73015: संख्यायाः संवत्सरसंख्यस्य च¶
Padacheda: संख्यायाः | S | 5 | 1 |
संवत्सरसंख्यस्य | S | 6 | 1 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
After a numeral, the first vowel of संवत्सर and of a numeral, gets वृद्धि before a तद्धित affix having an indicatory ञ् , ण् or क् ।
Vasu English Translation¶
After a numeral, the first vowel of संवत्सर and of a numeral, gets वृद्धि before a तद्धित affix having an indicatory ञ् , ण् or क् । Thus द्विसांवत्सरिकः = द्वौ संवत्सरावधीष्टो भृतो भूतो or भावी (5.1.80), त्रिसांवत्सरिकः, द्विषाष्ठिकः = द्वे षष्टी अधीष्टो भृतो भूतो भावी वा ॥ The words द्वि, षष्टी &c when applied to वर्ष (7.3.16) and Numerals give rise to the affixes taught under kaladhikara (5.1.78) — (5.1.97). The special mention of संवत्सर here, (though this is a परिमाण word and would have been included in the sutra (7.3.17)) implies that the word परिमाण in that sutra does not mean the measure of time, but a measure of any other thing than time. Therefore, with other time-words than samvatsara, the Vriddhi takes place in the regular way: as द्वैसमिकः, त्रैसमिकः ॥ Similarly in sutra (4.1.22), the word परिमाण does not mean the measure of time or numerals, as त्रिवर्षा, द्विवर्षा माणविका ॥ In short, the word परिमाण in these sutras (and elsewhere (3.2.23), (2.3.46) &c.) means “mass or bulk”, and not a measure in general.
Bhashya¶
सङ्ख्यायाः सवत्सरसङ्ख्यस्य च संवत्सरग्रहणमनर्थकं परिमाणान्तस्येति कृतत्वात्, संवत्सरग्रहणमनर्थकम् ॥ किं कारणम् ? ॥ परिमाणान्तस्येति कृतत्वात् । परिमाणान्तस्याऽसंज्ञाशाणयोरित्येव सिद्धम् ज्ञापकं तु कालपरिमाणानां वृद्धिप्रतिषेधस्य(3) (एवं तर्हि ज्ञापयत्याचार्यः - कालपरिमाणानां(4)) वृद्धिर्न भवतीति ॥ किमेतस्य ज्ञापने प्रयोजनम् ? ॥ द्वैरात्रिकः त्रैरात्रिकः - अत्र वृद्धिर्न भवति ॥ नैतदस्ति प्रयोजनं, नास्त्यत्र विशेषः सत्यां वोत्तरपदवृद्धावसत्यां(5) वा ॥ इदं तर्हि - द्वैसमिकः त्रैसमिकः ॥ इदं चापि प्रयोजनं - द्वैरात्रिकः त्रैरात्रिकः ॥ ननु चोक्तंनास्त्यत्र विशेषः सत्यां वोत्तरपदवृद्धावसत्यां वेति ? ॥ अयमस्ति विशेषः - यद्यत्रोत्तरपदवृद्धिः स्यादचामादेर्वृद्धिर्न स्यात् ॥ अपर आह ज्ञापकं तु कालपरिमाणानां परिमाणाऽग्रहणस्य एवं तर्हि ज्ञापयत्याचार्यः - कालपरिमाणानां परिमाणग्रहणेन ग्रहणं न भवतीति ॥ किमेतस्य ज्ञापने प्रयोजनम् ? ॥ अपरिमाणबिस्ताचिकम्बल्येभ्यो न तद्धितलुकि - द्विवर्षा त्रिवर्षा । परिमाणपदासेन पर्युदासो न भवति ॥
Kashika¶
संख्याया उत्तरपदस्य संवत्सरशब्दस्य संख्यायाश्चाचामादेरचः स्थाने वृद्धिर्भवति तद्धिते ञिति णिति किति च परतः। द्वौ संवत्सरावधीष्टो भृतो भूतो भावी वा द्विसांवत्सरिकः। संख्यायाः — द्वे षष्टी अधीष्टो भृतो भूतो भावी वा द्विषाष्टिकः। द्विसाप्ततिकः। द्विषष्ट्यादिशब्दो वर्षेषु संख्येयेषु वर्तमानः कालाधिकारविहितं प्रत्ययमुत्पादयति। परिमाणान्तस्य० (७.३.१७) इत्येव सिद्धे संवत्सरग्रहणं परिमाणग्रहणे कालपरिमाणस्याग्रहणार्थम्। तेन द्वैसमिकः त्रैसमिक इत्युत्तरपदवृद्धिर्न भवति। द्विवर्षा, त्रिवर्षा माणविकेति अपरिमाणबिस्ताचित० (४.१.२२) इति पर्युदासो न भवति॥
Siddhanta Kaumudi¶
संख्याया उत्तरपदस्य वृद्धिः स्यात् ञिदादौ । द्विसांवत्सरिकः । द्वे षष्टी भृतो द्विषाष्टिकः । संख्यायाः परिमाणान्तस्येत्येव सिद्धे संवत्सरग्रहणं परिमाणग्रहणे कालपरिमाणस्याग्रहणार्थम् । तेन द्वैसमिक इत्युत्तरपदवृद्धिर्न ॥
Balamanorama¶
संख्यायाः संवत्सरसंख्यस्य च - ठञि त्वादिवृद्धौ प्राप्तायां — संख्यायाः संवत्सर । आदिवृद्धिप्रकरणेउत्तरपदस्ये॑त्यधिकारे इदं सूत्रम् । संवत्सरश्चसङ्ख्या चेति समाहारद्वन्द्वात् षष्ठी । संख्याया उत्तरपदस्येति । संख्यायाः परस्य संवत्सरसंख्यस्योत्तरपदस्येत्यर्थः । नन्वत्र संवत्सरग्रहणं व्यर्थं, संवत्सरस्य द्वादशमासपरिमाणतयापरिमाणान्तस्याऽसंज्ञाशाणयो॑रित्येव सिद्धेरित्यत आह — परिमाणान्तस्येत्येवेति ।
Tattvabodhini¶
संख्यायाः संवत्सरसंख्यस्य च - उत्तरपदवृद्धिर्नेति । एतच्चोपलक्षणम् ।द्विवर्षा॑इत्यत्रद्विगो॑रिति ङीन्बभवति । परिमाणपर्युदासेन पर्युदासाऽबावात्अपरिमाणबिस्ताचिते॑तीह निषेधप्रवृत्तेः । द्विवर्षे भृतेतमधीष्टः॑इति ठञ् ।॒वर्षाल्लुक्च॑इति लुक् ।चित्तवति नित्य॑मिति नित्यलुको वक्ष्यमाणत्वादचित्तवानिह प्रत्ययार्थ इति प्रत्युदाहरति ।
Padamanjari¶
संवत्सरश्च संख्या च संवत्सरसंख्यम्, समाहारद्वन्द्वः । द्विसांवत्सरिक इति ।’प्राग्वतेष्ठञ्’ , तस्य ठध्यर्धपूर्वऽ इति लुग्न भवति, अनार्हीयत्वात् । द्विषाष्टिक इति । ननु’तमधीष्टो भृतः’ इत्यत्र कालादिति वर्तते, तत्कथं द्विषष्ट।लदिशब्देभ्यः प्रत्ययः ? इत्यत आह - द्विषष्ट।लदिशब्द इति । कालवृत्तिः शब्दस्तत्र गृह्यते, न मासादय एवेति भावः । ननु च’परमाणान्तस्यासंज्ञाशाणयोः’ इत्यत्र परिच्छेदहेतुत्वमात्रं गृह्यते, न त्वारोहतः परिणाइतश्च येन मीयते तदेव प्रस्थादि; अन्यथा शाणप्रतिषेधोऽनर्थकः स्यात्; कालश्चापि परिच्छेदहेतुर्भवत्येव, ततश्च संबत्सरग्रहणमनर्थकम्, परिमाणान्तस्येत्येव सिद्धत्वात् ? इत्यत आह - संवत्सरग्रहणमिति । द्वैसमिक इति । अधीष्टादिषु’समायाः खः’ ,’द्विगोर्वा’ इति पक्षे ठञ् । न केवलं वृद्धिविषयमेव ज्ञापकम्, किं तर्हि ? सार्वत्रिकमित्याह - द्विवर्षा माणविकेति । द्वे वर्षे भूता इति पूर्ववट्टञ्, तस्य’वर्षाल्लुक्’ ,’चितवति नित्यम्’ इति लुक् । पर्युदासो न भवतीति । प्रतिषेधस्य । तेन प्रतिषेध एव भवति । अथ संख्याग्रहणं किमर्थम्, यावता संख्ययापि परिच्छिद्यते, तत्र’परिमाणान्तस्य’ इत्येव सिद्धम् ? केचिदाहुः - संख्याग्रहणमपि ज्ञापकार्थमेव, परिमाणग्रहणेन संख्यापि न गृह्यत इति । तथा च ठपरिमाणबिस्ताचितऽ इत्यत्र वृतावुक्तम् -‘कालः संख्या च परिमाणं न भवति । द्विवर्षा, त्रिवर्षा, द्विशता, त्रिशता’ इति । अपर आह - साक्षाच्छिष्टेन निमितभावेनानुमितं कार्यित्वं मा बाधीति परिमाणात्पृथगिह संख्याग्रहणं कृतमिति ॥
Nyaas¶
द्विसांवत्सरिकः इति। पूर्ववत्? तद्धितार्थे समासः। ततः प्राग्वतीयष्ठञ्। द्विषाष्टिकः, द्विसाप्ततिकः इति। ननु च तमधीष्टो भृतो भूतो भावी (5.1.80) इत्यत्र कालादिति। (5.1.77) वर्तते, न द्विषष्टआदिः कालशब्दः, किं तर्हि? संख्याशब्दः, तत्कथं कालाधिकारविहितं प्रत्ययमुत्पादयति? इत्याह - द्विषष्टआदिशब्दः इत्यादि। कालवाचिशब्दस्तत्र कालग्रहणेन गृह्रते, द्विषष्टआदिशब्दो हि यदा वर्षेषु संख्येयेषु वर्तते, तदा कालवाचित्वात्? कालश्ब्दो भवति। ततः कालाधिकारीयं प्रत्ययमुत्यादयति। अथ संवत्सरग्रहणं किमर्थम्, यावतः परिमाणान्तस्यासंज्ञाशाणयोः (7.3.17) इत्यत्र परिमाणशब्देन परिच्छेदहेतुमात्र गृह्रते, न तु प्रस्थादिवदारोहपरिणाहपरिच्छेदहेतुः, अन्यथा हि शाणप्रतिषेधोऽनर्थकः स्यात्, न हि शाणः परिमाणमारोहपरणाहपरिच्छेदहेतुः, अतः कालोऽपि परिच्छेदहेतुर्भवति, ततश्च सोऽपि परिमाणमिति संवत्सरशब्दस्य परिमाणस्यासंज्ञाशाणयोः (7.3.17) इत्येव सिद्धम्? इति चोद्यनिरासायाह - संवत्सरग्रहणम् इत्यादि। परिमाणग्रहणेन कालपरिमाणस्य ग्रहणं मा भूदित्येवमर्थं संवत्सरग्रहणम्। संवत्सरग्रहणेनासावर्थो ज्ञाप्यते - परिमाणग्रहणे कालपरिमाणग्रहणं न भवति इति। ततश्च यत्र परिमाणग्रहणं तत्र कलपरिमाणं न गृह्रते। तेन इत्यादिना परिमाणग्रहणे कालपरिमाणस्याग्रहणे सति यदिष्टं सिध्यति तद्दर्शयति। उत्तरपदवृद्धिरन भवति इति। परिमाणान्तस्य (7.3.17) इत्यादिना। द्विवर्षा इति। द्वे वर्षे भृतो भूतो भावी वा, पूर्ववट्ठक्, तस्य वर्षाल्लुक् च (5.1.88) इत्यनुवर्तमाने चित्तवति नित्यम् (5.1.89) इति लुक्। पर्युदासो न भवति इति। ङीप्प्रतिषेधे कर्तव्ये तेन प्रतिषेधः। प्रवर्तत एवेति द्विगोः (4.1.21) इति ङीब्न भवति॥
Prakriyasarvasvam¶
सङ्ख्यायाः परस्य संवत्सरस्य सङ्ख्यावाचिनश्चोत्तरपदवृद्धिः स्यात् । द्विसाहस्रम् । अध्यर्धस्यापि कृत्वसुचोऽन्यत्र सङ्ख्यात्वमस्तीति वृत्तिः । अध्यर्ध- साहस्रम् ।<!सुवर्णशतमानयोश्च वाच्यम्!> (वा० ५-१-२१) । कर्षपरिमितं हेम सुवर्ण इति बिस्त इति चोच्यते । ठञो वा लुक् । अध्यर्धसुवर्णम् । अध्यर्ध- सौवर्णिकम् । अणो वा लुक् । अध्यर्धशतमानम् । अध्यर्धशातमानम् इत्यादि ॥
Sutra Prayogas¶
चतुर्दश-साहस्रबलौ (भट्टिकाव्यम्): सङ्ख्यायाः संवत्सर इत्युत्तरपदवृद्धिः ।
शत-साहस्र (भट्टिकाव्यम्): संख्यायाः संवत्सर इत्युत्तरपदवृद्धिः।