73027: नातः परस्य ================= **Padacheda:** न | S | 0 | 0 | अतः | S | 6 | 1 | परस्य | S | 6 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- When the first vowel of the second member preceded by अर्ध and denoting mass is short अ before a तद्धित affix having an indicatory ञ् , ण् or क् and optionally so for the first vowel of the first member (i.e. अर्ध). Vasu English Translation ------------------------ When the first vowel of the second member preceded by अर्ध and denoting mass is short अ before a तद्धित affix having an indicatory ञ् , ण् or क् and optionally so for the first vowel of the first member (i.e. अर्ध). Thus अर्धप्रस्थिकः or आर्धप्रस्थिकः (5.1.18) ॥ अर्धकंसिकः or आर्धकंसिकः ॥ Why do we say 'when it is a short अ'? Observe आर्धकौडविकः ॥ Why 'short अ' ? Observe अर्ध खार्याम् भवः = अर्धखारी ॥ Here *Vriddhi* is substituted for the आ of खारी, and though the form remains the same, the power of this word is changed. For अर्धखारी being formed by a *Taddhita* affix causing *Vriddhi*, in forming a *Bahuvrihi* compound, this word will retain its feminine form and will not be changed into masculine under (6.3.39) as अर्धखारीभार्यः (= अर्धखारीभार्यायस्य) (वृद्धिनिमित्तस्य च तद्धितस्य &c.) Whereever *Vriddhi* is prohibited with regard to a *Taddhita* affix, that affix cannot be called वृद्धिनिमित्त, and a word formed with such an affix will become masculine in a *Bahuvrihi* compound referring to a male person, वैयाकरणी भार्या अस्य = वैयाकरणभार्यः ॥ The word वैयाकरण is formed by prohibition of *Vriddhi*. See (7.3.3). Kashika ------- अर्धात् परस्य परिमाणाकारस्य वृद्धिर्न भवति, पूर्वस्य तु वा भवति तद्धिते ञिति णिति किति च परतः। अर्धप्रस्थिकः, आर्धप्रस्थिकः। अर्धकंसिकः, आर्धकंसिकः। अत इति किम्? आर्धकौडविकः। तपरकरणं किम्? इह मा भूत् — अर्धखार्यां भवा अर्धखारी। किं च स्यात्? अर्धखारी भार्या यस्य अर्धखारीभार्यः। **वृद्धिनिमित्तस्य च तद्धितस्यारक्तविकारे** (६.३.३९) इति पुंवद्भावप्रतिषेधो न स्यात्। यत्र हि तद्धिते वृद्धिः प्रतिषिध्यते, स वृद्धिनिमित्तं न भवतीति पुंवद्भावो न प्रतिषिध्यते, यथा वैयाकरणी भार्या अस्य वैयाकरणभार्य इति॥ Siddhanta Kaumudi ----------------- अर्धात्परस्य परिमाणाकारस्य वृद्धिर्न पूर्वपदस्य तु वा ञिदादौ । आर्धप्रस्थिकम् । अर्धप्रस्थिकम् । अतः किम् । आर्धकौडबिकम् । तपरः किम् । अर्धखार्यां भवा अर्धखारी । आर्धखारीभार्य इत्यत्र वृद्धिनिमित्तस्य- (SK840) इति पुंवद्भावनिषेधो न स्यात् ॥ Balamanorama ------------ **नातः परस्य** - नातः परस्य । परिमाणाऽकारस्येति । परिमाणवाचकावयवस्य अकारस्येत्यर्थः । पूर्वपदस्य तु वेति । पूर्वपदस्यादेरचस्तु वृद्धिर्वेत्यर्थः । आर्धकौडविकमिति । अर्धकुडबेन क्रीतमित्यर्थः ।तेन क्रीत॑मिति ठञ् । अत्र कुडवशब्दस्य परिमाणविशेषवाचिन आदेरचोरकारत्वाऽभावान्न वृद्धिनिषेधः । किन्तुअर्धात्परिमाणस्य॑त्युत्तरपदवृद्धिरिति भावः । तपरः किमिति । दीर्घस्याकारस्य वृद्धिनिषेधे फलाऽभावाद्ध्रस्वस्येति सिद्धमिति प्रश्नः । अर्धखारीति । निषेधो न स्यादिति । पूर्वपदस्य वृद्ध्यभावपक्षे वृदिंध प्रति फलोपहितनिमित्तत्वाऽभावादिति भावः । पूर्वपदस्य वृद्धिपक्षे तु वृदिंध प्रति फलोपहितनिमित्तत्वसत्त्वात् स्यादेव उत्तरपदाकारस्य वृद्धिनिषेधेऽपि पुंवत्त्वनिषेधः । परिमाणान्तस्येत्यारभ्या एतदन्तं साप्तमिकम् । अथ प्रकृतं पाञ्चमिकम् । Padamanjari ----------- आर्धप्रस्थिकम्, आर्धकंसिकमिति । पूर्ववट्ठञ् । कंसाट्टिठÄस्तु न भवति; तदन्तविधेरभावात् । प्राग्वतेः संख्यापूर्वपदानां तदन्तविधिः, न वार्धशब्दः संख्यावाची । किं च स्यादिति । आकारो वृद्धिरेव, तत्र सत्यसति वा वृद्धिप्रतिषेधे नास्ति विशेष इति मन्यते । किं पुनः कारणं पुंवद्भावप्रतिषेधो न स्यात् ? इत्यत आह - यत्र हीति । तदुक्तम् -'कुर्वद्रूपे निमितशब्दो मुख्यः' इति । परस्येति किम् ? पूर्वस्य मा भूत्, अत इति विशेषणोपादानसाममर्थ्यात्पूर्वस्य न भविष्यति, न हि पूर्वस्याधशब्दस्याकारादन्यो वृद्धिभागस्ति । किञ्च - यदि पूर्वस्य प्रतिषेधः स्यात्,'पूर्वस्य तु वा' इत्येतदनर्थकं स्यात् । इदं तर्हि प्रयोजनम् - तदन्तविधिर्मा भूदिति, अन्यथाऽकारान्तस्योतरपदस्यैवं विज्ञायेत । तत्र को दोषः ? इहप्रतिषेधः स्यात् - अर्धद्रौणिकम्, अर्धकौडविकमिति । पूर्वस्तु विधिः - अर्धमुष्टिना क्रीतोऽर्धमौष्टिक इत्यादौ चरितार्थः । तस्मातदन्तविधिनिरासार्थम्'परस्य' इत्युक्तम् ॥ Nyaas ----- पूर्वेण परिमाणस्य वृद्धिरुच्यमाना अकारस्याचमादेः प्राप्नोतीति प्रतिषिध्यते। पूर्वपदस्य तु विकल्पो भवत्येव; पूर्वस्य त्वित्यनुवृत्तेः। `आर्धप्रस्थिकः` इति। `अर्धं नपुंसकम्` (2.2.2) इति समासः, पूर्ववत्? प्रत्ययः।`किञ्च स्यात्` इति। एवं मन्यते - आकारो हि वृद्धिमानेव, ततर नास्ति विशेषः सत्यसति वा वृद्धिपरतिषेधे, तदेव रूपम्, अतोऽसत्यपि तपरकरणे नैव किञ्चिदनिष्टमापद्यत इति। `वृद्धिनिमित्तस्य` इत्यादि। यसति तपरकरणे तत्कालार्थे यदनिष्टमापद्यते तद्दर्शयति। किं पुनः कारणं पुंवद्भावप्रतिषेधो न स्यात्? इत्यत आह - `यत्र हि` इत्यादि। वृदिंध कुर्वन्नेव हि तद्धितो वृद्धिनिमित्तं भवति। तस्माद्यत्र तद्धिते वृद्धिप्रतिषेधः क्रियते स वृद्धेनिमित्तं न भवति। तेन वृद्धिनिमित्तस्य तद्धितस्य पुंवद्भावो न प्रतिषिध्यत इति पुंवद्भावः स्यात्। क्व? `यथा` इत्यादि। `वैयाकरणी भार्याऽस्य` इति। वृद्धिप्रतिषेधः पुनरत्र `न य्वाभ्याम्` (7.3.3) इत्यादिना। अथ परस्येति किमर्थं, पूर्वस्य मा भूदिति? नैतदस्ति; अत इति विशेषणोपादानसामर्थ्यात्? पूर्वस्य न भविष्यति। न हि पूर्वस्यार्धशब्दस्यातोऽन्यो वृद्धिमाक्? सम्भवति, `पूर्वस्य तु वा` (7.3.26) इति च विकल्पशासनमनर्थकं स्यात्, यदि तस्य प्रतिषेधः स्यात्। इदं तर्हि प्रयोजनम् - तदन्तविधिर्मा भूदिति? तदन्तदिधौ सतीहापि प्रतिषेधः स्यात् - अर्धद्रौणिकमिति। पूर्वस्तु विधिः - अर्धेन मुष्टिना क्रोतमर्धमौष्टिकम्, आर्धमौष्टिकमित्येवमर्थः स्यात्, परग्रहणे तु सति यदर्धात्? परमनन्तरं तदेवाश्रितं भवतीति नास्ति तदन्तविधिप्रसङ्गः॥