73017: परिमाणान्तस्यासंज्ञाशाणयोः ================================= **Padacheda:** परिमाणान्तस्य | S | 6 | 1 | असंज्ञाशाणयोः | S | 7 | 2 | Sutrartha --------- **** Vasu English Summary -------------------- After a numeral, the first vowel of a word denoting mass in its widest sense (with the exception of शाण) gets the वृद्धि before a तद्धित affix having an indicatory ञ् , ण् or क् when the word so formed does not mean a Name. Vasu English Translation ------------------------ After a numeral, the first vowel of a word denoting mass in its widest sense (with the exception of शाण) gets the वृद्धि before a तद्धित affix having an indicatory ञ् , ण् or क् when the word so formed does not mean a Name. As द्वौ कुडवौ प्रयोजनमस्य = द्विकौडविकः (5.1.109) द्वाभ्यां सुवर्णाभ्यां क्रीतं = द्विसौवर्णिकम् (5.1.37), त्रिसौवर्णिकम् ॥ The *taddhita* affix is optionally elided, see *vartika* to (5.1.29). When the affix is elided there can be no *Vriddhi*, as द्विसुवर्णम् ॥ Similarly द्विनैष्किकम्, त्रिनैष्किकम् (5.1.30). Why 'when it is not a name'? Observe पाञ्चलोहितिकम्, पाञ्चकपालिकम् (= पञ्चलोहित्यः or कपलानि परिमाणमस्य (5.1.30) The whole word is a Name here. Why with the exception of शाण? Observe द्वैशाणम्, त्रैशाणम् formed with अण् (5.1.35) and (5.1.36). Some read the *sutra* as असंज्ञाशाणकुलिजानाम् so that कुलिज is also excepted, as द्वैकुलिजिकः ((5.1.55) द्वेकुलिजे प्रयोजनमस्य) ॥ Kashika ------- परिमाणान्तस्याङ्गस्य संख्यायाः परं यदुत्तरपदं तस्याचामादेरचो वृद्धिर्भवति तद्धिते ञिति णिति किति च परतः, संज्ञायां विषये शाणे चोत्तरपदे न भवति। द्वौ कुडवौ प्रयोजनमस्य द्विकौडविकः। द्वाभ्यां सुवर्णाभ्यां क्रीतं द्विसौवर्णिकम्। **विभाषा कार्षापणसहस्राभ्याम्** (५.१.२९) इत्यत्र **सुवर्णशतमानयोरुपसंख्यानम्** (५.१.२९ वा०) इति लुको विकल्पः। द्वाभ्यां निष्काभ्यां क्रीतम्, **द्वित्रिपूर्वान्निष्कात्** (५.१.३०) — द्विनैष्किकम्। असंज्ञाशाणयोरिति किम्? पाञ्चलोहितिकम्। पाञ्चकलापिकम्। पञ्च लोहिन्यः परिमाणमस्य, पञ्च कलापानि परिमाणमस्येति विगृह्य **तदस्य परिमाणम्** (५.१.५७) इति योगविभागात् प्रत्ययः, तद्धितान्तश्चायं समुदायः संज्ञा। द्वाभ्यां शाणाभ्यां क्रीतं द्वैशाणम्। त्रैशाणम्। **शाणाद्वा**, **द्वित्रिपूर्वादण् च** (५.१.३५,३६) इत्यण् प्रत्ययः। असंज्ञाशाणकुलिजानामिति केचित् पठन्ति। द्वे कुलिजे प्रयोजनमस्य द्वैकुलिजिकः॥ Siddhanta Kaumudi ----------------- उत्तरपदवृद्धिः स्यात् ञिदादौ । परमनैष्किकः । असंज्ञा इति किम् । पञ्च कलापाः परिमाणमस्य पाञ्चकलापिकम् । तदस्य परिमाणम् (SK1723) इति ठञ् । असमासग्रहणं ज्ञापकं भवति इत्यतः प्राक् तदन्तविधिरिति । तेन सुगव्यम्-यवापूप्यमित्यादि ॥ इत ऊर्ध्वं तु । (वार्तिकम्) ॥ पारायणिकः । द्वैपारायणिकः । अलुकि इति किम् । द्वाभ्यां शूर्पभ्यां क्रीतं द्विशूर्पम् । द्विशूर्पेण क्रीते शूर्पादञ् (SK1691) माभूत् किंतु ठञ् । द्विशौर्पिकम् ॥ Balamanorama ------------ **परिमाणान्तस्यासंज्ञाशाणयोः** - परिमाणान्तस्या । आदिवृद्धिप्रकरणे उत्तरपदस्येत्यधिकारे इदं सूत्रम् । शेषपूरणेन तद्व्याचष्टे — उत्तरपदवृद्धिः स्यादिति । उत्तरपदस्य आदेरचो वृद्धि स्यादित्यर्थः । ञिदादाविति । ञिति णिति किति चेत्यर्थः । परमनैष्किक इति । परमनिष्केण क्रीत इत्यर्थः । समासत्वाट्ठगभावे औत्सर्गिकष्ठञ् । स्वरे विशेषः । ननु निष्कादिभ्य एव ठको विधानात्तदन्तात् समासाट्ठकोऽप्रसक्तेरसमासग्रहणं व्यर्थम् । न च प्रातिपदिकग्रहणस्यापञ्चमाध्यायसमाप्तेरधिकृतत्वात्प्रातिपदिकविशेषणतया तदन्तविधौ समासादपि ठकः प्रसक्तिरस्तीति वाच्यम्,ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्ती॑ति निषेधात् । निष्कादीनां च विशिष्य गृहीतत्वेन ग्रहणवत्त्वादित्यत आह — असमासग्रहममिति । सुगव्यमिति । सु=शोभना गौः-सुगौः,न पूजना॑दिति निषेधात्गोरतद्धितलुकी॑ति न टच् । 'उगवादिभ्यः' इति गोशब्दान्ताद्यत् । यवापूप्यमिति ।विभाषहविरपूपादिभ्यः॑ इत्यपूपान्तत्वाद्यत् । नन्वसमासग्रहणाड्ज्ञापकादिति ऊध्र्वमिति तदन्तविधिः किं न स्यात् । ततश्चपरमपारायणं वर्तयती॑त्यत्रापिपारायणतुरायणचान्द्रायणं वर्तयती॑ति ठञ् स्यादित्यत आह — इत ऊध्र्वं त्विति । वार्तिकमिदम् । नन्वेवमपि द्विशूर्पशब्दान्तादपिशूर्पादञन्यतरस्या॑मित्यञ् स्यादित्यत आद — तच्चाऽलुकीति । इत ऊध्र्वं संख्यापूर्वपदानां तदन्तग्रहणमिति यदुक्तं तत्तद्धितलुकि सति न भवतीत्यर्थः । इदमपि वार्तिकमेव । द्विशूर्पमिति । तद्धितार्थ॑ इति द्विगुरयम् । तद्धितप्रकृतिभूतः शब्दो न लुगन्तः । अतः सङ्ख्यापूर्वपदाच्छूर्पान्तादस्मात्शूर्पादञन्यतरस्या॑मिति प्राप्तस्य अञष्ठञो वाअध्यर्धे॑ति लुक् । द्विशूर्पशब्दो लुगन्तः । ततश्च तस्मात् क्रीतेऽर्थेशूर्पादञि॑ति न भवति, लुकि सति तदन्तग्रहणाऽभावादित्यर्थः । द्विशौर्पिकमिति ।तेन क्रीत॑मिति ठञिपरिमाणान्तस्याऽसंज्ञाशाणयो॑रित्यनुत्तरपदवृद्धिः । अस्य ठञो लुक्तु न भवति, तस्य द्विगुनिमित्तत्वाऽभावात् । Tattvabodhini ------------- **परिमाणान्तस्यासंज्ञाशाणयोः** - परिमा । अथ किमर्थम्असमासे ॑इत्यच्यते , प्रातिपदिक ग्रहणे तदन्ग्रहणाऽभावादेवेष्टसिद्धेरत आह -असमासगद्रहणमिति । सुगव्यमिति ।उगवादिभ्यो यत् । यवापूप्यमिति । विभाषा हविरपूपादिभ्यः॑इति यत् । अन्नविकारत्वादेव सिद्धेअपूपादीनां प्रतिपदपाठसामर्थ्यात्तदन्तविधिर्नेतिन्यासग्रन्थस्तूपक्ष्यः, वृत्त्यादिग्रन्थविरोधादिति भावः । अतएव तत्सूत्रेअपूपादीनां केषांचित्पाठः प्रपञ्चार्थः॑इत्यवोचाम् । इत ऊध्र्वमिति । ज्ञापकेन तदन्तविधौ लब्धेऽपि विशेषव्यवस्थार्थमिदम् । सङ्ख्यापूर्वपदानामिति किम् । इह मा भूत् । परमपारायणं वर्तयति ।सङ्ख्यापूर्वपदानां तदन्तग्रहणं प्राग्वतेरिष्यते तच्चाऽलुकि । द्विशूर्पमिति । तद्धितार्थे द्विगुरम्ष । एषा हि प्रकृतिर्लुगन्ता न भवतीति सङ्ख्यापूर्वपदादप्यस्मात्शूर्पादञन्यतरस्या॑मिति प्राप्तस्याऽञष्ठञो वाअध्यर्धपूर्वे॑ति लुक् । द्विशौर्पिकमिति ।परिमाणान्तस्ये॑त्युत्तरपदवृद्धिः । ठञो द्विगुं प्रति निमित्तत्वाऽभावाल्लुगभावः । यद्यपिअध्यर्धे॑ति सूत्रे द्विगोः परस्यार्हीयस्य लुगित्येव मूले व्याख्यास्यते तथापि द्विगोर्निमित्तस्येति व्याख्येयमेव । अन्यथा अत्रैव ठञो लुक्स्यात् । एतच्च अध्यर्धे॑ति सूत्रे स्फुटीकरिष्यते । तपरः किमिति । दीर्घाकारस्य वृद्धौ कृतायामपि रूपे विशेषो नास्तीति प्रश्नः निषेधो न स्यादिति । तथा च वृद्धिनिषेदाऽभावाय तपरकरणमावश्यकमिति भावः । इदं च पुंवद्भावनिषेधाऽभावापादनं पूर्वपदस्य वृद्द्यभावपक्षे क्रियते । यदा तु पूर्वपदस्य पाक्षिकी वृद्धि क्रियते, तदा फलोपधायवृद्धिनिमित्तं तद्धित इत्युत्तरपदाऽकारस्य वृद्धिनिषेधेऽपि स्यादेव पुंवद्भावनिषेध इति बोध्यम् । Padamanjari ----------- द्विकौडविक इति कुडेरवप्रत्यये कुडवःउ प्रस्थचतुर्थभाग इत्युणादिषु व्युत्पत्तिः । कुडवमित्येतदव्युत्पन्नं शब्दान्तरं द्रष्टव्यम् । ततः'प्राग्वतेष्टञ्' , अनार्हीयत्वाल्लुगभावः । द्वाभ्यां सुवर्णाअभ्यामिति । शाणप्रतिषेधात्परिच्छितिसाधनमिह परिमाणम्, तेनोन्मानस्यापि भवति - लोहिनीउगुञ्जा, ताभिः पञ्चभिः परिमितमाकारविशेषयुक्तं हिरण्यं पाञ्चलोहितिकम् । कलापःउकश्चिन्मानविशेषः । योगविभागादिति । पूर्वासु वृत्तिषु'तदस्य परिमाणं संख्यायाः संज्ञा' इत्येकयोगेन पठितत्वाद्, भाष्ये तत्र योगविभागस्योक्तत्वादेवमुक्तम् । तद्धितान्तश्चायमिति । यथा तु ठध्यर्धपूर्वद्विगोःऽ इत्यत्र वार्तिकं तथा तद्धितलुकि सति संज्ञेति तत्रैवावोचाम । द्वैशाण इति । यद्यत्रोतरपदवृद्धिः स्यात्, पूर्वपदस्य न स्यात् । कुलिजमुधान्यमानम् । अन्तग्रहणं चिन्त्यप्रयोजनम् ॥ Nyaas ----- संज्ञायाः परत्वं न सम्भवतीत्यतः संज्ञाशाणयोरिति विषयसप्तमीं दर्शयन्नाह - `संज्ञायां विषये` इत्यादि। `शाणे चोत्तरपदे` इति। विषय इत्यपेक्षते। यद्यप्युत्तरपदस्य[यद्युत्तरपदस्य - मुद्रित पाठः] शाणस्य परत्वमुपपद्यते, तथापि दुर्घटमेकस्याः सप्तम्या विषयसप्तमीत्वम्, परसप्तमीतवञ्चेति। तेन शाणशब्दमप्युत्तरपदं प्रति विषयसप्तम्येषा युक्ता। `द्विकौडविकम्` इति। `प्राग्वतेष्ठञ` (5.1.18) । अनार्हीयत्वाच्च प्रत्ययस्य `अध्यर्थपूर्वद्विगोः` (5.1.28) इति लुग्न भवति। `द्विसौवर्णिकः` [द्विसौवरणिकम् - काशिका] इति। स एव प्रत्ययः। कथं पुनरत्र वृद्धिः, यावता परिमाणान्तस्येत्युच्यते, सुवर्णञ्च गुरुत्वमानादुन्मानम्, न परिमाणमिति? नैव दोषः; आचार्यप्रवृत्तिज्र्ञायति - `गुरुत्वपरिमाणमपीह परिच्छेदहेतुत्वात्? पूरिमाणं गृह्रते` इति; यदयम्? `असंज्ञाशाणयोः` इति शाणप्रतिषेधमारमते। अथ `अध्यर्धपूर्व` (5.1.28) इति लुक्कस्मान्न भवति? इत्याह - `विभावा` इत्यादि। `द्विनैष्किकम्` इति। `असमासे निष्कादिभ्यः` (5।120) इति ठक्। `पाञ्चलोहितिकः` [पाञ्चलोहितिकम् - काशिका] इति। तस्मिन्नेव ठकि कृते `भस्याढे तद्धिते` (वा।731) इति पुंवद्भावेन `वर्णादनुदात्तात्, तोपधात्? तो तः` (4.1.39) इत्यनेन विहितयोर्ङीब्नकारयोर्निवृत्ति। `द्वैकुलिजिकम्` [द्वैकुलिजिकः - काशिका] इति। प्राग्वतीयष्ठञ्च॥ Prakriyasarvasvam ----------------- परिमाणान्तस्याङ्गस्य वृद्धिकृत्तद्धिते परे उत्तरपदवृद्धिः स्यात् । संज्ञायां शाणस्य च न । उत्तमनैष्किकम् ॥ Vartika ------- कुलिजशब्दमपि केचित्पठन्ति ।