73016: वर्षस्याभविष्यति

Padacheda: वर्षस्य | S | 6 | 1 |

अभविष्यति | S | 7 | 1 |

Sutrartha


Vasu English Summary

After a numeral, the first vowel of वर्ष gets वृद्धि before a तद्धित affix having an indicatory ञ् , ण् or क् when the affix does not refer to a Future time.

Vasu English Translation

After a numeral, the first vowel of वर्ष gets वृद्धि before a तद्धित affix having an indicatory ञ् , ण् or क् when the affix does not refer to a Future time. As द्विवर्षे अधीष्टो भृतो भूतो वा = द्विवार्षिकः, त्रिवार्षिकः ॥ But when denoting future time, we have द्वैवर्षिकः, त्रैवर्षिकः “calculated to last two or three years” as in the sentence यस्य त्रैवर्षिकं धान्यं निहितं भृत्यवृत्तये अधिकं वापि विद्येत स सोमं पातुमर्हति ॥ (= त्रीणि वर्षाणि भावी). The word अभविष्यत् does not qualify the words अधीष्ट and भृत (5.1.80), the sense of futurity is there denoted by the sentence and not by the taddhita-affix: as द्वे वर्षे अधीष्टो भृतो वा कर्म करिष्यति = द्विवार्षिको मनुष्यः ॥

Kashika

संख्याया उत्तरस्य वर्षशब्दस्याचामादेरचो वृद्धिर्भवति तद्धिते ञिति णिति किति च परतः, स चेत् तद्धितो भविष्यत्यर्थे न भवति। द्वे वर्षे अधीष्टो भृतो भूतो वा द्विवार्षिकः। त्रिवार्षिकः। अभविष्यतीति किम्?

यस्य त्रैवर्षिकं धान्यं निहितं भृत्यवृत्तये।

अधिकं वापि विद्येत स सोमं पातुमर्हति॥ (मनु० ११.७)।

त्रीणि वर्षाणि भावीति त्रैवर्षिकम्। अधीष्टभृतयोरभविष्यतीति प्रतिषेधो न भवति। गम्यते हि तत्र भविष्यत्ता, न तु तद्धितार्थः। द्वे वर्षे अधीष्टो भृतो वा कर्म करिष्यतीति द्विवार्षिको मनुष्यः॥

Siddhanta Kaumudi

उत्तरपदस्य वृद्धिः स्यात् । द्विवार्षिको मनुष्यः । भविष्यति तु द्वैवर्षिकः । अधीष्टभृतयोरभविष्यतीति प्रतिषेधो न । गम्यते हि तत्र भविष्यत्ता न तु तद्धितार्थः । द्वे वर्षे अधीष्टो भृतो वा कर्म करिष्यतीति द्विवार्षिको मनुष्यः । परिमाणान्तस्यासंज्ञाशाणयोः (SK1683) द्वौ कुडवौ परिमाणमस्य द्विकौडविकः । द्वाभ्यां सुवर्णाभ्यां क्रीतं द्विसौवर्णिकम् । द्विनैष्किकम् । असंज्ञेति किम् । पञ्च कलापाः परिमाणमस्य पाञ्चकलापिकम् । तद्धितान्तः संज्ञैषा । द्वैशाणम् । कुलिजशब्दमपि केचित्पठन्ति । द्वैकुलिजिकः ॥

Balamanorama

वर्षस्याभविष्यति - ठञि आदिवृद्धौ प्राप्तायां — वर्षस्याभविष्यति । आदिवृद्धिप्रकरणे उत्तरपदस्येत्यधिकारे इदं सूत्रम् । शेषपूरणेन तद्व्याचष्टे — उत्तरपदस्य वृद्धिः स्यादिति । अभविष्यति यो ञिदादिः, तस्मिन्परे इत्यर्थः । निर्वृत्तादिषु पञ्चस्वर्थेषु भविष्यदर्थं वर्जयित्वा तदितरेषु चतुष्र्वर्थेषु यस्तद्धितस्तस्मिन्परे इति यावत् । द्विवार्षिक इति ।व्याधि॑रिति । शेषः । चित्तवति नित्यलुको वक्ष्यमाणत्वात् । नन्वेवं सति द्वे वर्षे अधीष्टो भृतो वा कर्म करिष्यति द्विवार्षिक इत्यत्र कथमुत्तरपदवृद्धिः, भविष्यत्त्वस्य प्रतीतेरित्याशङ्क्याह — अधीष्टभृतयोरभविष्यतीति प्रतिषेधो नेति । कुत इत्यत आह — गम्यते हि तत्र भविष्यत्तेति । अध्येषणभरणयोः क्तप्रत्ययेन भूतत्वमेव शब्दशक्त्या गम्यते । तद्धितप्रत्ययेन च तथाविधाऽध्येषणभरणकर्मीभूतौ प्रतीयेते । एवंविधाऽध्येषणभरणविशिष्टयोस्तु भविष्यता कर्माचरणेन सम्बन्धः कर्म करिष्यतीत्यनेनावगत इति न स तद्धितार्थः । एवंच तत्रापि भविष्यदर्थकतद्धितपरकत्वाऽभावात्स्यादेवोत्तरपदवृद्धिरित्यर्थः । द्विवार्षिको मनुष्य इति ।चित्तवति नित्य॑मिति वक्ष्यमाणस्तु नित्यलुङ्ग भवति, चित्तवतीत्येवारम्भसामर्थ्यान्नित्यत्वे सिद्धे पुनर्नित्यग्रहणेन भूत एवार्थे नित्यं लुगित्यभ्युपगमादिति हरदत्तः । केचित्तुद्विवार्षिकः — अमनुष्य॑ इति छिन्दन्ति ।

Padamanjari

यस्येत्यादि । यस्य यियक्षोर्यागवर्षादारभ्य त्रीणि वर्षाणि धान्यं भाविउतावन्तं कालं जीवनाय पर्याप्तम्, स सोमयागेऽधिकारी, न न्यून इत्यर्थः । गम्यते हीति । वाक्यार्थस्तत्र भविष्यता, न पदार्थ इत्यर्थः । द्विवाषिंको मनुष्य इति ।’वर्षाल्लुक्’ ,’चितवति नित्यम्’ इति नित्यं लुग्न भवति; भूतार्थ एव हि स इष्यते, अन्यत्र चितवत्यपि विकल्प एव ॥

Nyaas

द्वे वर्षे अधीष्टो भृतो वा कर्म करिष्यतति दैवार्षिको मनुष्यः इति। अत्राधीष्टभृतयोस्तद्धित उत्पन्ने भविष्यता प्रतीयते, तस्मात्? तयोरपि प्रतिषेधेन भवितव्यमिति कस्याचिद्भ्रान्तिः स्यात्, अतस्तां निराकर्तुमाह - अधीष्टभृतयोः इत्यादि। किं पुनः कारणं न भवति? इत्याह - गम्यते हि इत्यादि। तत्र यदि शब्दान्तरम्? द्वे वर्षे अधीष्टो भृतो वा कर्म करिष्यति इति प्रयुज्यते, ततो भविष्यत्ता गम्यते, नान्यथा। तस्मान्नासौ तद्धितार्थ इत्यधीष्टभृतयोरभविष्यतीति प्रतिषेधो न भवति। ननु च मनुष्येऽभिधेये चित्तवति नित्यम् (5.1.89) इति ठञो लुका भवितव्यम्, तत्कथं द्विवार्षिको मनुष्य इति सिध्यति? नैष दोषः; न ह्रसावदिशेषेण लुक्, किं तर्हि? विशिष्ट #एव विषये। कथम्? ततर नित्यग्रहणं कर्तव्यम्, पूर्वेणैव सिद्ध आरम्भसामर्थ्यादेव नित्यं लुग्भविष्यतीति, तत्? कृतं विशिष्टे विषये भूते यथा स्यात्, अधोष्टादी मा भूदित्येवमर्थम्। तेनाधीष्टादौ वर्षाल्लुक् च (5.1.88) इति विभाषैव लुग्भवति॥

Prakriyasarvasvam

भावीत्यर्थादन्यत्र सङ्ख्यायाः परस्य वर्षस्य वृद्धिः स्यात् । द्विवार्षिकं निर्वृत्तादि । द्वे वर्षे भावी तु द्वैवार्षिकः ॥