73003: न य्वाभ्यां पदान्ताभ्याम् पूर्वौ तु ताभ्यामैच्

Padacheda: न | S | 0 | 0 |

य्वाभ्याम् | S | 5 | 2 |

पदान्ताभ्याम् | S | 5 | 2 |

पूर्वौ | S | 1 | 2 |

तु | S | 0 | 0 |

ताभ्याम् | S | 5 | 2 |

ऐच् | S | 1 | 1 |

Sutrartha


Vasu English Summary

Before a तद्धित affix with an indicatory ञ् , ण् or क् the वृद्धि is not substituted for the first vowel in a compound when it follows a word ending in य् or व् but ऐ and औ are respectively placed before the semi-vowels.

Vasu English Translation

Before a तद्धित affix with an indicatory ञ् , ण् or क् the वृद्धि is not substituted for the first vowel in a compound when it follows a word ending in य् or व् but ऐ and औ are respectively placed before the semi-vowels. That is ऐ is placed before य्, and औ before व् ॥ As वैयसनम् from व्यसन; (व्यसने भवं) वैयाकरणः from व्याकरणं (व्याकरणमधीते) सौवश्वः from स्वश्वः (स्वश्वस्यापत्यं) ॥ Why after य् or व् only? Observe त्रार्थिः son of त्रर्थः ॥ Why do we say ‘य् or व् final of a pada or word’? Observe याष्टीकः from यष्टिः, (यष्टिः प्रहरणमस्य) (4.4.59) याता from यति (यतेश्छात्राः or यत इमे छात्राः) ॥ The rule does not apply to दाध्यश्वि and माध्वश्वि, for no rule ordains the Vriddhi of ध्य the ध्व, and so no occasion for the prohibition of this rule arises. These are Patronyms formed by इञ् (4.1.95) from दध्यश्व and मध्वश्व (दधि प्रियोऽश्वोयस्य &c). The present rule applies to that Vriddhi also which takes place in the second member of the compound by (7.3.10) &c. As पूर्वत्रैयालिन्दः from पूर्वत्र्यलिन्द (पूर्वत्र्यलिन्दे भवः) ॥ But this prohibition does not apply where the य् or व् are not the parts of the second member, as द्व्याशीतिकः (= द्वे अशीती भूतो, भूतो भावी वा) ॥

Bhashya

न य्वाभ्यां पदान्ताभ्यां पूर्वौ तु ताभ्यामैच् य्वाभ्यां परस्याऽवृद्धित्वम्(1) य्वाभ्यां परस्याऽवृद्धित्वं सिद्धम् ॥ कुतः ? अपवादौ(1) वृद्धैर्हि तौ अपवादौ हि वृद्धेस्तावैचावुच्येते । नित्यावैचो तयोर्वृद्धिः अथ वा नित्यावैचो, कृतायामपि वृद्धौ प्राप्नुतोऽकृतायामपि ॥ नित्यत्वादैचोः कृतयोर्यद्यपि वृद्धिस्तयोरेव ॥ किमर्थं(1) नेति शिष्यते ? ॥ अथ किमर्थं प्रतिषेध उच्यते ? ॥ ऐचोर्विषयार्थं प्रतिषेधसन्नियुक्तवचनम्(2) ऐचोर्विषयार्थं प्रतिषेधसन्नियोगेनैचावुच्येते(1) यत्र य्वाभ्यां (3) पराऽवृद्धिस्तत्राध्यश्वर्यथा न तौ यत्र य्वाभ्यां परस्याऽवृद्धित्वमुच्यते तत्रैचौ यथा स्यातामिह मा भूताम् - आध्यश्विः दाध्यश्विः(2) माध्वश्विरिति ॥ नैतदस्ति प्रयोजनम् । अचामादेर्य्वाभ्यां हि(2) तौ अचामादिनाऽत्र य्वौ विशेषयिष्यामः-अचामादेर्यौ य्वाविति ॥ कथं द्व्याशीति के न तौ ॥ द्व्याशीतिकःइत्यत्र कस्मान्न तौ भवतः? यत्र वृद्धिरचामादेस्तत्रैचावत्र घोर्हि(4)सा यत्राऽचामादेरित्येवं वृद्धिस्तत्रैचावुच्येते । अत्र(5) घोरित्येवं वृद्धिः ॥ किमिदं घोरिति(4) ? ॥ उत्तरपदस्येति ॥ उत्तरपदाधिकारेऽप्यवश्यमैजागमोऽनुर्वत्यः पूर्वत्र्यलिन्दे भवः पूर्वत्रैयलिन्द इत्येवमर्थम् ॥ नैषः दोषः -उत्तरपदेनाऽत्राऽचामादिं विशेषयिष्यामोऽचामादिना य्वौ - उत्तरपदस्याचामादेर्यौ य्वा(1)विति ? अथ कस्मात्पदान्ताभ्यामथ किमर्थं पदान्ताभ्यामित्युच्यते ? यथेणो न भवेद्यणः(2) ॥ ॥ इणो यणादेशे मा भूत् - यतश्छात्रा याता इति ॥ इह वैयाकरणः शौवश्व इति शाकलं प्राप्नोति, य्वोश्च स्थानिवद्भावादायावौ प्राप्नुतः ? शाकलायावादेशेषु चोक्तम् (शकलायावादेशेषु(3) चोक्तम्) ॥ किमुक्तम् ? ॥ शाकले तावदुक्तम् - सिन्नित्यसमासयोः शाकलप्रतिषेध इति ॥ आयावोः किमुक्तम् ? ॥ अचः पूर्वविज्ञानादैचोः सिद्धमिति ॥ य्वाभ्यां परस्याऽवृद्धत्वमपवादौ वृद्धेर्हि तौ । नित्यावैचौ तयोर्वृद्धिः किमर्थं नेति शिष्यते ॥ यत्र य्वाभ्यां पराऽवृद्धिस्तत्राध्यश्वेर्यथा न तौ । अचामादेर्य्वाभ्यां हि तौ कथं व्द्याशीतिकेन तौ ॥ यत्र वृद्धिरचामादेस्तत्रैचावत्र य्वोर्हि सा । अथ कस्मात्पदान्ताभ्यां यथेणो न भवेद्यणः

Kashika

यकारवकाराभ्यां पदान्ताभ्याम् उत्तरस्याचामादेरचः स्थाने वृद्धिर्न भवति, ताभ्यां तु यकारवकाराभ्यां पूर्वमैजागमौ भवतो ञिति णिति किति च तद्धिते परतः। यकारादैकारः, वकारादौकारः। व्यसने भवं वैयसनम्। व्याकरणमधीते वैयाकरणः। स्वश्वस्यापत्यं सौवश्वः। य्वाभ्यामिति किम्? न्रर्थस्यापत्यं न्रार्थिः। पदान्ताभ्यामिति किम्? यष्टिः प्रहरणमस्य याष्टीकः। यतश्छात्रा याताः। प्रतिषेधवचनमैचोर्विषयप्रक्ऌप्त्यर्थम्, इह मा भूत् — दाध्यश्विः, माध्वश्विरिति। न ह्यत्र य्वाभ्यामुत्तरस्य वृद्धिप्रसङ्गोऽस्ति। वृद्धेरभावात् प्रतिषेधोऽपि नास्तीत्यप्रसङ्ग। उत्तरपदवृद्धेरप्ययं प्रतिषेध इष्यते। पूर्वत्र्यलिन्दे भवः पूर्वत्रैयलिन्दः। यत्र तूत्तरपदसंबन्धी यण् न भवति, तत्र नेष्यते प्रतिषेधः। द्वे अशीती भृतो भूतो भावी वा द्व्याशीतिकः॥

Siddhanta Kaumudi

पदान्ताभ्यां यकारवकाराभ्यां परस्य न वृद्धिः, किंतु ताभ्यां पूर्वौ क्रमादैचावागमौ स्तः । वैयासकिः । वारुडकिः । इत्यादि ॥

Laghu Siddhanta Kaumudi

पदान्ताभ्यां यकारवकाराभ्यां परस्य न वृद्धिः किं तु ताभ्यां पूर्वौ क्रमादैजावागमौ स्तः। व्याकरणमधीते वेद वा वैयाकरणः॥

Balamanorama

न य्वाभ्यां पदान्ताभ्याम् पूर्वौ तु ताभ्यामैच् - न य्वाभ्यां । य्च वश्च य्वाविति विग्रहः । वकारादकार उच्चारणार्थं । तदाह — यकारवकाराभ्यामिति ।परस्ये॑त्यध्याहारलभ्यम् । न वृद्धिरिति ।मृजेर्व-द्धि॑रित्यतस्तदनुवृत्तेरिति भावः । ‘तु’ शब्दो विशेषप्रदर्शनार्थ इत्याह — किंत्विति । ताभ्यामिति । यकारवकाराभ्यामित्यर्थः । पूर्वाविति । पूर्वावयवावित्यर्थः । तेन आगमत्वं लभ्यते । तदाह — ऐचावागमाविति । ऐच् — प्रत्याहारः । यथासङ्ख्यं यकारात्पूर्व ऐकारः, वकारात्पूर्व औकारः । वैयासकिरिति । वेदान्व्यस्यति=विवधमस्यति — शाखाभेदेन विभजतीति वेदव्यासः । कर्मण्यण् । अत्र नामैकदेशग्रहणम् । व्यासस्यापत्यमिति विग्रहः । इञ्प्रत्ययः । प्रकृतेरकडादेशः । अत्र यकारः पदान्तः । तस्मात्परस्य आकारस्य पर्जन्यवल्लक्षणप्रवृत्त्या आदिवृद्धिः प्राप्ता न भवति, किंतु यकारात्पूर्व ऐकार आगमः । वैयसकिरिति रूपम् । स्वआस्यापत्यं सौवइआरित्यत्र वकारात्परस्य न वृद्धिः, किन्तु ततः पूर्व औकारः । नच ऐचो वृद्द्यापवादत्वादेव वृद्ध्यभावसिद्धेस्तन्निषेधो व्यर्थ इति वाच्यं, यत्र य्वाभ्यां परस्य प्रसक्ताया वृद्धेर्निषेधस्तत्रैव ऐजागमाविति विषयनिर्देशार्थत्वात् । तेन दाध्यइआरित्यादौ न । वृद्धिनिषेधोऽयं येन नाप्राप्तिन्यायेन आदिवृद्धेरेव । तेन द्वे अशीती भृतो ‘द्व्याशीतिक’ इत्यत्रसङ्ख्यायाः संवत्सरसङ्ख्यस्य च॑ इत्युत्तरपदवृद्धिर्भवत्येव । वरुडादयो जातिविशेषाः । वारुडकिः । नैषादकिः । चाण्डालकिः । बैम्बकिः ।

Tattvabodhini

न य्वाभ्यां पदान्ताभ्याम् पूर्वौ तु ताभ्यामैच् - न य्वाभ्यां । य्वाभ्यां किम् । न अर्थो यस्य नार्थः, तस्यापत्यं नार्थिः । पदान्ताभ्यां किम् । याज्ञिकः । ऐचो विषयप्रदर्शनायने॑ति निषेधोक्तिः । तेनेह न -दाघ्यश्विः, माध्वश्विः । न ह्यत्र य्वाभ्यां परस्य बृद्धिप्रसक्तिरस्ति । क्वचित्तु वृद्धिप्रसक्तिसत्त्वेऽपि नेष्यते । द्वे अशीति भृतो भूतो भावी वा व्द्याशीतिकः । वारुडकिरिति । बरिजादयो जातिविशेषाः । वकारस्यापदान्तत्वात्न य्वाभ्या॑मित्यैज्न । इत्यादीति । नैषादकिः, चाण्डालकिः, बैम्बकिः ।

Padamanjari

अत्रार्थद्वयविधानाद्वाक्यभेदः, तस्यैव द्योतकस्तुशब्दः,’पूर्वौ’ इत्यनेन सम्बन्धादैचाविति प्राप्ते एकवचनं सौत्रम् । वृतौ तु क्रियाविशेषणत्वादेकवचनम् । ताभ्यां तु पूर्वमिति । ऐजागमो भवतीति । टित्वाद्यागमलिङ्गाभावेऽपि पूर्वशब्देन देशविशेषे भवन्नागम इत्युच्यते - आगच्छतीत्यागम इति । वैयसनमिति ।’गतिकारकोपपदानां प्राक्सुबुत्पतेः समासः’ इत्युतरपदविषयमित्यवीचाम । तेन वैयसनादिषु य्वोः पदान्तत्वम् । स्वश्वशब्दः शिवदिः । याष्टीक इति ।’शक्तियष्ट।लेरीकक्’ । ननु चात्राचामादेः स्थाने यौ य्वौ ताभ्यामित्याश्रयणाअदेव न भविष्यति ? तत्राह - यत इम इति । ‘इण् गतौ’ लटः शत्रादेशः, शपो लुक्, ठिणो यण्ऽ । इहासत्यपि प्रतिषेधे वैयसनमित्यादौ व्यसन अ अ इति स्थिते वृद्धिश्च प्राप्नोति, ऐजागमश्च; तत्र वृद्धिरनित्या, शब्दान्तरप्राप्तेः । सा ह्यएचि कृते तस्यैव प्राप्नोति; तन्मध्यपतितस्य तद्ग्रहणेन प्रहणात् । ऐजागमस्तु नित्य इति स एव तावद्भवति । तत्र कृते यद्यपि पुनः - प्रसङ्गविज्ञानाद् वृद्धिः, तथाप्यान्तर्यत ऐकारस्यैकारः, औकारस्यौकार इति न कश्चिद्दोषः, किं प्रतिषेधेन ! नन्वसति तस्मिन्, वैयाकरणी भार्या अस्य वैयाकरणभार्य इति’वृद्धिनिमितस्य’ इति पुंवद्भावप्रतिषेधः स्यात्, सति तु प्रतिषेधे न भवति; कथं न भवति, यावता वृद्धेर्निमितं ञणका यस्मिंस्तद्धित इति बहुव्रीहिः, विद्यते चात्र णकारः ? सत्यं विद्यते, निमितं तु न भवति;’कुर्वद्रूपे हि निमितशब्दो मुख्यः’ इत्युक्तम् । ननु च मा भूत्’तद्धितेष्वचामादेः’ इत्यस्या वृद्धेर्निमितम्, य एव त्वसौ णितद्धिताश्चय ऐज्विधीयते तस्यैव वृद्धिसंज्ञकस्य निमितं णकार इति स्यादेव पुंवद्भावप्रतिषेधः ? उच्यते; न हि वस्तुतो या वृद्धिस्तस्या यन्निमितं ञकारादिस्तद्वति प्रतिषेधः, किं तर्हि ? बृद्धिरित्येवं या विधीयते तन्निमिते । अतः पुंवद्भावप्रतिषेधनिवृत्यर्थं वृद्धेः प्रतिषेधो वक्तव्य एव ? न वक्तव्यः; एकस्मिन्नङ्गे विशेषविहितावैचौ सामान्यविहिताया वृद्धेर्बाधकौ भविष्यतः, सत्यपि सम्भवे बाधनं भवतीति न्यायात्; ततश्च पूर्ववत्पुंवद्भावप्रतिषेधो न भविष्यतीति’य्वाभ्यां पूर्वमैच्’ इत्येवास्तु, नार्थः प्रतिषेधेन ? इत्यत आह - प्रतिषेधवचनमिति । प्रतिषेधवचने सति याभ्यां य्वाभ्यां परस्य वृद्धिः प्राप्ता प्रतिषिध्यते, ताभ्यअमेव पूर्वावैचौ भवत इत्यर्थौ भवति, असति हि तस्मिन् यौ कौचन य्वौ गृह्यएयाताम् । तस्मादैचोर्विशिष्टो विषयः प्रल्कृप्तो यथा स्यादित्येवमर्थं प्रतिषेधवचनं क्रियत इत्यर्थः । दाध्यश्विः, माध्वश्विरिति। दधिप्रियोऽश्वो यस्य स दध्यश्वः । एवं मध्वश्वः, ताभ्याम् ठत इञ्ऽ । ननु च ठछामादेःऽ इत्यनेन य्वौ विशेषयिष्यामः - अचामादेरचः स्थाने यौ य्वाविति ? एवमपि द्वे अशीति अधीष्टः,’तद्धितार्थ’ इति समासः, तमधीष्ट इति’प्राग्वतेष्ठक्’ , द्व्याशीतिकः - अत्र प्राप्नोति । सति तु प्रतिषेधे’तद्धितेष्वचामादेः’ इत्यनुवृतेर्याभ्यां परस्य’तद्धितेष्वचामादेः’ इति वृद्धिः प्राप्ता प्रतिषिध्यते, ताभ्यामिति विज्ञायते; अत्र तु’संख्यायाः संवत्सरसंख्यस्य च’ इत्येवमुतरपदवृद्धिर्विधीयत इति तस्य निषेधाभावादैजागमाभावः सिद्धः । स्यादेतत् - अचामादेरित्यनुवृतं स्वरूपपरं सद् वृद्धेर्विशेषणम्, अचामादेरित्येवं या वृद्धिस्तस्याः प्रसङ्गे तदपवादौ य्वाभ्यां पूर्वमैचो भवत इत्यर्थः, इह तु नैवं वृद्धेः प्रसङ्ग इत्यैचौ न भविष्यत इति ? एवमपि य्वावविशेषितौ स्याताम्, ततश्च दाध्यश्वादौ प्रसङ्गः । न च सकृच्छ्4%अतमचामादेरित्येतदेवोभयं विशेषयितुमर्हति, येनाचामादेः स्थाने य्वौ ताभ्यां पूर्वावैचो भवतः, सति तस्मिन्नचामादेरित्येवं वृद्धेः प्रसङ्ग इत्याश्रयणान्न क्वापि दोषः स्यात् । न च तन्त्रावृत्येकशेषाणामन्यतमाश्रयणे प्रमाणमस्ति, तस्मात्सुष्ठूअक्तम् - प्रतिषेधवचनमैचोर्विषयप्रल्कृप्त्यर्थमिति । उतरपदवृद्धेरपीति । एतच्च तत्रालस्याधिकाराल्लभ्यते । यत्र त्विति । एतदप्युतरपदेन य्वोर्विशेषणाल्लभ्यते - उतरपदस्य यौ य्वौ ताभ्यां परस्य वृद्धिर्न भवति, ताभ्यां च पूर्वमैजागम इति । इह - इश्च अजश्च यजौ, उश्च अजश्च वजौ, तयोरिदं ऐयजम्, औवजमिति ऐचोरभक्तत्वादतन्मध्यपतितत्वाच्च अङ्गग्रहणेनाग्रहणादैयजीयम्, औवजीयमित्यादौ शेषनिघातो न स्यात्, शेषविवक्षायां च वृद्धाच्छाए न स्यात्, प्रातिपदिकस्यावृद्धत्वात् ? उच्यते; यद्येवंविधमभिधानमस्ति, ततः पूवशब्द आवर्तयितव्यः, तत्रैकोऽवयववचनः, अपरो व्यवस्थावचनः - य्वाभ्यां पूर्वावैचौ भवतस्तौ चाङ्गस्यावयवाविति। अत्र संग्रहश्लोकौ - नाप्राप्ताया हि वृद्धेः प्रतिपदविधिरैज्बाधको नञ् किमर्थो याभ्यां य्वाभ्यां परस्यैच् प्रसजति तत एवैष पूर्वो यथा स्यात् । मा दाध्यश्वादिके भूदिति ननु विहितौ यावचां स्थान आदे- र्य्वौ ताभ्यामैजिहैवं न भवतीति चेद् द्वे अशीति अधीष्टे ॥ स्यादैज् द्व्याशीतिकेऽङ्गाद्यचेति विहितस्यैवमैच्चेत्प्रसङ्गाद् य्वौ न स्यातां विशिष्टौ श्रुतमपि च सकृन्नोभयं भेतुमर्हम् । स्यादेतस्योतरत्राप्यधिकृतिरिह च य्वोः पदस्योतरस्यै- वं पूर्वत्रैयलिन्दे भवति, न च भवेद् द्वे अशीती अधीष्टे ॥

Nyaas

तद्धितेष्वचामादेः (7.2.117) इत्यादिना ञ्णिदादौ तद्धिते वृद्धौ प्राप्तायां प्रतिषेधोऽयमुच्यते, तत्सन्नियोगेनैजागमौ भवतः। यकारादैकारः इत्यादिना यतासंख्येन सम्बन्धं दर्शयति। वैयसनम् इति। असु क्षेपणे (धातुपाठः-1209)। विपूर्वाद्विशेषेणास्यते क्षिप्यते येनेति करणे ल्युट्, प्रादिसमासः, यणादेशः, तत, तत्र भवः (4.3.53) इत्यण्। तत्र यकारात्? पदान्तात्? परस्याकारस्य वृद्धिर्न भवति, तस्मात्? पूर्वमैजागमः। वैयाकरणः इति। विशेषेणाक्रियन्ते व्युत्पाद्यन्ते शब्दा अनेनेति करणे ल्युट्, व्याकरणमिति, प्रादिसमासः, ततः तदधीते तद्वेद (4.2.59) इत्यण्, तत्र पर्जन्यवल्लक्षणप्रवृत्त्या पदान्ताद्यकारात्? परसय या वृद्धिः प्राप्नोति सा न भवति, तस्मात्? पूर्वमैजागमः। सौवआः इति। शोभनोऽआः स्वआः, पूर्ववत्? समासः, ततोऽपत्यर्थे शिवाद्यण्? (4.1.112) । अत्र वकारात्? पदान्तात्? परस्य वृद्धिर्न भवति, तस्मात्? पूर्वमैजागमो भवति। आर्थिः इति। ना अर्थो यस्य स अर्थः, तस्यापत्यम्? उत इञ् (4.1.95) । याष्टकः इति। शक्तियष्टओरीकक् (4.4.59) । याताः इति। इणः परस्य लटः शत्रादेशः, इणो यण् (6.4.81) इति यण्, ततः तस्येदम् (4.3.120) इत्यण्। तत्रोभयत्रापि यकारस्य पदान्तता भविष्यतः, यथा - ब्राआहृणेभ्यो दधि दीयतां तक्रं कौण्डिन्याय इति दधिदानस्य तक्रदानां बाधकम्। अथापि बाधगौ न स्याताम्, तथापि नित्यत्वादैचोः कृतयो पश्चाद्वृर्भवन्ती तयोरेव भविष्यतीति। न चात्र शब्दान्तरप्राप्त्या तयोरप्यैचोरनित्यत्वमाशङ्कनीयम्, न हि तौ शब्दान्तरसय विधीयेते, अपि त्वभकतावेव य्वाभ्यां पूर्वौ। यद्यपि शब्दातन्तरस्य प्राप्तिः स्यात्, तथापि द्वयोरनित्ययोः परत्वादैचोः कृतयोः सकृद्गतौ विप्रतिषेधे यद्बाधितं तद्बाधितमेव` (व्या।प।40) इति पुनर्वृद्धिर्न भवति। यद्यपि पुनःप्रसङ्गविज्ञानाद्वृद्धिः स्यात्; तथापीष्टसिद्धिः स्यादेव; विशेषाभावादित्यत आह - प्रतिषेधवचनम् इत्यादि। प्रक्लृतिः=प्रकल्पनम्, व्यवस्येत्यर्थः। यत्र य्वाभ्यां परस्य वृद्धेः प्रतिषेधः स एवैचोर्विषयः कथन्नाम प्रकल्पेतव्यवतिष्ठेतेत्येवमर्थः। प्रतिषेध उच्यते, किमर्थं पुनरै चोर्विषयपरकॢप्तिः क्रियते? इत्यत आह - इह मा भत् इति। यदि प्रतषेधवचनेनैचोर्विषयन्यवस्था न क्रियेत, तदा दाध्यश्विः, माध्वइआरित्यत्रापि स्यात्। अतो मा भूदेष दोष इति प्रतिषेधवचनेनैचोर्विषयन्यवसथा क्रियते। दधिप्रियोऽआओ दध्यआः मधुप्रियोऽआओ मध्यआः। सामानाधिकरणाधिकारे शापकपार्थिवादीनां समास उत्तरपदलोपश्च (वा।83) इति मध्यमपदलोपौ समासः। अथ क्रियमाणे प्रतिषेधवचने कस्मादेवात्र न भवति, यावता य्वाभ्यां परस्य वृद्धिर्नास्ति? इत्यत आह - न ह्यत्र इत्यादि। प्रसङ्गे हि सति वृद्धेः प्रतिषेधो भवति, नासति; न चात्र य्वाभ्यां परस्य वृद्धेः प्रसङ्गोऽस्ति, अतः प्रतेषेधो नास्त्येवेत्यभिप्रायः। ननु च अचामादेः (7.2.117) इत्यनुवर्तते, तेन य्वौ विशिष्येते - अचामादेरचः स्थाने यौ य्वादिति। न च दध्यइआरित्यादावेवंविधौ तौ स्त इति। न चात्रैचो भविष्यतः, अतो नार्थः? नैतदस्ति; एवं हयचामादिग्रहणम्, तेन यदि य्वौ विशिष्येते तदा वृद्धिरविशेषिता स्यात्। ततश्चेहापि वृद्धेः प्रतिषेधः स्यात् - द्वे अशीती भृतो भृतो भावी वा प्राग्वतेष्ठञ् (5.1.18) द्व्याशौतिक इति। अथ वृद्धिर्विशिष्यते - अचामादेरित्येवं वा वृद्धिः, ततो न भवत्येष दोषः। न ह्यत्राचामादेरित्येवं वृद्धिः, किं तर्हि? संख्याया संवत्सरसंख्यस्य च (7.3.15) इत्येवम्। किं तर्हि य्वौ न विशेषितौ स्याताम्? ततश्च दाध्यइआरित्यादावैचौ स्यातामेव। तस्मात्? तयोर्विषयव्यवस्थार्थं नेति वक्तव्यम्। उत्तरपदवृद्धेरप्ययं प्रतिषेध इष्यते इति। स चोत्तरपदाधिकारेऽस्यानुवर्तमानत्वाल्लभ्यते। पूर्वत्रैयलिन्दे इति। अत्र विशोऽमद्राणाम् (7.3.13) इत्युत्तरपदवृद्धौ प्राप्तायां प्रतिषेधः। यद्युत्तरपदवृद्धेरप्ययं प्रतिषेधः, तदा द्व्याशीतिक इत्यत्रापि संख्यायाः संवत्सरसंख्यस्य च (7.3.15) इति या वृद्धिरुत्तरपदस्य आप्तेत्यस्या अपि प्रतिषेधः स्यादित्यत आह - यत्र तु इत्यादि। कथं पुनरिष्यमाणोऽप्यत्र प्रतिषेधो न भवति? उत्तरपदस्याचामाद्येनाचा हि य्वोर्विशेषणत्वात्। उत्तरपदसम्बन्दी योऽचामादिरच्? तस्य स्थाने यो य्वौ ताभ्यामुत्तरपदस्य वृद्धिर्न भवति। न च द्व्याशीतिक इत्यत्रोत्तरपदस्याचामादेरचः स्थाने यकार इति नात्र वृद्धेः प्रतिषेधो भवतीति॥

Prakriyasarvasvam

पदान्ताभ्यां यकारवकाराभ्यां परस्याद्यचो वृद्धिर्न ताभ्यां पूर्वौ त्वैचावा- गमौ स्तः । व्याघ्र इत्यत्र वि इत्युपसर्गस्य सौ कृते पदत्वं, यणादेशेन यकारस्य पदान्तत्वं वैयाघ्रिः ॥