73010: उत्तरपदस्य ================= **Padacheda:** उत्तरपदस्य | S | 6 | 1 | Sutrartha --------- **अधिकारोऽयम् । इतः परम् 'यथातथयथापुरयोः पर्यायेण' (7.3.31) इति यावत् यत् किमपि उक्तमस्ति तत् उत्तरपदस्यैव भवति ।** सप्तमाध्यायस्य तृतीयपादस्य प्रारम्भिकानि 31 सूत्राणि 'तद्धितेषु आदिवृद्धिः कुत्र भवति' अस्मिन् विषये सिद्धान्तानि वदन्ति । अस्मिन्नेव प्रकरणे 'उत्तरपदाधिकारः' इति अयमधिकारः विद्यते । अस्मात् सूत्रात् आरभ्य प्रकरणस्य अन्तपर्यन्तम् (इत्युक्ते **यथातथयथापुरयोः पर्यायेण** (7.3.31) इति यावत्) यत् किमपि उच्यते, तत् समस्तपदस्य उत्तरपदस्यैव भवति, न अन्यत्र - इति अस्य अधिकारस्य अर्थः । Sutrartha (English) ------------------- This is an अधिकार, which spans till 'यथातथयथापुरयोः पर्यायेण' 7.3.31. Whatever is being told in this अधिकार happens only to an उत्तरपद. Vasu English Summary -------------------- Up to यथातथयथापुरयोः पर्यायेण (7.3.31) inclusive, the substitution of वृद्धि will take place for the first vowel of the second member in a compound. Vasu English Translation ------------------------ Up to यथातथयथापुरयोः पर्यायेण (7.3.31) inclusive, the substitution of वृद्धि will take place for the first vowel of the second member in a compound. This is an *adhikara* *sutra*, and exerts governing influence upto (7.3.32) exclusive. The phrase "of the second member of the compound" should be supplied in all those *sutras*, to complete the sense. Thus in (7.3.11), the word उत्तरपदस्य should be supplied. As पूर्ववार्षिकं, अपरवार्षिकम्, पूर्वहैमनम्, अपरहैमनम् ॥ In those *sutras*, where the word denoting the first member is not exhibited in the Ablative case, as in (7.3.18), (7.3.19), (7.3.20), (7.3.21), the present *sutra* is absolutely necessary for causing the *vriddhi* of the second member. But in those *sutras*, where the first member is exhibited in the ablative case, as in (7.3.11) (अवयवात्), there this *sutra* is only explanatory (and not absolutely necessary), and serves also the purpose of placing such *vriddhis* under the category of '*uttarapada*-*vriddhi*'. This peculiar *vriddhi* is liable to certain rules of accent, as in (6.2.105). Hence the importance of the present aphorism in those *sutras* also, where the word is exhibited in the fifth case. Bhashya ------- उत्तरपदस्य किमर्थमिदमुच्यते ? ॥ अवयवादृतोरिति वक्ष्यति तदुत्तरपदस्य यथा स्यादचामादेर्मा भूत् ॥ नैतदस्ति प्रयोजनम् । अवयवादिति पञ्ञ्चमी तत्राऽन्तरेणाप्युत्तरपदग्रहणमुत्तरपदस्यैव भविष्यति ॥ उत्तरार्थं तर्हि, - सुसर्वार्धाज्जनपदस्येति ॥ सुसर्वार्द्धादिति पञ्ञ्चमी ॥ दिशोऽमद्राणाम् (इति(1)) ॥ दिश इत्येव ॥ सङ्ख्यायाः संवत्सरसङ्ख्यस्य च (इति( 1)) ॥ सङ्ख्याया इति पञ्ञ्चमी । वर्षस्याभविष्यति ॥ सङ्ख्याया इत्येव ॥ इदं तर्हि प्रयोजनं - जे प्रोष्ठपदानाम् । उत्तरपदस्य यथा स्यात्पूर्वपदस्य(2) मा भूत् - प्रोष्ठपदासु जातः प्रोष्ठपादो ब्राह्मणः । तद्धितेष्वचामादिवृद्धेरुत्तरपदवृद्धिर्विप्रतिषेधेन द्व्याशीतिकाद्यर्थम् तद्धितेष्वचामादेरुत्तरपदवृद्धिर्भवति विप्रतिषेधेन ॥ किं प्रयोजनम् ? ॥ व्द्याशीतिकाद्यर्थम् । अचामादिवृद्धरेवकाशः - ऐतिकायनः औपगवः । उत्तरपदवृद्धेरवकाशः - द्विषाष्टिकम् त्रिषाष्टिकम् । इहोभयं प्राप्नोति - द्व्याशीतिकः त्र्याशीतिकः । उत्तरपदवृद्धिर्भवति विप्रतिषेधेन ॥ कः पुनरत्र विशेषोऽचामादिवृद्धौ सत्यामुत्तरपदवृद्धौ वा ? ॥ अयमस्ति विशेषः - यद्यत्राऽचामादिवृद्धिः स्यादैजागमः प्रसज्येत ॥ (उत्तरपदस्य) ॥ Kashika ------- उत्तरपदस्येत्ययमधिकारः, **हनस्तोऽचिण्णलोः** (७.३.३२) इति प्रागेतस्मात्। यदित ऊर्ध्वमनुक्रमिष्यामः, उत्तरपदस्येत्येवं तद् वेदितव्यम्। वक्ष्यति — **अवयवादृतोः** (७.३.११) — पूर्ववार्षिकम्। अपरवार्षिकम्। पूर्वहैमनम्। अपरहैमनम्। यत्र पञ्चमीनिर्देशो नास्ति **जे प्रोष्ठपदानाम्** (७.३.१८) इत्येवमादौ, तदर्थमुत्तरपदाधिकारः। पञ्चमीनिर्देशेष्वपि विस्पष्टार्थम्, वृद्धेश्च व्यपदेशार्थम्। **उत्तरपदवृद्धौ सर्वं च** (६.२.१०५) इत्युत्तरपदाधिकारे या वृद्धिरित्येवं विज्ञायते॥ Siddhanta Kaumudi ----------------- भारद्वाजदेशवाचिभ्यामाभ्यां छः । कृकणीयम् । पर्णीयम् । भारद्वाजे किम् । कार्कणम् । पार्णम् ॥ Balamanorama ------------ **उत्तरपदस्य** - नञः शुचीआरः । आदिवृद्धिप्रकरणे उत्तरपदस्य पूर्वस्य तु वेत्यनुवृत्ताविदं सूत्रम् । आशौचम् - आशौचमिति । अशुचेरागतमित्यर्थः । 'तत आगत' इत्यणि पूर्वपदस्यादिवृद्धिविकल्पः । उक्त्रपदस्य तु नित्या आदिवृद्धिः । एवमग्रेऽपि अक्षेत्रज्ञात् अकुशलात् अनिपुणाच्च आगतमित्यर्थो बोध्यः । आनैआर्यमित्यत्र तु ब्राआहृणादित्वाद्भावे ष्यञ् । Padamanjari ----------- उतरत्र ठचामादेःऽ इत्यनुवृतेरुतरपदस्याचामादेर्वृद्धिर्वेदितव्या । ननु चठवयवादृतोःऽ इत्यादौ ठवयवाद्ऽ इत्यादिका पञ्चमी, तत्रान्तरेणाप्युतरपदग्रहणमुतरपदस्यैव भविष्यति ? अत आह - यत्रेति । आदिपदेन'हृद्भगसिन्ध्वन्ते पूर्वपदस्य च' , अनुशतिकादीनां चऽ,'देवताद्वन्द्वे च' - इत्येतेषां ग्रहणम् । एषु योगेषु पञ्चमीनिर्देशाभावादसत्यस्मिन्नधिकारेऽङ्गस्याचामादेरचो वृद्धिः स्यात्, नोतरपदस्य । वचनं तु नियमार्थं स्यात् - ज एव प्रोष्ठपदानाम्, नान्यत्र । प्रोष्ठपदानामेव वा जे इति । वचनसामर्थ्याद्वा पूर्वपदस्यैवानाद्यचो वृद्धिविधानार्थं स्यात् । तस्मादेतदर्थमेवायमधिकारः कर्तव्यः । किमिदानीं पञ्चमीनिर्देशेष्वस्यानुयोग एव ? नेत्याह - पञ्चमीनिर्देशेष्वपीति । वृद्धेश्च व्यपदेशार्थमिति । उतरपदाधिकारे विहिता या वृद्धिरिति व्यपदेशो यथा स्यादित्येवमर्थमित्यर्थः । क्व पुनरेवंविधेन व्यपदेशेन प्रयोजनम् ? इत्यत आह - उतरपदवृद्धौ सर्वं चेत्यत्रेति । सर्वभासः, सर्वकार इत्यादौ मा भूदित्येवमर्थं तत्रैवमाश्रितम् ॥ Nyaas ----- अङ्गस्यचामादेरचो वृद्धौ प्राप्तायामिदमुच्यते। ननु च `अवयवादृतौः` (7.3.11) इत्यदौ पञ्चमीनिर्देशादन्तरेणाप्युत्तरपदाधिकारं **तस्मादित्युत्तरस्य** (1.1.67) इत्युत्तरपदस्यैव भविष्यति, तत्? किमुत्तरपदाधिकारेण? इतयत आह - `यत्र` - इत्यादि। आदिशब्देन `ह्मद्भगसिन्ध्वन्ते पूर्वपदस्य` (7.3.19) , `अनुन्नतिकादीनाञ्च` (7.3.20) , `देवताद्वन्द्वे च` (7.3.21) - इत्येवमादयो गृह्यन्ते। एषु पञ्चमीनिर्देशाभावादसत्युत्तरपदाधिकारोऽङ्गसयाचामादेरच एव वृद्धिः स्यात्, नोत्तरपदस्य। तस्मात्? तदर्थमुत्तरपदाधिकारः क्रियते।यद्येवम्, इह **अवयवादृतोः** (7.3.11) इत्येतन्नोपन्यसनीयम्, अत्र पञ्चमीनिर्देशस्य विद्यमानत्वात्? इति चोद्यमाशङ्क्यान्यार्थं क्रियमाणस्य यत्रापि पञ्चमीनिर्देशोऽस्ति, तत्रापि प्रासङ्किकं कार्यंमाह - `पञ्चमीनिर्देशेष्वपि` इत्यादि। प्रयोजनान्तरमपर्याह - `वृद्धेश्च` इत्यादि। उत्तरपदाधिकारे या विहिता वृद्धिरित्येष व्यपदेशो वृद्धेर्यथा स्यादित्यवमक्छञ्चोत्तरपदाधिकारः क्रियते। किं पुनः कारणमेवं वृद्धेरव्यपदेशः प्राथ्र्यते? इत्याह - `उत्तरपदवृद्धौ` इत्यादि। उत्तरपदाधिकारे विहिते वृद्धिमत्युत्तरपदे पूर्वपदस्यान्तोदात्तत्वं यथा स्यादित्येवमर्थम्। `उत्तरपदवृद्धौ सर्वञ्च` (6.2.105) इत्यत्रोत्तरपदाधिकारे या विहिता वृद्धिरित्येवं विधायते। एतत्कथं शक्यते विज्ञातुम्? यदि व्यपदेशार्थ उत्तरपदाधिकारः क्रियते, नान्यथा। तस्माद्व्यपदेशार्थश्चोत्तरपदाधिकारः कर्तव्यः॥ बाल-मनोरमाउत्तरपदस्य 1376, 7.3.10 उत्तरपदस्य। अधिकारोऽयमिति। सप्तमे आदिवृद्धिप्रकरणे एतदादिसूत्राणि। बाल-मनोरमानञः शुची�आरक्षेत्रज्ञकुशलनिपुणानाम् 1439, 7.3.10 नञः शुचीआरः। आदिवृद्धिप्रकरणे उत्तरपदस्य पूर्वस्य तु वेत्यनुवृत्ताविदं सूत्रम्। आशौचम् - आशौचमिति। अशुचेरागतमित्यर्थः। `तत आगत` इत्यणि पूर्वपदस्यादिवृद्धिविकल्पः। उक्त्रपदस्य तु नित्या आदिवृद्धिः। एवमग्रेऽपि अक्षेत्रज्ञात् अकुशलात् अनिपुणाच्च आगतमित्यर्थो बोध्यः। आनैआर्यमित्यत्र तु ब्राआहृणादित्वाद्भावे ष्यञ्। Sutra Prayogas -------------- * **अभीषयत** (भट्टिकाव्यम्): `भियो हेतुभये षुक्` इति षुक्।