73010: उत्तरपदस्य

Padacheda: उत्तरपदस्य | S | 6 | 1 |

Sutrartha

अधिकारोऽयम् । इतः परम् ‘यथातथयथापुरयोः पर्यायेण’ (7.3.31) इति यावत् यत् किमपि उक्तमस्ति तत् उत्तरपदस्यैव भवति ।

सप्तमाध्यायस्य तृतीयपादस्य प्रारम्भिकानि 31 सूत्राणि ‘तद्धितेषु आदिवृद्धिः कुत्र भवति’ अस्मिन् विषये सिद्धान्तानि वदन्ति । अस्मिन्नेव प्रकरणे ‘उत्तरपदाधिकारः’ इति अयमधिकारः विद्यते । अस्मात् सूत्रात् आरभ्य प्रकरणस्य अन्तपर्यन्तम् (इत्युक्ते यथातथयथापुरयोः पर्यायेण (7.3.31) इति यावत्) यत् किमपि उच्यते, तत् समस्तपदस्य उत्तरपदस्यैव भवति, न अन्यत्र - इति अस्य अधिकारस्य अर्थः ।

Sutrartha (English)

This is an अधिकार, which spans till ‘यथातथयथापुरयोः पर्यायेण’ 7.3.31. Whatever is being told in this अधिकार happens only to an उत्तरपद.

Vasu English Summary

Up to यथातथयथापुरयोः पर्यायेण (7.3.31) inclusive, the substitution of वृद्धि will take place for the first vowel of the second member in a compound.

Vasu English Translation

Up to यथातथयथापुरयोः पर्यायेण (7.3.31) inclusive, the substitution of वृद्धि will take place for the first vowel of the second member in a compound. This is an adhikara sutra, and exerts governing influence upto (7.3.32) exclusive. The phrase “of the second member of the compound” should be supplied in all those sutras, to complete the sense. Thus in (7.3.11), the word उत्तरपदस्य should be supplied. As पूर्ववार्षिकं, अपरवार्षिकम्, पूर्वहैमनम्, अपरहैमनम् ॥

In those sutras, where the word denoting the first member is not exhibited in the Ablative case, as in (7.3.18), (7.3.19), (7.3.20), (7.3.21), the present sutra is absolutely necessary for causing the vriddhi of the second member. But in those sutras, where the first member is exhibited in the ablative case, as in (7.3.11) (अवयवात्), there this sutra is only explanatory (and not absolutely necessary), and serves also the purpose of placing such vriddhis under the category of ‘uttarapada-vriddhi’. This peculiar vriddhi is liable to certain rules of accent, as in (6.2.105). Hence the importance of the present aphorism in those sutras also, where the word is exhibited in the fifth case.

Bhashya

उत्तरपदस्य किमर्थमिदमुच्यते ? ॥ अवयवादृतोरिति वक्ष्यति तदुत्तरपदस्य यथा स्यादचामादेर्मा भूत् ॥ नैतदस्ति प्रयोजनम् । अवयवादिति पञ्ञ्चमी तत्राऽन्तरेणाप्युत्तरपदग्रहणमुत्तरपदस्यैव भविष्यति ॥ उत्तरार्थं तर्हि, - सुसर्वार्धाज्जनपदस्येति ॥ सुसर्वार्द्धादिति पञ्ञ्चमी ॥ दिशोऽमद्राणाम् (इति(1)) ॥ दिश इत्येव ॥ सङ्ख्यायाः संवत्सरसङ्ख्यस्य च (इति( 1)) ॥ सङ्ख्याया इति पञ्ञ्चमी । वर्षस्याभविष्यति ॥ सङ्ख्याया इत्येव ॥ इदं तर्हि प्रयोजनं - जे प्रोष्ठपदानाम् । उत्तरपदस्य यथा स्यात्पूर्वपदस्य(2) मा भूत् - प्रोष्ठपदासु जातः प्रोष्ठपादो ब्राह्मणः । तद्धितेष्वचामादिवृद्धेरुत्तरपदवृद्धिर्विप्रतिषेधेन द्व्याशीतिकाद्यर्थम् तद्धितेष्वचामादेरुत्तरपदवृद्धिर्भवति विप्रतिषेधेन ॥ किं प्रयोजनम् ? ॥ व्द्याशीतिकाद्यर्थम् । अचामादिवृद्धरेवकाशः - ऐतिकायनः औपगवः । उत्तरपदवृद्धेरवकाशः - द्विषाष्टिकम् त्रिषाष्टिकम् । इहोभयं प्राप्नोति - द्व्याशीतिकः त्र्याशीतिकः । उत्तरपदवृद्धिर्भवति विप्रतिषेधेन ॥ कः पुनरत्र विशेषोऽचामादिवृद्धौ सत्यामुत्तरपदवृद्धौ वा ? ॥ अयमस्ति विशेषः - यद्यत्राऽचामादिवृद्धिः स्यादैजागमः प्रसज्येत ॥ (उत्तरपदस्य) ॥

Kashika

उत्तरपदस्येत्ययमधिकारः, हनस्तोऽचिण्णलोः (७.३.३२) इति प्रागेतस्मात्। यदित ऊर्ध्वमनुक्रमिष्यामः, उत्तरपदस्येत्येवं तद् वेदितव्यम्। वक्ष्यति — अवयवादृतोः (७.३.११) — पूर्ववार्षिकम्। अपरवार्षिकम्। पूर्वहैमनम्। अपरहैमनम्। यत्र पञ्चमीनिर्देशो नास्ति जे प्रोष्ठपदानाम् (७.३.१८) इत्येवमादौ, तदर्थमुत्तरपदाधिकारः। पञ्चमीनिर्देशेष्वपि विस्पष्टार्थम्, वृद्धेश्च व्यपदेशार्थम्। उत्तरपदवृद्धौ सर्वं च (६.२.१०५) इत्युत्तरपदाधिकारे या वृद्धिरित्येवं विज्ञायते॥

Siddhanta Kaumudi

भारद्वाजदेशवाचिभ्यामाभ्यां छः । कृकणीयम् । पर्णीयम् । भारद्वाजे किम् । कार्कणम् । पार्णम् ॥

Balamanorama

उत्तरपदस्य - नञः शुचीआरः । आदिवृद्धिप्रकरणे उत्तरपदस्य पूर्वस्य तु वेत्यनुवृत्ताविदं सूत्रम् । आशौचम् - आशौचमिति । अशुचेरागतमित्यर्थः । ‘तत आगत’ इत्यणि पूर्वपदस्यादिवृद्धिविकल्पः । उक्त्रपदस्य तु नित्या आदिवृद्धिः । एवमग्रेऽपि अक्षेत्रज्ञात् अकुशलात् अनिपुणाच्च आगतमित्यर्थो बोध्यः । आनैआर्यमित्यत्र तु ब्राआहृणादित्वाद्भावे ष्यञ् ।

Padamanjari

उतरत्र ठचामादेःऽ इत्यनुवृतेरुतरपदस्याचामादेर्वृद्धिर्वेदितव्या । ननु चठवयवादृतोःऽ इत्यादौ ठवयवाद्ऽ इत्यादिका पञ्चमी, तत्रान्तरेणाप्युतरपदग्रहणमुतरपदस्यैव भविष्यति ? अत आह - यत्रेति । आदिपदेन’हृद्भगसिन्ध्वन्ते पूर्वपदस्य च’ , अनुशतिकादीनां चऽ,’देवताद्वन्द्वे च’ - इत्येतेषां ग्रहणम् । एषु योगेषु पञ्चमीनिर्देशाभावादसत्यस्मिन्नधिकारेऽङ्गस्याचामादेरचो वृद्धिः स्यात्, नोतरपदस्य । वचनं तु नियमार्थं स्यात् - ज एव प्रोष्ठपदानाम्, नान्यत्र । प्रोष्ठपदानामेव वा जे इति । वचनसामर्थ्याद्वा पूर्वपदस्यैवानाद्यचो वृद्धिविधानार्थं स्यात् । तस्मादेतदर्थमेवायमधिकारः कर्तव्यः । किमिदानीं पञ्चमीनिर्देशेष्वस्यानुयोग एव ? नेत्याह - पञ्चमीनिर्देशेष्वपीति । वृद्धेश्च व्यपदेशार्थमिति । उतरपदाधिकारे विहिता या वृद्धिरिति व्यपदेशो यथा स्यादित्येवमर्थमित्यर्थः । क्व पुनरेवंविधेन व्यपदेशेन प्रयोजनम् ? इत्यत आह - उतरपदवृद्धौ सर्वं चेत्यत्रेति । सर्वभासः, सर्वकार इत्यादौ मा भूदित्येवमर्थं तत्रैवमाश्रितम् ॥

Nyaas

अङ्गस्यचामादेरचो वृद्धौ प्राप्तायामिदमुच्यते। ननु च अवयवादृतौः (7.3.11) इत्यदौ पञ्चमीनिर्देशादन्तरेणाप्युत्तरपदाधिकारं तस्मादित्युत्तरस्य (1.1.67) इत्युत्तरपदस्यैव भविष्यति, तत्? किमुत्तरपदाधिकारेण? इतयत आह - यत्र - इत्यादि। आदिशब्देन ह्मद्भगसिन्ध्वन्ते पूर्वपदस्य (7.3.19) , अनुन्नतिकादीनाञ्च (7.3.20) , देवताद्वन्द्वे च (7.3.21) - इत्येवमादयो गृह्यन्ते। एषु पञ्चमीनिर्देशाभावादसत्युत्तरपदाधिकारोऽङ्गसयाचामादेरच एव वृद्धिः स्यात्, नोत्तरपदस्य। तस्मात्? तदर्थमुत्तरपदाधिकारः क्रियते।यद्येवम्, इह अवयवादृतोः (7.3.11) इत्येतन्नोपन्यसनीयम्, अत्र पञ्चमीनिर्देशस्य विद्यमानत्वात्? इति चोद्यमाशङ्क्यान्यार्थं क्रियमाणस्य यत्रापि पञ्चमीनिर्देशोऽस्ति, तत्रापि प्रासङ्किकं कार्यंमाह - पञ्चमीनिर्देशेष्वपि इत्यादि। प्रयोजनान्तरमपर्याह - वृद्धेश्च इत्यादि। उत्तरपदाधिकारे या विहिता वृद्धिरित्येष व्यपदेशो वृद्धेर्यथा स्यादित्यवमक्छञ्चोत्तरपदाधिकारः क्रियते। किं पुनः कारणमेवं वृद्धेरव्यपदेशः प्राथ्र्यते? इत्याह - उत्तरपदवृद्धौ इत्यादि। उत्तरपदाधिकारे विहिते वृद्धिमत्युत्तरपदे पूर्वपदस्यान्तोदात्तत्वं यथा स्यादित्येवमर्थम्। उत्तरपदवृद्धौ सर्वञ्च (6.2.105) इत्यत्रोत्तरपदाधिकारे या विहिता वृद्धिरित्येवं विधायते। एतत्कथं शक्यते विज्ञातुम्? यदि व्यपदेशार्थ उत्तरपदाधिकारः क्रियते, नान्यथा। तस्माद्व्यपदेशार्थश्चोत्तरपदाधिकारः कर्तव्यः॥ बाल-मनोरमाउत्तरपदस्य 1376, 7.3.10 उत्तरपदस्य। अधिकारोऽयमिति। सप्तमे आदिवृद्धिप्रकरणे एतदादिसूत्राणि। बाल-मनोरमानञः शुची�आरक्षेत्रज्ञकुशलनिपुणानाम् 1439, 7.3.10 नञः शुचीआरः। आदिवृद्धिप्रकरणे उत्तरपदस्य पूर्वस्य तु वेत्यनुवृत्ताविदं सूत्रम्। आशौचम् - आशौचमिति। अशुचेरागतमित्यर्थः। तत आगत इत्यणि पूर्वपदस्यादिवृद्धिविकल्पः। उक्त्रपदस्य तु नित्या आदिवृद्धिः। एवमग्रेऽपि अक्षेत्रज्ञात् अकुशलात् अनिपुणाच्च आगतमित्यर्थो बोध्यः। आनैआर्यमित्यत्र तु ब्राआहृणादित्वाद्भावे ष्यञ्।

Sutra Prayogas

  • अभीषयत (भट्टिकाव्यम्): भियो हेतुभये षुक् इति षुक्।