73012: सुसर्वार्धाज्जनपदस्य

Padacheda: सुसर्वार्धात् | S | 5 | 1 |

जनपदस्य | S | 6 | 1 |

Sutrartha


Vasu English Summary

After 1. सु 2. सर्व and 3. अर्ध the first vowel of the name of a country gets the वृद्धि when a तद्धित affix with an indicatory ञ् , ण् or क् follows.

Vasu English Translation

After 1. सु 2. सर्व and 3. अर्ध the first vowel of the name of a country gets the वृद्धि when a तद्धित affix with an indicatory ञ् , ण् or क् follows. As सुपाञ्चालकः, सर्वपाञ्चालकः and अर्धपाञ्चालकः, formed with वुञ् (4.2.125). This sutra also gives rise to the following rule सुसर्वार्धदिक् शब्देभ्यो जनपदस्य “The tadantavidhi applies to words denoting country, when the first member is सु, सर्व, अर्ध or a direction-denoting word”. As shown in the above examples, and for direction denoting words see the following sutra ((1.1. 72) Vartika Malabhashya).

Kashika

सु सर्व अर्ध इत्येतेभ्य उत्तरस्य जनपदवाचिन उत्तरपदस्याचामादेरचो वृद्धिर्भवति तद्धिते ञिति णिति किति च परतः। सुपाञ्चालकः। सर्वपाञ्चालकः। अर्धपाञ्चालकः। जनपदतदवध्योश्च (४.२.१२४), अवृद्धादपि बहुवचनविषयात् (४.२.१२५) इति वुञ्। सुसर्वार्धदिक्शब्देभ्यो जनपदस्य (महाभाष्य १.१८६) इति तदन्तविधिः॥

Siddhanta Kaumudi

उत्तरपदस्य वृद्धिः । सुपाञ्चालकः । सर्वपाञ्चालकः । अर्धपाञ्चालकः । जनपदतदवध्योः - (SK1348) इति वुञ् ।<!सुसर्वार्धदिक्शब्देभ्यो जनपदस्येति तदन्तविधिः !> (वार्तिकम्) ॥

Balamanorama

सुसर्वार्धाज्जनपदस्य - सुसर्वार्धाज्जनपदस्य । सु, सर्व, अर्ध इत्येतत्पूर्वस्य जनपदवाचिन इत्यर्थः । उत्तरपदस्य वृद्धिरिति । शेषपूरणम् । सुपाञ्चालक इति । सुपञ्चालेषु जात इत्यर्थः । जनपदेति ।जवपदतदवध्यो॑रित्यनुवृत्तौअवृद्धादपि बहुवचनविषया॑दिति वुञित्यर्थः । ननुअनृद्धादपी॑ति प्रत्ययविधौ कथं तदन्तविधिरित्यत आह — सुसर्वेति । सु, सर्व अर्ध, दिक्शब्द -एभ्यः परस्य जनपदवाचिन उपरि प्रत्ययविधौ तदन्तविधिरित्यर्थकेनयेन विधि॑रिति सूत्रभाष्यपठितवचनेन तदन्तविधिरित्यर्थः ।

Tattvabodhini

सुसर्वार्धाज्जनपदस्य - सुसर्वा । जनपदतदवध्योरितीति । तस्मिन्ननुवर्तमानेअवृद्धादपि बहुवचनविषया॑दित्यनेनेत्यर्थः ।

Padamanjari

जनपदवाचिन इति । स्वरूपग्रहणं तु न भवति; उतरसूत्रे मद्रप्रतिषेधात् । सुसर्वार्धेत्यादि । जनपदवाचिनः शब्दस्यानन्तरे प्रत्यये विधीयमाने तदन्तस्यापि ग्रहणं भवति, यदि सुप्रभृतिभ्यः परः सम्भवतीत्यर्थः ॥

Nyaas

जनपदस्य इति। नेवं स्वरूपग्रहणम्, उत्तरसूत्रे अमद्राणाम् (7.3.13) इति निषेधात्। उत्तरसूत्रेहीदमेव जनपदग्रहणमनुवर्तते, ततोऽत्र यदि स्वरूपग्रहणं स्यात्, मद्राणां प्रतिषेधोऽनर्थकः स्यात्, तस्मादर्थस्येदं ग्रहणम्, तेन जनपदवचिनः कार्यं विज्ञायत इत्याह - सुसर्वार्धं इत्येतेब्य उत्तरस्य जनपदवाचिनः इत्यादि। सुपाञ्चालकः इति। शोभनाः पञ्चाला इति प्रादिसमासः। सर्वपाञ्चालकः इति। पूर्वकालैक (2.1.48) इत्यादिना कर्मधारयः। अर्धपाञ्चालकः इति। अर्ध नपुंसकम् (2.2.2) इत्यर्धशब्देन तत्पुरुषः। सर्वत्र शैषिके जातादावर्थे तद्धितः। कथं जनपदात्? जनपदतदवद्योश्च (4.2.124) इत्युच्यमानः प्रत्ययस्तदन्ताद्भवति? इत्याह - सुसर्वार्धदिक्शब्देभ्यः इत्यादि॥

Prakriyasarvasvam

एभ्यः परस्य जनपदस्य वृद्धिकृत्तद्धिते परे उत्तरपदवृद्धिः स्यात् । सुपाञ्चालकः । सर्वपाञ्चालकः । अर्धपाञ्चालकः ॥

Sutra Prayogas

  • तृणेढु (भट्टिकाव्यम्): तृणह इम् ष्टुत्वम् ।

  • तृणेह्मीति (भट्टिकाव्यम्): तृणह इम् इति इमागमः।

  • अतृणेट् (भट्टिकाव्यम्): तस्य तृणह इम् इति हलुङयादिलोपः।

  • तृणेह्मि (भट्टिकाव्यम्): तृणह इम् इति इम्।