73007: स्वागतादीनां च ===================== **Padacheda:** स्वागतादीनाम् | S | 6 | 3 | च | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- The prohibition and the augment ordained by न य्वाभ्यां पदान्ताभ्याम् पूर्वौ तु ताभ्यामैच् (7.3.3), do not apply also to स्वागत etc. Vasu English Translation ------------------------ The prohibition and the augment ordained by न य्वाभ्यां पदान्ताभ्याम् पूर्वौ तु ताभ्यामैच् (7.3.3), do not apply also to स्वागत etc. As स्वागतिकः, (= स्वागतमिति आह) स्वाध्वरिकः, (= स्वधरेण चरति) स्वाङ्गिः, व्याङ्गिः, व्याडिः (sons of *Svanga*, *Vyanga* and *Vyada*). व्यावहारिकः and स्वापतेयः (= स्वपतौ साधुः) ॥ The word व्यवहार does not mean reciprocity of action, for then it would have been governed by the last *sutra*. स्वपत being a compound with स्व, would have been governed by (7.3.4) as it is included in the *Dvaradi* list, hence its specific mention here. The following is the list of *svagatadi* words. 1 स्वागत, 2 स्वध्वर, 3 स्वङ्ग, 4 व्यङ्ग, 5 व्यड, 6 व्यवहार, 7 स्वपति ॥ Kashika ------- स्वागत इत्येवमादीनां यदुक्तं तद् न भवति। स्वागतमित्याह स्वागतिकः। स्वध्वरेण चरति स्वाध्वरिकः। स्वङ्गस्यापत्यं स्वाङ्गिः। व्यङ्गस्यापत्यं व्याङ्गिः। व्यडस्यापत्यं व्याडिः। व्यवहारेण चरति व्यावहारिकः। व्यवहारशब्दोऽयं लौकिके वृत्ते वर्तते, न तु कर्मव्यतिहारे। स्वपतौ साधुः स्वापतेयः। द्वारादिषु स्वशब्दपाठादत्र प्राप्तिः॥ स्वागत। स्वध्वर। स्वङ्ग। व्यङ्ग। व्यड। व्यवहार। स्वपति। स्वागतादिः॥ Siddhanta Kaumudi ----------------- ऐच् न स्यात् । स्वागतमित्याह स्वागतिकः । स्वाध्वरिकः । स्वङ्गस्यापत्यं स्वाङ्गिः । व्यङ्गस्यापत्यं व्याङ्गिः । व्यडस्यापत्यं व्याडिः ॥ व्याहरेण चरति व्यावहारिकः । स्वपतौ साधु स्वापतेयम् । (वार्तिकम्) ॥ प्रभूतमाह प्राभूतिकः । पार्याप्तिकः । (वार्तिकम्) ॥ सुस्नातं पृच्छति सौस्नातिकः । सौखशायनिकः । अनुशतिकादिः । गच्छतौ परदारादिभ्यः ॥ पारदारिकः । गौरुतल्पिकः ॥ Balamanorama ------------ **स्वागतादीनां च** - स्वागतादिगणे-स्वागत, स्वध्वर इति पठितं, तत्र विशेषमाह — स्वागतादीनां च ।न य्वाभ्यां पदान्ताभ्यां पूर्वौ तु ताभ्यामैच॑ इति प्रकरणे 'न कर्मव्यतिहारे' इत्यस्मादुत्तरं सूत्रमिदम् । ऐज्न स्यादिति । शेषपूरणमिदम् ।न य्वाभ्यां पदान्ताभ्यां पूर्वौ तु ताभ्यामैच॑ इति प्राप्त ऐज्न स्यादित्यर्थः । स्वाध्वरिक इति । स्वध्वर इत्याहेत्यर्थः । अथ स्वागतादिगणशेषमुदाहरति — स्वङ्गस्येति । व्याङ्गिरिति । व्यङ्गस्यापत्यमिति विग्रहः । व्यडस्येति । न विद्यते डो यस्य स अडः, विगतोऽडो व्यडः । स्वापतेयमिति ।पथ्यतिथिवसतिस्वपतेर्ढञ् । द्वारादित्वादैच् प्राप्तो निषिध्यते । आहाविति । आहेति पदैकदेशादिकारस्य उच्चारणार्थो निर्देशः । तदिति पूर्ववार्तिकादनुवर्तते । आहेत्यर्थे द्वितीयान्तेभ्यः प्रभूतादिभ्यष्ठग्वाच्य इत्यर्थः । पार्याप्तिक इति । पर्याप्तमाहेत्यर्थः । पृच्छताविति ।त॑दित्यनुवर्तते । पृच्छतीत्यर्थे द्वितीयान्तेभ्यः सुस्नातादिभ्यष्ठग्वाच्य इत्यर्थः । सौखशायनिक इति । सुखशयनं पृच्छतीत्यर्थः । अनुशतिकादिरिति । 'सुखशयनशब्द' इति शेषः । ततश्चअनुशतिकादीनां चे॑ति पूर्वोत्तरपदयोरादिवृद्धिरिति भावः । गच्छताविति । तदित्यनुवर्तते । गच्छतीत्यर्थे परदारादिभ्यो द्वितीयान्तेभ्यष्ठगित्यर्थः । पारदारिक इति । परदारान्गच्छतीत्यर्थः । गौरुतल्पिक इति । गुरुतल्पं गच्छतीत्यर्थः । गुरुतल्पो=गुरुस्त्री । Tattvabodhini ------------- **स्वागतादीनां च** - स्वपतेयमिति ।पथ्यतिथि वसतिस्वपतेर्ढञ॑ । स्वशब्दस्य द्वारादित्वादैजागमस्य प्राप्तिः । द्वारादित्वफलं तु स्वस्येदंसौव॑मिति ज्ञेयम् ।आहौ प्रभूतादिभ्यः । आहाविति ।उपसङ्ख्यान॑मित्यनुषज्यते । आहेतिपदे एकदेशस्य प्रकृतिभागस्यागन्तुकेनेकारेणआहा॑वित्यनुकरणम् । प्राभूतिक इति । क्रियाविशेषणाद्वक्तरि प्रत्ययः । Padamanjari ----------- व्यावक्रोशीत्यादौ व्यवपूर्वो धातुः कर्मव्यतिहारे दृष्ट इति व्यवहारशब्दोऽपि कर्मव्यतिहारे वर्तते, ततश्च पूर्वेणैवात्र सिद्धेरत्रास्य पाठोऽनर्थक इत्याशङ्क्याह - व्यवहारशब्दोऽयमिति । द्वारादिषु स्वशब्दस्य पाटादत्र प्रसङ्ग इति ।'तदादेरपि तत्र ग्रहणं भवति' इत्युक्तमेव ॥ Nyaas ----- `स्वागतिकः` इति। शोभनमागतं स्वागतम्। `तदाहेत्यादौ प्रभूतादिब्य उपसंख्यानम्` (वा।483) इति ठक्। `स्वाध्वरिकः` इति। अत्रापि `चरति` (4.4.8) इति ठक्। शोभनोऽध्वरः स्वध्वरः। `स्वाङ्गिः` इत्यादि। `स्वाङ्गिण्र्याडिः` इति। `अत इङ्` (4.1.95) । शोभनान्यङ्गान्यस्य स्वङ्गः, विगतान्यङ्गान्यस्य व्यङ्गः, विगतोऽडोऽस्य व्यङः। व्यवहरणं व्यवहारः, भावे घञ्। ननु च व्यवहारशब्दोऽयं क्रमव्यतीहारे वर्तते, तत्र `न कर्मव्यतीहारे` (7.3.6) इति प्रतिषेधः सिद्धः, तत्? कस्मादिह पठते? इत्याह - `व्यवहारशब्दोऽयम्` इति। किं पुनर्लौकिकम्? लौकिकं पुनर्वृत्तं येनाचारेण व्यवहाराल्लोके व्यावहारिक इत्युच्यते तद्वेदितव्यम्। `स्वापतेयम्` इति। **पथ्यतिथिवसतिस्वपतेर्ढञ्** (4.4.104) । कथं पुनरत्र प्राप्तिः, यावता नास्य वकारः पदन्तः? इत्याह - `द्बारादिषु स्वशब्दपाठादस्य प्राप्तिः` इति। तदादिविधिनेत्यभिप्रायः। यता तदादिविधिर्भवति तथा तत्रैवोक्तम्॥ Prakriyasarvasvam ----------------- एषामैजागमो न स्यात् । एषु स्वङ्गव्यङ्गव्यडानां स्वाङ्गिः । व्याङ्गिः । व्याडिः ॥