73013: दिशोऽमद्राणाम् ===================== **Padacheda:** दिशः | S | 5 | 1 | अमद्राणाम् | S | 6 | 3 | Sutrartha --------- **** Vasu English Summary -------------------- After a word denoting direction, the first vowel of the name of a country with the exception of मद्र gets वृद्धि before a तद्धित affix having an indicatory ञ् , ण् or क् । Vasu English Translation ------------------------ After a word denoting direction, the first vowel of the name of a country with the exception of मद्र gets वृद्धि before a तद्धित affix having an indicatory ञ् , ण् or क् । As पूर्वपाञ्चालकः, अपरपाञ्चालकः, दक्षिणपाञ्चालकः, उत्तरपाञ्चालकः ((4.2.125), (4.2.107), (4.2.108). (6.2.105) accent). The *Tadanta*-*vidhi* applies here, as shown in the preceding *sutra*. Why do we say 'denoting direction'? Observe पूर्वः पाञ्चालानां = पूर्वपञ्चालः, तत्र भवः, = पौर्वपञ्चालकः, आपरपञ्चालकः ॥ With मद्र we have पौर्वमद्रः, आपरमद्रः with अञ् (4.2.108). The separation of this *sutra* from the last is for the sake of the subsequent *sutra*. Kashika ------- दिग्वाचिन उत्तरस्य जनपदवाचिनो मद्रवर्जितस्याचामादेरचो वृद्धिर्भवति तद्धिते ञिति णिति किति च परतः। पूर्वपाञ्चालकः। अपरपाञ्चालकः। दक्षिणपाञ्चालकः। पूर्ववत् (७.३.१२) तदन्तविधिः प्रत्ययश्च। दिश इति किम्? पूर्वः पञ्चालानां पूर्वपञ्चालः, तत्र भवः पौर्वपञ्चालकः। आपरपञ्चालकः। अमद्राणामिति किम्? पौर्वमद्रः। आपरमद्रः। **मद्रेभ्योऽञ्** (४.२.१०८) इत्यञ्प्रत्ययः॥ Siddhanta Kaumudi ----------------- दिग्वाचकाज्जनपदवाचिनो वृद्धिः । पूर्वपाञ्चालकः । दिशः किम् । पूर्वपञ्चालानामयं पौर्वपञ्चालः । अमद्राणां किम् । पौर्वमद्रः । योगविभाग उत्तरार्थः ॥ Balamanorama ------------ **दिशोऽमद्राणाम्** - दिशोऽमद्राणाम् ।अमद्राणा॑मिति च्छेदः । दिग्वाचकादिति ।परस्ये॑ति शेषः । जनपदवाचिन इति । मद्रवाचिभिन्नस्येत्यपि बोध्यम् । वृद्धिरिति ।आदे॑रिति शेषः । पौर्वपञ्चाल इति । अत्र पूर्वशब्दः कालवाचीति भावः । पौर्वमद्र इति ।मद्रेभ्योऽञि॑त्यञ् । ननुसुसर्वार्धदिशो जनपदस्याऽमद्राणा॑मित्येकसूत्रमेवास्त्वित्यत आह — योगविभाग उत्तरार्थ इति ।प्राचां ग्रामनगराणा॑मित्युत्तरसूत्रे दिश एव संबन्धो यथा स्यादित्येवमर्थमित्यर्थः । एकसूत्रत्वे तु सुसर्वादिभ्यः परस्यापि मद्रशब्दस्य पर्युदासः प्रसज्येतेति इहार्थोऽपीत्येके । Tattvabodhini ------------- **दिशोऽमद्राणाम्** - दिशो । पौर्वमद्रैति ।मद्रेभ्योऽ॑ञित्यञ् । पूर्वाह्णक इथि ।विभाषा पूर्वाह्णापराह्णाभ्या॑मित्यस्यापवादः । Padamanjari ----------- पूर्वपाञ्चालक इति । तद्धितार्थे समासः । पौर्वपञ्चालक इति । अवयववाच्यत्र पूर्वशब्दः, एकदेशिसमासाद् वुञ्प्रत्ययः । अदिक्शब्दत्वाद् आदिवृद्धिरेव भवति । यद्येवम्, वुञापि न भवितव्यमदिक्शब्दत्वादेव ? अस्त्यत्र विशेषः, सुसर्वार्द्धाद्दिक्शब्देभ्य इति तदन्तविधौ शब्दग्रहणं क्रियते - दिशि दृष्टः शब्दो दिक्शब्द इत्येवं यथा विज्ञायेत, वृद्धिविधौ तु दिश इत्येतावदुच्यते । अन्ते त्वणन्तमेव प्रत्युदाहरणं पठन्ति ॥ Prakriyasarvasvam ----------------- दिक्शब्दात् परेषाममद्राणां जनपदानामुत्तरपदवृद्धिः स्यात् । पूर्वपाञ्चालकः । अपरपाञ्चालकः । मद्रात् तु मद्रेभ्योऽञि पौर्वमद्रः ॥ Sutra Prayogas -------------- * **अब्रवीद्रामस्** (भट्टिकाव्यम्): `आदादिकस्य बुजो लडि ब्रुव ईट्` इति ईटि रूपम्। * **प्राब्रवीद्रामं** (भट्टिकाव्यम्): `ब्रुव ईट्` इति लङि ईडागमः।