73017: परिमाणान्तस्यासंज्ञाशाणयोः¶
Padacheda: परिमाणान्तस्य | S | 6 | 1 |
असंज्ञाशाणयोः | S | 7 | 2 |
Sutrartha¶
Vasu English Summary¶
After a numeral, the first vowel of a word denoting mass in its widest sense (with the exception of शाण) gets the वृद्धि before a तद्धित affix having an indicatory ञ् , ण् or क् when the word so formed does not mean a Name.
Vasu English Translation¶
After a numeral, the first vowel of a word denoting mass in its widest sense (with the exception of शाण) gets the वृद्धि before a तद्धित affix having an indicatory ञ् , ण् or क् when the word so formed does not mean a Name. As द्वौ कुडवौ प्रयोजनमस्य = द्विकौडविकः (5.1.109) द्वाभ्यां सुवर्णाभ्यां क्रीतं = द्विसौवर्णिकम् (5.1.37), त्रिसौवर्णिकम् ॥ The taddhita affix is optionally elided, see vartika to (5.1.29). When the affix is elided there can be no Vriddhi, as द्विसुवर्णम् ॥ Similarly द्विनैष्किकम्, त्रिनैष्किकम् (5.1.30). Why ‘when it is not a name’? Observe पाञ्चलोहितिकम्, पाञ्चकपालिकम् (= पञ्चलोहित्यः or कपलानि परिमाणमस्य (5.1.30) The whole word is a Name here. Why with the exception of शाण? Observe द्वैशाणम्, त्रैशाणम् formed with अण् (5.1.35) and (5.1.36). Some read the sutra as असंज्ञाशाणकुलिजानाम् so that कुलिज is also excepted, as द्वैकुलिजिकः ((5.1.55) द्वेकुलिजे प्रयोजनमस्य) ॥
Kashika¶
परिमाणान्तस्याङ्गस्य संख्यायाः परं यदुत्तरपदं तस्याचामादेरचो वृद्धिर्भवति तद्धिते ञिति णिति किति च परतः, संज्ञायां विषये शाणे चोत्तरपदे न भवति। द्वौ कुडवौ प्रयोजनमस्य द्विकौडविकः। द्वाभ्यां सुवर्णाभ्यां क्रीतं द्विसौवर्णिकम्। विभाषा कार्षापणसहस्राभ्याम् (५.१.२९) इत्यत्र सुवर्णशतमानयोरुपसंख्यानम् (५.१.२९ वा०) इति लुको विकल्पः। द्वाभ्यां निष्काभ्यां क्रीतम्, द्वित्रिपूर्वान्निष्कात् (५.१.३०) — द्विनैष्किकम्। असंज्ञाशाणयोरिति किम्? पाञ्चलोहितिकम्। पाञ्चकलापिकम्। पञ्च लोहिन्यः परिमाणमस्य, पञ्च कलापानि परिमाणमस्येति विगृह्य तदस्य परिमाणम् (५.१.५७) इति योगविभागात् प्रत्ययः, तद्धितान्तश्चायं समुदायः संज्ञा। द्वाभ्यां शाणाभ्यां क्रीतं द्वैशाणम्। त्रैशाणम्। शाणाद्वा, द्वित्रिपूर्वादण् च (५.१.३५,३६) इत्यण् प्रत्ययः। असंज्ञाशाणकुलिजानामिति केचित् पठन्ति। द्वे कुलिजे प्रयोजनमस्य द्वैकुलिजिकः॥
Siddhanta Kaumudi¶
उत्तरपदवृद्धिः स्यात् ञिदादौ । परमनैष्किकः । असंज्ञा इति किम् । पञ्च कलापाः परिमाणमस्य पाञ्चकलापिकम् । तदस्य परिमाणम् (SK1723) इति ठञ् । असमासग्रहणं ज्ञापकं भवति इत्यतः प्राक् तदन्तविधिरिति । तेन सुगव्यम्-यवापूप्यमित्यादि ॥ इत ऊर्ध्वं तु ।<!संख्यापूर्वपदानां तदन्तग्रहणं प्राग्वतेरिष्यते तच्चालुकि !> (वार्तिकम्) ॥ पारायणिकः । द्वैपारायणिकः । अलुकि इति किम् । द्वाभ्यां शूर्पभ्यां क्रीतं द्विशूर्पम् । द्विशूर्पेण क्रीते शूर्पादञ् (SK1691) माभूत् किंतु ठञ् । द्विशौर्पिकम् ॥
Balamanorama¶
परिमाणान्तस्यासंज्ञाशाणयोः - परिमाणान्तस्या । आदिवृद्धिप्रकरणे उत्तरपदस्येत्यधिकारे इदं सूत्रम् । शेषपूरणेन तद्व्याचष्टे — उत्तरपदवृद्धिः स्यादिति । उत्तरपदस्य आदेरचो वृद्धि स्यादित्यर्थः । ञिदादाविति । ञिति णिति किति चेत्यर्थः । परमनैष्किक इति । परमनिष्केण क्रीत इत्यर्थः । समासत्वाट्ठगभावे औत्सर्गिकष्ठञ् । स्वरे विशेषः । ननु निष्कादिभ्य एव ठको विधानात्तदन्तात् समासाट्ठकोऽप्रसक्तेरसमासग्रहणं व्यर्थम् । न च प्रातिपदिकग्रहणस्यापञ्चमाध्यायसमाप्तेरधिकृतत्वात्प्रातिपदिकविशेषणतया तदन्तविधौ समासादपि ठकः प्रसक्तिरस्तीति वाच्यम्,ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्ती॑ति निषेधात् । निष्कादीनां च विशिष्य गृहीतत्वेन ग्रहणवत्त्वादित्यत आह — असमासग्रहममिति । सुगव्यमिति । सु=शोभना गौः-सुगौः,न पूजना॑दिति निषेधात्गोरतद्धितलुकी॑ति न टच् । ‘उगवादिभ्यः’ इति गोशब्दान्ताद्यत् । यवापूप्यमिति ।विभाषहविरपूपादिभ्यः॑ इत्यपूपान्तत्वाद्यत् । नन्वसमासग्रहणाड्ज्ञापकादिति ऊध्र्वमिति तदन्तविधिः किं न स्यात् । ततश्चपरमपारायणं वर्तयती॑त्यत्रापिपारायणतुरायणचान्द्रायणं वर्तयती॑ति ठञ् स्यादित्यत आह — इत ऊध्र्वं त्विति । वार्तिकमिदम् । नन्वेवमपि द्विशूर्पशब्दान्तादपिशूर्पादञन्यतरस्या॑मित्यञ् स्यादित्यत आद — तच्चाऽलुकीति । इत ऊध्र्वं संख्यापूर्वपदानां तदन्तग्रहणमिति यदुक्तं तत्तद्धितलुकि सति न भवतीत्यर्थः । इदमपि वार्तिकमेव । द्विशूर्पमिति । तद्धितार्थ॑ इति द्विगुरयम् । तद्धितप्रकृतिभूतः शब्दो न लुगन्तः । अतः सङ्ख्यापूर्वपदाच्छूर्पान्तादस्मात्शूर्पादञन्यतरस्या॑मिति प्राप्तस्य अञष्ठञो वाअध्यर्धे॑ति लुक् । द्विशूर्पशब्दो लुगन्तः । ततश्च तस्मात् क्रीतेऽर्थेशूर्पादञि॑ति न भवति, लुकि सति तदन्तग्रहणाऽभावादित्यर्थः । द्विशौर्पिकमिति ।तेन क्रीत॑मिति ठञिपरिमाणान्तस्याऽसंज्ञाशाणयो॑रित्यनुत्तरपदवृद्धिः । अस्य ठञो लुक्तु न भवति, तस्य द्विगुनिमित्तत्वाऽभावात् ।
Tattvabodhini¶
परिमाणान्तस्यासंज्ञाशाणयोः - परिमा । अथ किमर्थम्असमासे ॑इत्यच्यते , प्रातिपदिक ग्रहणे तदन्ग्रहणाऽभावादेवेष्टसिद्धेरत आह -असमासगद्रहणमिति । सुगव्यमिति ।उगवादिभ्यो यत् । यवापूप्यमिति । विभाषा हविरपूपादिभ्यः॑इति यत् । अन्नविकारत्वादेव सिद्धेअपूपादीनां प्रतिपदपाठसामर्थ्यात्तदन्तविधिर्नेतिन्यासग्रन्थस्तूपक्ष्यः, वृत्त्यादिग्रन्थविरोधादिति भावः । अतएव तत्सूत्रेअपूपादीनां केषांचित्पाठः प्रपञ्चार्थः॑इत्यवोचाम् । इत ऊध्र्वमिति । ज्ञापकेन तदन्तविधौ लब्धेऽपि विशेषव्यवस्थार्थमिदम् । सङ्ख्यापूर्वपदानामिति किम् । इह मा भूत् । परमपारायणं वर्तयति ।सङ्ख्यापूर्वपदानां तदन्तग्रहणं प्राग्वतेरिष्यते तच्चाऽलुकि । द्विशूर्पमिति । तद्धितार्थे द्विगुरम्ष । एषा हि प्रकृतिर्लुगन्ता न भवतीति सङ्ख्यापूर्वपदादप्यस्मात्शूर्पादञन्यतरस्या॑मिति प्राप्तस्याऽञष्ठञो वाअध्यर्धपूर्वे॑ति लुक् । द्विशौर्पिकमिति ।परिमाणान्तस्ये॑त्युत्तरपदवृद्धिः । ठञो द्विगुं प्रति निमित्तत्वाऽभावाल्लुगभावः । यद्यपिअध्यर्धे॑ति सूत्रे द्विगोः परस्यार्हीयस्य लुगित्येव मूले व्याख्यास्यते तथापि द्विगोर्निमित्तस्येति व्याख्येयमेव । अन्यथा अत्रैव ठञो लुक्स्यात् । एतच्च अध्यर्धे॑ति सूत्रे स्फुटीकरिष्यते । तपरः किमिति । दीर्घाकारस्य वृद्धौ कृतायामपि रूपे विशेषो नास्तीति प्रश्नः निषेधो न स्यादिति । तथा च वृद्धिनिषेदाऽभावाय तपरकरणमावश्यकमिति भावः । इदं च पुंवद्भावनिषेधाऽभावापादनं पूर्वपदस्य वृद्द्यभावपक्षे क्रियते । यदा तु पूर्वपदस्य पाक्षिकी वृद्धि क्रियते, तदा फलोपधायवृद्धिनिमित्तं तद्धित इत्युत्तरपदाऽकारस्य वृद्धिनिषेधेऽपि स्यादेव पुंवद्भावनिषेध इति बोध्यम् ।
Padamanjari¶
द्विकौडविक इति कुडेरवप्रत्यये कुडवःउ प्रस्थचतुर्थभाग इत्युणादिषु व्युत्पत्तिः । कुडवमित्येतदव्युत्पन्नं शब्दान्तरं द्रष्टव्यम् । ततः’प्राग्वतेष्टञ्’ , अनार्हीयत्वाल्लुगभावः । द्वाभ्यां सुवर्णाअभ्यामिति । शाणप्रतिषेधात्परिच्छितिसाधनमिह परिमाणम्, तेनोन्मानस्यापि भवति - लोहिनीउगुञ्जा, ताभिः पञ्चभिः परिमितमाकारविशेषयुक्तं हिरण्यं पाञ्चलोहितिकम् । कलापःउकश्चिन्मानविशेषः । योगविभागादिति । पूर्वासु वृत्तिषु’तदस्य परिमाणं संख्यायाः संज्ञा’ इत्येकयोगेन पठितत्वाद्, भाष्ये तत्र योगविभागस्योक्तत्वादेवमुक्तम् । तद्धितान्तश्चायमिति । यथा तु ठध्यर्धपूर्वद्विगोःऽ इत्यत्र वार्तिकं तथा तद्धितलुकि सति संज्ञेति तत्रैवावोचाम । द्वैशाण इति । यद्यत्रोतरपदवृद्धिः स्यात्, पूर्वपदस्य न स्यात् । कुलिजमुधान्यमानम् । अन्तग्रहणं चिन्त्यप्रयोजनम् ॥
Nyaas¶
संज्ञायाः परत्वं न सम्भवतीत्यतः संज्ञाशाणयोरिति विषयसप्तमीं दर्शयन्नाह - संज्ञायां विषये इत्यादि। शाणे चोत्तरपदे इति। विषय इत्यपेक्षते। यद्यप्युत्तरपदस्य[यद्युत्तरपदस्य - मुद्रित पाठः] शाणस्य परत्वमुपपद्यते, तथापि दुर्घटमेकस्याः सप्तम्या विषयसप्तमीत्वम्, परसप्तमीतवञ्चेति। तेन शाणशब्दमप्युत्तरपदं प्रति विषयसप्तम्येषा युक्ता। द्विकौडविकम् इति। प्राग्वतेष्ठञ (5.1.18) । अनार्हीयत्वाच्च प्रत्ययस्य अध्यर्थपूर्वद्विगोः (5.1.28) इति लुग्न भवति। द्विसौवर्णिकः [द्विसौवरणिकम् - काशिका] इति। स एव प्रत्ययः। कथं पुनरत्र वृद्धिः, यावता परिमाणान्तस्येत्युच्यते, सुवर्णञ्च गुरुत्वमानादुन्मानम्, न परिमाणमिति? नैव दोषः; आचार्यप्रवृत्तिज्र्ञायति - गुरुत्वपरिमाणमपीह परिच्छेदहेतुत्वात्? पूरिमाणं गृह्रते इति; यदयम्? असंज्ञाशाणयोः इति शाणप्रतिषेधमारमते। अथ अध्यर्धपूर्व (5.1.28) इति लुक्कस्मान्न भवति? इत्याह - विभावा इत्यादि। द्विनैष्किकम् इति। असमासे निष्कादिभ्यः (5।120) इति ठक्। पाञ्चलोहितिकः [पाञ्चलोहितिकम् - काशिका] इति। तस्मिन्नेव ठकि कृते भस्याढे तद्धिते (वा।731) इति पुंवद्भावेन वर्णादनुदात्तात्, तोपधात्? तो तः (4.1.39) इत्यनेन विहितयोर्ङीब्नकारयोर्निवृत्ति। द्वैकुलिजिकम् [द्वैकुलिजिकः - काशिका] इति। प्राग्वतीयष्ठञ्च॥
Prakriyasarvasvam¶
परिमाणान्तस्याङ्गस्य वृद्धिकृत्तद्धिते परे उत्तरपदवृद्धिः स्यात् । संज्ञायां शाणस्य च न । उत्तमनैष्किकम् ॥
Vartika¶
कुलिजशब्दमपि केचित्पठन्ति ।