73012: सुसर्वार्धाज्जनपदस्य =========================== **Padacheda:** सुसर्वार्धात् | S | 5 | 1 | जनपदस्य | S | 6 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- After 1. सु 2. सर्व and 3. अर्ध the first vowel of the name of a country gets the वृद्धि when a तद्धित affix with an indicatory ञ् , ण् or क् follows. Vasu English Translation ------------------------ After 1. सु 2. सर्व and 3. अर्ध the first vowel of the name of a country gets the वृद्धि when a तद्धित affix with an indicatory ञ् , ण् or क् follows. As सुपाञ्चालकः, सर्वपाञ्चालकः and अर्धपाञ्चालकः, formed with वुञ् (4.2.125). This *sutra* also gives rise to the following rule सुसर्वार्धदिक् शब्देभ्यो जनपदस्य "The *tadantavidhi* applies to words denoting country, when the first member is सु, सर्व, अर्ध or a direction-denoting word". As shown in the above examples, and for direction denoting words see the following *sutra* ((1.1. 72) *Vartika* *Malabhashya*). Kashika ------- सु सर्व अर्ध इत्येतेभ्य उत्तरस्य जनपदवाचिन उत्तरपदस्याचामादेरचो वृद्धिर्भवति तद्धिते ञिति णिति किति च परतः। सुपाञ्चालकः। सर्वपाञ्चालकः। अर्धपाञ्चालकः। **जनपदतदवध्योश्च** (४.२.१२४), **अवृद्धादपि बहुवचनविषयात्** (४.२.१२५) इति वुञ्। सुसर्वार्धदिक्शब्देभ्यो जनपदस्य (महाभाष्य १.१८६) इति तदन्तविधिः॥ Siddhanta Kaumudi ----------------- उत्तरपदस्य वृद्धिः । सुपाञ्चालकः । सर्वपाञ्चालकः । अर्धपाञ्चालकः । जनपदतदवध्योः - (SK1348) इति वुञ् । (वार्तिकम्) ॥ Balamanorama ------------ **सुसर्वार्धाज्जनपदस्य** - सुसर्वार्धाज्जनपदस्य । सु, सर्व, अर्ध इत्येतत्पूर्वस्य जनपदवाचिन इत्यर्थः । उत्तरपदस्य वृद्धिरिति । शेषपूरणम् । सुपाञ्चालक इति । सुपञ्चालेषु जात इत्यर्थः । जनपदेति ।जवपदतदवध्यो॑रित्यनुवृत्तौअवृद्धादपि बहुवचनविषया॑दिति वुञित्यर्थः । ननुअनृद्धादपी॑ति प्रत्ययविधौ कथं तदन्तविधिरित्यत आह — सुसर्वेति । सु, सर्व अर्ध, दिक्शब्द -एभ्यः परस्य जनपदवाचिन उपरि प्रत्ययविधौ तदन्तविधिरित्यर्थकेनयेन विधि॑रिति सूत्रभाष्यपठितवचनेन तदन्तविधिरित्यर्थः । Tattvabodhini ------------- **सुसर्वार्धाज्जनपदस्य** - सुसर्वा । जनपदतदवध्योरितीति । तस्मिन्ननुवर्तमानेअवृद्धादपि बहुवचनविषया॑दित्यनेनेत्यर्थः । Padamanjari ----------- जनपदवाचिन इति । स्वरूपग्रहणं तु न भवति; उतरसूत्रे मद्रप्रतिषेधात् । सुसर्वार्धेत्यादि । जनपदवाचिनः शब्दस्यानन्तरे प्रत्यये विधीयमाने तदन्तस्यापि ग्रहणं भवति, यदि सुप्रभृतिभ्यः परः सम्भवतीत्यर्थः ॥ Nyaas ----- `जनपदस्य` इति। नेवं स्वरूपग्रहणम्, उत्तरसूत्रे `अमद्राणाम्` (7.3.13) इति निषेधात्। उत्तरसूत्रेहीदमेव जनपदग्रहणमनुवर्तते, ततोऽत्र यदि स्वरूपग्रहणं स्यात्, मद्राणां प्रतिषेधोऽनर्थकः स्यात्, तस्मादर्थस्येदं ग्रहणम्, तेन जनपदवचिनः कार्यं विज्ञायत इत्याह - `सुसर्वार्धं इत्येतेब्य उत्तरस्य जनपदवाचिनः` इत्यादि। `सुपाञ्चालकः` इति। शोभनाः पञ्चाला इति प्रादिसमासः। `सर्वपाञ्चालकः` इति। `पूर्वकालैक` (2.1.48) इत्यादिना कर्मधारयः। `अर्धपाञ्चालकः` इति। `अर्ध नपुंसकम्` (2.2.2) इत्यर्धशब्देन तत्पुरुषः। सर्वत्र शैषिके जातादावर्थे तद्धितः। कथं जनपदात्? `जनपदतदवद्योश्च` (4.2.124) इत्युच्यमानः प्रत्ययस्तदन्ताद्भवति? इत्याह - `सुसर्वार्धदिक्शब्देभ्यः` इत्यादि॥ Prakriyasarvasvam ----------------- एभ्यः परस्य जनपदस्य वृद्धिकृत्तद्धिते परे उत्तरपदवृद्धिः स्यात् । सुपाञ्चालकः । सर्वपाञ्चालकः । अर्धपाञ्चालकः ॥ Sutra Prayogas -------------- * **तृणेढु** (भट्टिकाव्यम्): `तृणह इम्` ष्टुत्वम् । * **तृणेह्मीति** (भट्टिकाव्यम्): `तृणह इम्` इति इमागमः। * **अतृणेट्** (भट्टिकाव्यम्): `तस्य तृणह इम्` इति हलुङयादिलोपः। * **तृणेह्मि** (भट्टिकाव्यम्): `तृणह इम्` इति इम्।