73015: संख्यायाः संवत्सरसंख्यस्य च ================================== **Padacheda:** संख्यायाः | S | 5 | 1 | संवत्सरसंख्यस्य | S | 6 | 1 | च | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- After a numeral, the first vowel of संवत्सर and of a numeral, gets वृद्धि before a तद्धित affix having an indicatory ञ् , ण् or क् । Vasu English Translation ------------------------ After a numeral, the first vowel of संवत्सर and of a numeral, gets वृद्धि before a तद्धित affix having an indicatory ञ् , ण् or क् । Thus द्विसांवत्सरिकः = द्वौ संवत्सरावधीष्टो भृतो भूतो or भावी (5.1.80), त्रिसांवत्सरिकः, द्विषाष्ठिकः = द्वे षष्टी अधीष्टो भृतो भूतो भावी वा ॥ The words द्वि, षष्टी &c when applied to वर्ष (7.3.16) and Numerals give rise to the affixes taught under *kaladhikara* (5.1.78) — (5.1.97). The special mention of संवत्सर here, (though this is a परिमाण word and would have been included in the *sutra* (7.3.17)) implies that the word परिमाण in that *sutra* does not mean the measure of time, but a measure of any other thing than time. Therefore, with other time-words than *samvatsara*, the *Vriddhi* takes place in the regular way: as द्वैसमिकः, त्रैसमिकः ॥ Similarly in *sutra* (4.1.22), the word परिमाण does not mean the measure of time or numerals, as त्रिवर्षा, द्विवर्षा माणविका ॥ In short, the word परिमाण in these *sutras* (and elsewhere (3.2.23), (2.3.46) &c.) means "mass or bulk", and not a measure in general. Bhashya ------- सङ्ख्यायाः सवत्सरसङ्ख्यस्य च संवत्सरग्रहणमनर्थकं परिमाणान्तस्येति कृतत्वात्, संवत्सरग्रहणमनर्थकम् ॥ किं कारणम् ? ॥ परिमाणान्तस्येति कृतत्वात् । परिमाणान्तस्याऽसंज्ञाशाणयोरित्येव सिद्धम् ज्ञापकं तु कालपरिमाणानां वृद्धिप्रतिषेधस्य(3) (एवं तर्हि ज्ञापयत्याचार्यः - कालपरिमाणानां(4)) वृद्धिर्न भवतीति ॥ किमेतस्य ज्ञापने प्रयोजनम् ? ॥ द्वैरात्रिकः त्रैरात्रिकः - अत्र वृद्धिर्न भवति ॥ नैतदस्ति प्रयोजनं, नास्त्यत्र विशेषः सत्यां वोत्तरपदवृद्धावसत्यां(5) वा ॥ इदं तर्हि - द्वैसमिकः त्रैसमिकः ॥ इदं चापि प्रयोजनं - द्वैरात्रिकः त्रैरात्रिकः ॥ ननु चोक्तंनास्त्यत्र विशेषः सत्यां वोत्तरपदवृद्धावसत्यां वेति ? ॥ अयमस्ति विशेषः - यद्यत्रोत्तरपदवृद्धिः स्यादचामादेर्वृद्धिर्न स्यात् ॥ अपर आह ज्ञापकं तु कालपरिमाणानां परिमाणाऽग्रहणस्य एवं तर्हि ज्ञापयत्याचार्यः - कालपरिमाणानां परिमाणग्रहणेन ग्रहणं न भवतीति ॥ किमेतस्य ज्ञापने प्रयोजनम् ? ॥ अपरिमाणबिस्ताचिकम्बल्येभ्यो न तद्धितलुकि - द्विवर्षा त्रिवर्षा । परिमाणपदासेन पर्युदासो न भवति ॥ Kashika ------- संख्याया उत्तरपदस्य संवत्सरशब्दस्य संख्यायाश्चाचामादेरचः स्थाने वृद्धिर्भवति तद्धिते ञिति णिति किति च परतः। द्वौ संवत्सरावधीष्टो भृतो भूतो भावी वा द्विसांवत्सरिकः। संख्यायाः — द्वे षष्टी अधीष्टो भृतो भूतो भावी वा द्विषाष्टिकः। द्विसाप्ततिकः। द्विषष्ट्यादिशब्दो वर्षेषु संख्येयेषु वर्तमानः कालाधिकारविहितं प्रत्ययमुत्पादयति। **परिमाणान्तस्य०** (७.३.१७) इत्येव सिद्धे संवत्सरग्रहणं परिमाणग्रहणे कालपरिमाणस्याग्रहणार्थम्। तेन द्वैसमिकः त्रैसमिक इत्युत्तरपदवृद्धिर्न भवति। द्विवर्षा, त्रिवर्षा माणविकेति **अपरिमाणबिस्ताचित०** (४.१.२२) इति पर्युदासो न भवति॥ Siddhanta Kaumudi ----------------- संख्याया उत्तरपदस्य वृद्धिः स्यात् ञिदादौ । द्विसांवत्सरिकः । द्वे षष्टी भृतो द्विषाष्टिकः । संख्यायाः परिमाणान्तस्येत्येव सिद्धे संवत्सरग्रहणं परिमाणग्रहणे कालपरिमाणस्याग्रहणार्थम् । तेन द्वैसमिक इत्युत्तरपदवृद्धिर्न ॥ Balamanorama ------------ **संख्यायाः संवत्सरसंख्यस्य च** - ठञि त्वादिवृद्धौ प्राप्तायां — संख्यायाः संवत्सर । आदिवृद्धिप्रकरणेउत्तरपदस्ये॑त्यधिकारे इदं सूत्रम् । संवत्सरश्चसङ्ख्या चेति समाहारद्वन्द्वात् षष्ठी । संख्याया उत्तरपदस्येति । संख्यायाः परस्य संवत्सरसंख्यस्योत्तरपदस्येत्यर्थः । नन्वत्र संवत्सरग्रहणं व्यर्थं, संवत्सरस्य द्वादशमासपरिमाणतयापरिमाणान्तस्याऽसंज्ञाशाणयो॑रित्येव सिद्धेरित्यत आह — परिमाणान्तस्येत्येवेति । Tattvabodhini ------------- **संख्यायाः संवत्सरसंख्यस्य च** - उत्तरपदवृद्धिर्नेति । एतच्चोपलक्षणम् ।द्विवर्षा॑इत्यत्रद्विगो॑रिति ङीन्बभवति । परिमाणपर्युदासेन पर्युदासाऽबावात्अपरिमाणबिस्ताचिते॑तीह निषेधप्रवृत्तेः । द्विवर्षे भृतेतमधीष्टः॑इति ठञ् ।॒वर्षाल्लुक्च॑इति लुक् ।चित्तवति नित्य॑मिति नित्यलुको वक्ष्यमाणत्वादचित्तवानिह प्रत्ययार्थ इति प्रत्युदाहरति । Padamanjari ----------- संवत्सरश्च संख्या च संवत्सरसंख्यम्, समाहारद्वन्द्वः । द्विसांवत्सरिक इति ।'प्राग्वतेष्ठञ्' , तस्य ठध्यर्धपूर्वऽ इति लुग्न भवति, अनार्हीयत्वात् । द्विषाष्टिक इति । ननु'तमधीष्टो भृतः' इत्यत्र कालादिति वर्तते, तत्कथं द्विषष्ट।लदिशब्देभ्यः प्रत्ययः ? इत्यत आह - द्विषष्ट।लदिशब्द इति । कालवृत्तिः शब्दस्तत्र गृह्यते, न मासादय एवेति भावः । ननु च'परमाणान्तस्यासंज्ञाशाणयोः' इत्यत्र परिच्छेदहेतुत्वमात्रं गृह्यते, न त्वारोहतः परिणाइतश्च येन मीयते तदेव प्रस्थादि; अन्यथा शाणप्रतिषेधोऽनर्थकः स्यात्; कालश्चापि परिच्छेदहेतुर्भवत्येव, ततश्च संबत्सरग्रहणमनर्थकम्, परिमाणान्तस्येत्येव सिद्धत्वात् ? इत्यत आह - संवत्सरग्रहणमिति । द्वैसमिक इति । अधीष्टादिषु'समायाः खः' ,'द्विगोर्वा' इति पक्षे ठञ् । न केवलं वृद्धिविषयमेव ज्ञापकम्, किं तर्हि ? सार्वत्रिकमित्याह - द्विवर्षा माणविकेति । द्वे वर्षे भूता इति पूर्ववट्टञ्, तस्य'वर्षाल्लुक्' ,'चितवति नित्यम्' इति लुक् । पर्युदासो न भवतीति । प्रतिषेधस्य । तेन प्रतिषेध एव भवति । अथ संख्याग्रहणं किमर्थम्, यावता संख्ययापि परिच्छिद्यते, तत्र'परिमाणान्तस्य' इत्येव सिद्धम् ? केचिदाहुः - संख्याग्रहणमपि ज्ञापकार्थमेव, परिमाणग्रहणेन संख्यापि न गृह्यत इति । तथा च ठपरिमाणबिस्ताचितऽ इत्यत्र वृतावुक्तम् -'कालः संख्या च परिमाणं न भवति । द्विवर्षा, त्रिवर्षा, द्विशता, त्रिशता' इति । अपर आह - साक्षाच्छिष्टेन निमितभावेनानुमितं कार्यित्वं मा बाधीति परिमाणात्पृथगिह संख्याग्रहणं कृतमिति ॥ Nyaas ----- `द्विसांवत्सरिकः` इति। पूर्ववत्? तद्धितार्थे समासः। ततः प्राग्वतीयष्ठञ्। `द्विषाष्टिकः, द्विसाप्ततिकः` इति। ननु च **तमधीष्टो भृतो भूतो भावी** (5.1.80) इत्यत्र कालादिति। (5.1.77) वर्तते, न द्विषष्टआदिः कालशब्दः, किं तर्हि? संख्याशब्दः, तत्कथं कालाधिकारविहितं प्रत्ययमुत्पादयति? इत्याह - `द्विषष्टआदिशब्दः` इत्यादि। कालवाचिशब्दस्तत्र कालग्रहणेन गृह्रते, द्विषष्टआदिशब्दो हि यदा वर्षेषु संख्येयेषु वर्तते, तदा कालवाचित्वात्? कालश्ब्दो भवति। ततः कालाधिकारीयं प्रत्ययमुत्यादयति। अथ संवत्सरग्रहणं किमर्थम्, यावतः **परिमाणान्तस्यासंज्ञाशाणयोः** (7.3.17) इत्यत्र परिमाणशब्देन परिच्छेदहेतुमात्र गृह्रते, न तु प्रस्थादिवदारोहपरिणाहपरिच्छेदहेतुः, अन्यथा हि शाणप्रतिषेधोऽनर्थकः स्यात्, न हि शाणः परिमाणमारोहपरणाहपरिच्छेदहेतुः, अतः कालोऽपि परिच्छेदहेतुर्भवति, ततश्च सोऽपि परिमाणमिति संवत्सरशब्दस्य `परिमाणस्यासंज्ञाशाणयोः` (7.3.17) इत्येव सिद्धम्? इति चोद्यनिरासायाह - `संवत्सरग्रहणम्` इत्यादि। परिमाणग्रहणेन कालपरिमाणस्य ग्रहणं मा भूदित्येवमर्थं संवत्सरग्रहणम्। संवत्सरग्रहणेनासावर्थो ज्ञाप्यते - `परिमाणग्रहणे कालपरिमाणग्रहणं न भवति` इति। ततश्च यत्र परिमाणग्रहणं तत्र कलपरिमाणं न गृह्रते। `तेन` इत्यादिना परिमाणग्रहणे कालपरिमाणस्याग्रहणे सति यदिष्टं सिध्यति तद्दर्शयति। `उत्तरपदवृद्धिरन भवति` इति। `परिमाणान्तस्य` (7.3.17) इत्यादिना। `द्विवर्षा` इति। द्वे वर्षे भृतो भूतो भावी वा, पूर्ववट्ठक्, तस्य **वर्षाल्लुक् च** (5.1.88) इत्यनुवर्तमाने **चित्तवति नित्यम्** (5.1.89) इति लुक्। `पर्युदासो न भवति` इति। ङीप्प्रतिषेधे कर्तव्ये तेन प्रतिषेधः। प्रवर्तत एवेति **द्विगोः** (4.1.21) इति ङीब्न भवति॥ Prakriyasarvasvam ----------------- सङ्ख्यायाः परस्य संवत्सरस्य सङ्ख्यावाचिनश्चोत्तरपदवृद्धिः स्यात् । द्विसाहस्रम् । अध्यर्धस्यापि कृत्वसुचोऽन्यत्र सङ्ख्यात्वमस्तीति वृत्तिः । अध्यर्ध- साहस्रम् । (वा० ५-१-२१) । कर्षपरिमितं हेम सुवर्ण इति बिस्त इति चोच्यते । ठञो वा लुक् । अध्यर्धसुवर्णम् । अध्यर्ध- सौवर्णिकम् । अणो वा लुक् । अध्यर्धशतमानम् । अध्यर्धशातमानम् इत्यादि ॥ Sutra Prayogas -------------- * **चतुर्दश-साहस्रबलौ** (भट्टिकाव्यम्): `सङ्ख्यायाः संवत्सर` इत्युत्तरपदवृद्धिः । * **शत-साहस्र** (भट्टिकाव्यम्): `संख्यायाः संवत्सर` इत्युत्तरपदवृद्धिः।