73013: दिशोऽमद्राणाम्¶
Padacheda: दिशः | S | 5 | 1 |
अमद्राणाम् | S | 6 | 3 |
Sutrartha¶
Vasu English Summary¶
After a word denoting direction, the first vowel of the name of a country with the exception of मद्र gets वृद्धि before a तद्धित affix having an indicatory ञ् , ण् or क् ।
Vasu English Translation¶
After a word denoting direction, the first vowel of the name of a country with the exception of मद्र gets वृद्धि before a तद्धित affix having an indicatory ञ् , ण् or क् । As पूर्वपाञ्चालकः, अपरपाञ्चालकः, दक्षिणपाञ्चालकः, उत्तरपाञ्चालकः ((4.2.125), (4.2.107), (4.2.108). (6.2.105) accent). The Tadanta-vidhi applies here, as shown in the preceding sutra. Why do we say ‘denoting direction’? Observe पूर्वः पाञ्चालानां = पूर्वपञ्चालः, तत्र भवः, = पौर्वपञ्चालकः, आपरपञ्चालकः ॥ With मद्र we have पौर्वमद्रः, आपरमद्रः with अञ् (4.2.108). The separation of this sutra from the last is for the sake of the subsequent sutra.
Kashika¶
दिग्वाचिन उत्तरस्य जनपदवाचिनो मद्रवर्जितस्याचामादेरचो वृद्धिर्भवति तद्धिते ञिति णिति किति च परतः। पूर्वपाञ्चालकः। अपरपाञ्चालकः। दक्षिणपाञ्चालकः। पूर्ववत् (७.३.१२) तदन्तविधिः प्रत्ययश्च। दिश इति किम्? पूर्वः पञ्चालानां पूर्वपञ्चालः, तत्र भवः पौर्वपञ्चालकः। आपरपञ्चालकः। अमद्राणामिति किम्? पौर्वमद्रः। आपरमद्रः। मद्रेभ्योऽञ् (४.२.१०८) इत्यञ्प्रत्ययः॥
Siddhanta Kaumudi¶
दिग्वाचकाज्जनपदवाचिनो वृद्धिः । पूर्वपाञ्चालकः । दिशः किम् । पूर्वपञ्चालानामयं पौर्वपञ्चालः । अमद्राणां किम् । पौर्वमद्रः । योगविभाग उत्तरार्थः ॥
Balamanorama¶
दिशोऽमद्राणाम् - दिशोऽमद्राणाम् ।अमद्राणा॑मिति च्छेदः । दिग्वाचकादिति ।परस्ये॑ति शेषः । जनपदवाचिन इति । मद्रवाचिभिन्नस्येत्यपि बोध्यम् । वृद्धिरिति ।आदे॑रिति शेषः । पौर्वपञ्चाल इति । अत्र पूर्वशब्दः कालवाचीति भावः । पौर्वमद्र इति ।मद्रेभ्योऽञि॑त्यञ् । ननुसुसर्वार्धदिशो जनपदस्याऽमद्राणा॑मित्येकसूत्रमेवास्त्वित्यत आह — योगविभाग उत्तरार्थ इति ।प्राचां ग्रामनगराणा॑मित्युत्तरसूत्रे दिश एव संबन्धो यथा स्यादित्येवमर्थमित्यर्थः । एकसूत्रत्वे तु सुसर्वादिभ्यः परस्यापि मद्रशब्दस्य पर्युदासः प्रसज्येतेति इहार्थोऽपीत्येके ।
Tattvabodhini¶
दिशोऽमद्राणाम् - दिशो । पौर्वमद्रैति ।मद्रेभ्योऽ॑ञित्यञ् । पूर्वाह्णक इथि ।विभाषा पूर्वाह्णापराह्णाभ्या॑मित्यस्यापवादः ।
Padamanjari¶
पूर्वपाञ्चालक इति । तद्धितार्थे समासः । पौर्वपञ्चालक इति । अवयववाच्यत्र पूर्वशब्दः, एकदेशिसमासाद् वुञ्प्रत्ययः । अदिक्शब्दत्वाद् आदिवृद्धिरेव भवति । यद्येवम्, वुञापि न भवितव्यमदिक्शब्दत्वादेव ? अस्त्यत्र विशेषः, सुसर्वार्द्धाद्दिक्शब्देभ्य इति तदन्तविधौ शब्दग्रहणं क्रियते - दिशि दृष्टः शब्दो दिक्शब्द इत्येवं यथा विज्ञायेत, वृद्धिविधौ तु दिश इत्येतावदुच्यते । अन्ते त्वणन्तमेव प्रत्युदाहरणं पठन्ति ॥
Prakriyasarvasvam¶
दिक्शब्दात् परेषाममद्राणां जनपदानामुत्तरपदवृद्धिः स्यात् । पूर्वपाञ्चालकः । अपरपाञ्चालकः । मद्रात् तु मद्रेभ्योऽञि पौर्वमद्रः ॥
Sutra Prayogas¶
अब्रवीद्रामस् (भट्टिकाव्यम्): आदादिकस्य बुजो लडि ब्रुव ईट् इति ईटि रूपम्।
प्राब्रवीद्रामं (भट्टिकाव्यम्): ब्रुव ईट् इति लङि ईडागमः।