॑ इति षष्ठीति पक्षे वकारस्य द्वित्वे त्वष्टाचत्वारिंशत् (४८) । अनचि चे॑ति मकारस्य द्वित्वे षण्णवतिः (९६) । ढवमानामिति ।अचो रहाभ्या॑मिति द्वित्वे द्वयम् (२) । द्वयोरपि वस्ययणो मयः॑ इति द्वित्वे चत्वारि (४) । चतुर्णामपि मस्यअनचि च॑ इति द्वित्वे त्वष्टौ (८) ।

Padamanjari

चिण्ग्रहणमकृदर्थम् । ददौ, दधाविति । ननु च ठात औ णलःऽ इत्यौत्वमत्र बाधकं भविष्यति, अनवकाशा हि विधयो बाधका भवन्ति, सावकाशं चौत्वम्, कोऽवकाशः ? यदा उतमे णलि णित्वाभावः ? एवं तर्हि ठचिणाणलोःऽ इत्यनुवर्तिष्यते, चिणि तु वचनाद्भविष्यति, तत्राह - चौडिर्बालाकिरिति । बाह्वादित्वादिञ् । अत्र दाक्ष्यादौ चरितार्थं यस्येतिलोपं बाधित्वा परत्वाद्यौक् स्यात् । अचामादेरित्यनुवृतेर्न भविष्यति ? अत आह - ज्ञा देवता अस्येति । आदिवद्भावात्र प्रसङ्गः । किञ्च - ठचामादेःऽ इत्यनुवृतौ दरिद्रायक इत्यत्र न स्यात् ॥

Nyaas

चिणि कृति च [ नास्ति - काशिका] इति। चिण्ग्रहणमकृदर्थम्। अकृत्त्वं तु तस्य द्वितीयधात्वधिकारेऽविहितत्वात्। अदायि, अधायि इति। ददातिदधात्योः पूर्ववल्लुङादिकार्यम्। दायः, धायः इति। धञ्। दायकः, धायकः इति। ष्वुल्। ददौ, दधौ इति। आत औ णलः (7.1.34) इत्यौत्वम्। चौङिः, बालाकिः इति। चूडाबलाकाभ्यां बाह्वादीञ्। अचामादेरित्यनुवृत्तेरत्र न भविष्यतीति यो मन्येत, तं प्रत्युदाहरणान्तरमाह - ज्ञा देवता अस्येति ज्ञः (इति)। सास्य देवता (4.2.24) इत्यण्। अत्र व्यपदेशिवदभावेनाचामादिराकारो भवति। अत्रासति चिण्कृद्ग्रहणे सत्यामप्यचामादेरित्यनुवृत्तौ स्यादेवात्र युक्। व्यपदेशिवदभावोऽप्रातिपदिकेन (शाक।प।65) इत्येतच्च प्रत्ययवधिविषय एव ह्रुक्तम्॥

Prakriyasarvasvam

आदन्तस्य चिणि ञ्णिति कृति च परे युक् स्यात् । पायकः । दायकः ।

Sutra Prayogas

  • स्थायिष्यते (भट्टिकाव्यम्): आतो युक्

  • नाऽज्ञायिषि (भट्टिकाव्यम्): आतो युक् इति युक्।