73003: न य्वाभ्यां पदान्ताभ्याम् पूर्वौ तु ताभ्यामैच् ===================================================== **Padacheda:** न | S | 0 | 0 | य्वाभ्याम् | S | 5 | 2 | पदान्ताभ्याम् | S | 5 | 2 | पूर्वौ | S | 1 | 2 | तु | S | 0 | 0 | ताभ्याम् | S | 5 | 2 | ऐच् | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- Before a तद्धित affix with an indicatory ञ् , ण् or क् the वृद्धि is not substituted for the first vowel in a compound when it follows a word ending in य् or व् but ऐ and औ are respectively placed before the semi-vowels. Vasu English Translation ------------------------ Before a तद्धित affix with an indicatory ञ् , ण् or क् the वृद्धि is not substituted for the first vowel in a compound when it follows a word ending in य् or व् but ऐ and औ are respectively placed before the semi-vowels. That is ऐ is placed before य्, and औ before व् ॥ As वैयसनम् from व्यसन; (व्यसने भवं) वैयाकरणः from व्याकरणं (व्याकरणमधीते) सौवश्वः from स्वश्वः (स्वश्वस्यापत्यं) ॥ Why after य् or व् only? Observe त्रार्थिः son of त्रर्थः ॥ Why do we say 'य् or व् final of a *pada* or word'? Observe याष्टीकः from यष्टिः, (यष्टिः प्रहरणमस्य) (4.4.59) याता from यति (यतेश्छात्राः or यत इमे छात्राः) ॥ The rule does not apply to दाध्यश्वि and माध्वश्वि, for no rule ordains the *Vriddhi* of ध्य the ध्व, and so no occasion for the prohibition of this rule arises. These are Patronyms formed by इञ् (4.1.95) from दध्यश्व and मध्वश्व (दधि प्रियोऽश्वोयस्य &c). The present rule applies to that *Vriddhi* also which takes place in the second member of the compound by (7.3.10) &c. As पूर्वत्रैयालिन्दः from पूर्वत्र्यलिन्द (पूर्वत्र्यलिन्दे भवः) ॥ But this prohibition does not apply where the य् or व् are not the parts of the second member, as द्व्याशीतिकः (= द्वे अशीती भूतो, भूतो भावी वा) ॥ Bhashya ------- न य्वाभ्यां पदान्ताभ्यां पूर्वौ तु ताभ्यामैच् य्वाभ्यां परस्याऽवृद्धित्वम्(1) य्वाभ्यां परस्याऽवृद्धित्वं सिद्धम् ॥ कुतः ? अपवादौ(1) वृद्धैर्हि तौ अपवादौ हि वृद्धेस्तावैचावुच्येते । नित्यावैचो तयोर्वृद्धिः अथ वा नित्यावैचो, कृतायामपि वृद्धौ प्राप्नुतोऽकृतायामपि ॥ नित्यत्वादैचोः कृतयोर्यद्यपि वृद्धिस्तयोरेव ॥ किमर्थं(1) नेति शिष्यते ? ॥ अथ किमर्थं प्रतिषेध उच्यते ? ॥ ऐचोर्विषयार्थं प्रतिषेधसन्नियुक्तवचनम्(2) ऐचोर्विषयार्थं प्रतिषेधसन्नियोगेनैचावुच्येते(1) यत्र य्वाभ्यां (3) पराऽवृद्धिस्तत्राध्यश्वर्यथा न तौ यत्र य्वाभ्यां परस्याऽवृद्धित्वमुच्यते तत्रैचौ यथा स्यातामिह मा भूताम् - आध्यश्विः दाध्यश्विः(2) माध्वश्विरिति ॥ नैतदस्ति प्रयोजनम् । अचामादेर्य्वाभ्यां हि(2) तौ अचामादिनाऽत्र य्वौ विशेषयिष्यामः-अचामादेर्यौ य्वाविति ॥ कथं द्व्याशीति के न तौ ॥ द्व्याशीतिकःइत्यत्र कस्मान्न तौ भवतः? यत्र वृद्धिरचामादेस्तत्रैचावत्र घोर्हि(4)सा यत्राऽचामादेरित्येवं वृद्धिस्तत्रैचावुच्येते । अत्र(5) घोरित्येवं वृद्धिः ॥ किमिदं घोरिति(4) ? ॥ उत्तरपदस्येति ॥ उत्तरपदाधिकारेऽप्यवश्यमैजागमोऽनुर्वत्यः पूर्वत्र्यलिन्दे भवः पूर्वत्रैयलिन्द इत्येवमर्थम् ॥ नैषः दोषः -उत्तरपदेनाऽत्राऽचामादिं विशेषयिष्यामोऽचामादिना य्वौ - उत्तरपदस्याचामादेर्यौ य्वा(1)विति ? अथ कस्मात्पदान्ताभ्यामथ किमर्थं पदान्ताभ्यामित्युच्यते ? यथेणो न भवेद्यणः(2) ॥ ॥ इणो यणादेशे मा भूत् - यतश्छात्रा याता इति ॥ इह वैयाकरणः शौवश्व इति शाकलं प्राप्नोति, य्वोश्च स्थानिवद्भावादायावौ प्राप्नुतः ? शाकलायावादेशेषु चोक्तम् (शकलायावादेशेषु(3) चोक्तम्) ॥ किमुक्तम् ? ॥ शाकले तावदुक्तम् - सिन्नित्यसमासयोः शाकलप्रतिषेध इति ॥ आयावोः किमुक्तम् ? ॥ अचः पूर्वविज्ञानादैचोः सिद्धमिति ॥ य्वाभ्यां परस्याऽवृद्धत्वमपवादौ वृद्धेर्हि तौ । नित्यावैचौ तयोर्वृद्धिः किमर्थं नेति शिष्यते ॥ यत्र य्वाभ्यां पराऽवृद्धिस्तत्राध्यश्वेर्यथा न तौ । अचामादेर्य्वाभ्यां हि तौ कथं व्द्याशीतिकेन तौ ॥ यत्र वृद्धिरचामादेस्तत्रैचावत्र य्वोर्हि सा । अथ कस्मात्पदान्ताभ्यां यथेणो न भवेद्यणः Kashika ------- यकारवकाराभ्यां पदान्ताभ्याम् उत्तरस्याचामादेरचः स्थाने वृद्धिर्न भवति, ताभ्यां तु यकारवकाराभ्यां पूर्वमैजागमौ भवतो ञिति णिति किति च तद्धिते परतः। यकारादैकारः, वकारादौकारः। व्यसने भवं वैयसनम्। व्याकरणमधीते वैयाकरणः। स्वश्वस्यापत्यं सौवश्वः। य्वाभ्यामिति किम्? न्रर्थस्यापत्यं न्रार्थिः। पदान्ताभ्यामिति किम्? यष्टिः प्रहरणमस्य याष्टीकः। यतश्छात्रा याताः। प्रतिषेधवचनमैचोर्विषयप्रक्ऌप्त्यर्थम्, इह मा भूत् — दाध्यश्विः, माध्वश्विरिति। न ह्यत्र य्वाभ्यामुत्तरस्य वृद्धिप्रसङ्गोऽस्ति। वृद्धेरभावात् प्रतिषेधोऽपि नास्तीत्यप्रसङ्ग। उत्तरपदवृद्धेरप्ययं प्रतिषेध इष्यते। पूर्वत्र्यलिन्दे भवः पूर्वत्रैयलिन्दः। यत्र तूत्तरपदसंबन्धी यण् न भवति, तत्र नेष्यते प्रतिषेधः। द्वे अशीती भृतो भूतो भावी वा द्व्याशीतिकः॥ Siddhanta Kaumudi ----------------- पदान्ताभ्यां यकारवकाराभ्यां परस्य न वृद्धिः, किंतु ताभ्यां पूर्वौ क्रमादैचावागमौ स्तः । वैयासकिः । वारुडकिः । इत्यादि ॥ Laghu Siddhanta Kaumudi ----------------------- पदान्ताभ्यां यकारवकाराभ्यां परस्य न वृद्धिः किं तु ताभ्यां पूर्वौ क्रमादैजावागमौ स्तः। व्याकरणमधीते वेद वा वैयाकरणः॥ Balamanorama ------------ **न य्वाभ्यां पदान्ताभ्याम् पूर्वौ तु ताभ्यामैच्** - न य्वाभ्यां । य्च वश्च य्वाविति विग्रहः । वकारादकार उच्चारणार्थं । तदाह — यकारवकाराभ्यामिति ।परस्ये॑त्यध्याहारलभ्यम् । न वृद्धिरिति ।मृजेर्व-द्धि॑रित्यतस्तदनुवृत्तेरिति भावः । 'तु' शब्दो विशेषप्रदर्शनार्थ इत्याह — किंत्विति । ताभ्यामिति । यकारवकाराभ्यामित्यर्थः । पूर्वाविति । पूर्वावयवावित्यर्थः । तेन आगमत्वं लभ्यते । तदाह — ऐचावागमाविति । ऐच् — प्रत्याहारः । यथासङ्ख्यं यकारात्पूर्व ऐकारः, वकारात्पूर्व औकारः । वैयासकिरिति । वेदान्व्यस्यति=विवधमस्यति — शाखाभेदेन विभजतीति वेदव्यासः । कर्मण्यण् । अत्र नामैकदेशग्रहणम् । व्यासस्यापत्यमिति विग्रहः । इञ्प्रत्ययः । प्रकृतेरकडादेशः । अत्र यकारः पदान्तः । तस्मात्परस्य आकारस्य पर्जन्यवल्लक्षणप्रवृत्त्या आदिवृद्धिः प्राप्ता न भवति, किंतु यकारात्पूर्व ऐकार आगमः । वैयसकिरिति रूपम् । स्वआस्यापत्यं सौवइआरित्यत्र वकारात्परस्य न वृद्धिः, किन्तु ततः पूर्व औकारः । नच ऐचो वृद्द्यापवादत्वादेव वृद्ध्यभावसिद्धेस्तन्निषेधो व्यर्थ इति वाच्यं, यत्र य्वाभ्यां परस्य प्रसक्ताया वृद्धेर्निषेधस्तत्रैव ऐजागमाविति विषयनिर्देशार्थत्वात् । तेन दाध्यइआरित्यादौ न । वृद्धिनिषेधोऽयं येन नाप्राप्तिन्यायेन आदिवृद्धेरेव । तेन द्वे अशीती भृतो 'द्व्याशीतिक' इत्यत्रसङ्ख्यायाः संवत्सरसङ्ख्यस्य च॑ इत्युत्तरपदवृद्धिर्भवत्येव । वरुडादयो जातिविशेषाः । वारुडकिः । नैषादकिः । चाण्डालकिः । बैम्बकिः । Tattvabodhini ------------- **न य्वाभ्यां पदान्ताभ्याम् पूर्वौ तु ताभ्यामैच्** - न य्वाभ्यां । य्वाभ्यां किम् । न अर्थो यस्य नार्थः, तस्यापत्यं नार्थिः । पदान्ताभ्यां किम् । याज्ञिकः । ऐचो विषयप्रदर्शनायने॑ति निषेधोक्तिः । तेनेह न -दाघ्यश्विः, माध्वश्विः । न ह्यत्र य्वाभ्यां परस्य बृद्धिप्रसक्तिरस्ति । क्वचित्तु वृद्धिप्रसक्तिसत्त्वेऽपि नेष्यते । द्वे अशीति भृतो भूतो भावी वा व्द्याशीतिकः । वारुडकिरिति । बरिजादयो जातिविशेषाः । वकारस्यापदान्तत्वात्न य्वाभ्या॑मित्यैज्न । इत्यादीति । नैषादकिः, चाण्डालकिः, बैम्बकिः । Padamanjari ----------- अत्रार्थद्वयविधानाद्वाक्यभेदः, तस्यैव द्योतकस्तुशब्दः,'पूर्वौ' इत्यनेन सम्बन्धादैचाविति प्राप्ते एकवचनं सौत्रम् । वृतौ तु क्रियाविशेषणत्वादेकवचनम् । ताभ्यां तु पूर्वमिति । ऐजागमो भवतीति । टित्वाद्यागमलिङ्गाभावेऽपि पूर्वशब्देन देशविशेषे भवन्नागम इत्युच्यते - आगच्छतीत्यागम इति । वैयसनमिति ।'गतिकारकोपपदानां प्राक्सुबुत्पतेः समासः' इत्युतरपदविषयमित्यवीचाम । तेन वैयसनादिषु य्वोः पदान्तत्वम् । स्वश्वशब्दः शिवदिः । याष्टीक इति ।'शक्तियष्ट।लेरीकक्' । ननु चात्राचामादेः स्थाने यौ य्वौ ताभ्यामित्याश्रयणाअदेव न भविष्यति ? तत्राह - यत इम इति । 'इण् गतौ' लटः शत्रादेशः, शपो लुक्, ठिणो यण्ऽ । इहासत्यपि प्रतिषेधे वैयसनमित्यादौ व्यसन अ अ इति स्थिते वृद्धिश्च प्राप्नोति, ऐजागमश्च; तत्र वृद्धिरनित्या, शब्दान्तरप्राप्तेः । सा ह्यएचि कृते तस्यैव प्राप्नोति; तन्मध्यपतितस्य तद्ग्रहणेन प्रहणात् । ऐजागमस्तु नित्य इति स एव तावद्भवति । तत्र कृते यद्यपि पुनः - प्रसङ्गविज्ञानाद् वृद्धिः, तथाप्यान्तर्यत ऐकारस्यैकारः, औकारस्यौकार इति न कश्चिद्दोषः, किं प्रतिषेधेन ! नन्वसति तस्मिन्, वैयाकरणी भार्या अस्य वैयाकरणभार्य इति'वृद्धिनिमितस्य' इति पुंवद्भावप्रतिषेधः स्यात्, सति तु प्रतिषेधे न भवति; कथं न भवति, यावता वृद्धेर्निमितं ञणका यस्मिंस्तद्धित इति बहुव्रीहिः, विद्यते चात्र णकारः ? सत्यं विद्यते, निमितं तु न भवति;'कुर्वद्रूपे हि निमितशब्दो मुख्यः' इत्युक्तम् । ननु च मा भूत्'तद्धितेष्वचामादेः' इत्यस्या वृद्धेर्निमितम्, य एव त्वसौ णितद्धिताश्चय ऐज्विधीयते तस्यैव वृद्धिसंज्ञकस्य निमितं णकार इति स्यादेव पुंवद्भावप्रतिषेधः ? उच्यते; न हि वस्तुतो या वृद्धिस्तस्या यन्निमितं ञकारादिस्तद्वति प्रतिषेधः, किं तर्हि ? बृद्धिरित्येवं या विधीयते तन्निमिते । अतः पुंवद्भावप्रतिषेधनिवृत्यर्थं वृद्धेः प्रतिषेधो वक्तव्य एव ? न वक्तव्यः; एकस्मिन्नङ्गे विशेषविहितावैचौ सामान्यविहिताया वृद्धेर्बाधकौ भविष्यतः, सत्यपि सम्भवे बाधनं भवतीति न्यायात्; ततश्च पूर्ववत्पुंवद्भावप्रतिषेधो न भविष्यतीति'य्वाभ्यां पूर्वमैच्' इत्येवास्तु, नार्थः प्रतिषेधेन ? इत्यत आह - प्रतिषेधवचनमिति । प्रतिषेधवचने सति याभ्यां य्वाभ्यां परस्य वृद्धिः प्राप्ता प्रतिषिध्यते, ताभ्यअमेव पूर्वावैचौ भवत इत्यर्थौ भवति, असति हि तस्मिन् यौ कौचन य्वौ गृह्यएयाताम् । तस्मादैचोर्विशिष्टो विषयः प्रल्कृप्तो यथा स्यादित्येवमर्थं प्रतिषेधवचनं क्रियत इत्यर्थः । दाध्यश्विः, माध्वश्विरिति। दधिप्रियोऽश्वो यस्य स दध्यश्वः । एवं मध्वश्वः, ताभ्याम् ठत इञ्ऽ । ननु च ठछामादेःऽ इत्यनेन य्वौ विशेषयिष्यामः - अचामादेरचः स्थाने यौ य्वाविति ? एवमपि द्वे अशीति अधीष्टः,'तद्धितार्थ' इति समासः, तमधीष्ट इति'प्राग्वतेष्ठक्' , द्व्याशीतिकः - अत्र प्राप्नोति । सति तु प्रतिषेधे'तद्धितेष्वचामादेः' इत्यनुवृतेर्याभ्यां परस्य'तद्धितेष्वचामादेः' इति वृद्धिः प्राप्ता प्रतिषिध्यते, ताभ्यामिति विज्ञायते; अत्र तु'संख्यायाः संवत्सरसंख्यस्य च' इत्येवमुतरपदवृद्धिर्विधीयत इति तस्य निषेधाभावादैजागमाभावः सिद्धः । स्यादेतत् - अचामादेरित्यनुवृतं स्वरूपपरं सद् वृद्धेर्विशेषणम्, अचामादेरित्येवं या वृद्धिस्तस्याः प्रसङ्गे तदपवादौ य्वाभ्यां पूर्वमैचो भवत इत्यर्थः, इह तु नैवं वृद्धेः प्रसङ्ग इत्यैचौ न भविष्यत इति ? एवमपि य्वावविशेषितौ स्याताम्, ततश्च दाध्यश्वादौ प्रसङ्गः । न च सकृच्छ्4%अतमचामादेरित्येतदेवोभयं विशेषयितुमर्हति, येनाचामादेः स्थाने य्वौ ताभ्यां पूर्वावैचो भवतः, सति तस्मिन्नचामादेरित्येवं वृद्धेः प्रसङ्ग इत्याश्रयणान्न क्वापि दोषः स्यात् । न च तन्त्रावृत्येकशेषाणामन्यतमाश्रयणे प्रमाणमस्ति, तस्मात्सुष्ठूअक्तम् - प्रतिषेधवचनमैचोर्विषयप्रल्कृप्त्यर्थमिति । उतरपदवृद्धेरपीति । एतच्च तत्रालस्याधिकाराल्लभ्यते । यत्र त्विति । एतदप्युतरपदेन य्वोर्विशेषणाल्लभ्यते - उतरपदस्य यौ य्वौ ताभ्यां परस्य वृद्धिर्न भवति, ताभ्यां च पूर्वमैजागम इति । इह - इश्च अजश्च यजौ, उश्च अजश्च वजौ, तयोरिदं ऐयजम्, औवजमिति ऐचोरभक्तत्वादतन्मध्यपतितत्वाच्च अङ्गग्रहणेनाग्रहणादैयजीयम्, औवजीयमित्यादौ शेषनिघातो न स्यात्, शेषविवक्षायां च वृद्धाच्छाए न स्यात्, प्रातिपदिकस्यावृद्धत्वात् ? उच्यते; यद्येवंविधमभिधानमस्ति, ततः पूवशब्द आवर्तयितव्यः, तत्रैकोऽवयववचनः, अपरो व्यवस्थावचनः - य्वाभ्यां पूर्वावैचौ भवतस्तौ चाङ्गस्यावयवाविति। अत्र संग्रहश्लोकौ - नाप्राप्ताया हि वृद्धेः प्रतिपदविधिरैज्बाधको नञ् किमर्थो याभ्यां य्वाभ्यां परस्यैच् प्रसजति तत एवैष पूर्वो यथा स्यात् । मा दाध्यश्वादिके भूदिति ननु विहितौ यावचां स्थान आदे- र्य्वौ ताभ्यामैजिहैवं न भवतीति चेद् द्वे अशीति अधीष्टे ॥ स्यादैज् द्व्याशीतिकेऽङ्गाद्यचेति विहितस्यैवमैच्चेत्प्रसङ्गाद् य्वौ न स्यातां विशिष्टौ श्रुतमपि च सकृन्नोभयं भेतुमर्हम् । स्यादेतस्योतरत्राप्यधिकृतिरिह च य्वोः पदस्योतरस्यै- वं पूर्वत्रैयलिन्दे भवति, न च भवेद् द्वे अशीती अधीष्टे ॥ Nyaas ----- **तद्धितेष्वचामादेः** (7.2.117) इत्यादिना ञ्णिदादौ तद्धिते वृद्धौ प्राप्तायां प्रतिषेधोऽयमुच्यते, तत्सन्नियोगेनैजागमौ भवतः। `यकारादैकारः` इत्यादिना यतासंख्येन सम्बन्धं दर्शयति। `वैयसनम्` इति। `असु क्षेपणे` (धातुपाठः-1209)। विपूर्वाद्विशेषेणास्यते क्षिप्यते येनेति करणे ल्युट्, प्रादिसमासः, यणादेशः, तत, **तत्र भवः** (4.3.53) इत्यण्। तत्र यकारात्? पदान्तात्? परस्याकारस्य वृद्धिर्न भवति, तस्मात्? पूर्वमैजागमः। `वैयाकरणः` इति। विशेषेणाक्रियन्ते व्युत्पाद्यन्ते शब्दा अनेनेति करणे ल्युट्, व्याकरणमिति, प्रादिसमासः, ततः **तदधीते तद्वेद** (4.2.59) इत्यण्, तत्र पर्जन्यवल्लक्षणप्रवृत्त्या पदान्ताद्यकारात्? परसय या वृद्धिः प्राप्नोति सा न भवति, तस्मात्? पूर्वमैजागमः। `सौवआः` इति। शोभनोऽआः स्वआः, पूर्ववत्? समासः, ततोऽपत्यर्थे शिवाद्यण्? (4.1.112) । अत्र वकारात्? पदान्तात्? परस्य वृद्धिर्न भवति, तस्मात्? पूर्वमैजागमो भवति। `आर्थिः` इति। ना अर्थो यस्य स अर्थः, तस्यापत्यम्? `उत इञ्` (4.1.95) । `याष्टकः` इति। `शक्तियष्टओरीकक्` (4.4.59) । `याताः` इति। इणः परस्य लटः शत्रादेशः, **इणो यण्** (6.4.81) इति यण्, ततः **तस्येदम्** (4.3.120) इत्यण्। तत्रोभयत्रापि यकारस्य पदान्तता भविष्यतः, यथा - `ब्राआहृणेभ्यो दधि दीयतां तक्रं कौण्डिन्याय` इति दधिदानस्य तक्रदानां बाधकम्। अथापि बाधगौ न स्याताम्, तथापि नित्यत्वादैचोः कृतयो पश्चाद्वृर्भवन्ती तयोरेव भविष्यतीति। न चात्र शब्दान्तरप्राप्त्या तयोरप्यैचोरनित्यत्वमाशङ्कनीयम्, न हि तौ शब्दान्तरसय विधीयेते, अपि त्वभकतावेव य्वाभ्यां पूर्वौ। यद्यपि शब्दातन्तरस्य प्राप्तिः स्यात्, तथापि द्वयोरनित्ययोः परत्वादैचोः कृतयोः सकृद्गतौ विप्रतिषेधे यद्बाधितं तद्बाधितमेव` (व्या।प।40) इति पुनर्वृद्धिर्न भवति। यद्यपि पुनःप्रसङ्गविज्ञानाद्वृद्धिः स्यात्; तथापीष्टसिद्धिः स्यादेव; विशेषाभावादित्यत आह - `प्रतिषेधवचनम्` इत्यादि। प्रक्लृतिः=प्रकल्पनम्, व्यवस्येत्यर्थः। यत्र य्वाभ्यां परस्य वृद्धेः प्रतिषेधः स एवैचोर्विषयः कथन्नाम प्रकल्पेतव्यवतिष्ठेतेत्येवमर्थः। प्रतिषेध उच्यते, किमर्थं पुनरै चोर्विषयपरकॢप्तिः क्रियते? इत्यत आह - `इह मा भत्` इति। यदि प्रतषेधवचनेनैचोर्विषयन्यवस्था न क्रियेत, तदा दाध्यश्विः, माध्वइआरित्यत्रापि स्यात्। अतो मा भूदेष दोष इति प्रतिषेधवचनेनैचोर्विषयन्यवसथा क्रियते। दधिप्रियोऽआओ दध्यआः मधुप्रियोऽआओ मध्यआः। `सामानाधिकरणाधिकारे शापकपार्थिवादीनां समास उत्तरपदलोपश्च` (वा।83) इति मध्यमपदलोपौ समासः। अथ क्रियमाणे प्रतिषेधवचने कस्मादेवात्र न भवति, यावता य्वाभ्यां परस्य वृद्धिर्नास्ति? इत्यत आह - `न ह्यत्र` इत्यादि। प्रसङ्गे हि सति वृद्धेः प्रतिषेधो भवति, नासति; न चात्र य्वाभ्यां परस्य वृद्धेः प्रसङ्गोऽस्ति, अतः प्रतेषेधो नास्त्येवेत्यभिप्रायः। ननु च `अचामादेः` (7.2.117) इत्यनुवर्तते, तेन य्वौ विशिष्येते - अचामादेरचः स्थाने यौ य्वादिति। न च दध्यइआरित्यादावेवंविधौ तौ स्त इति। न चात्रैचो भविष्यतः, अतो नार्थः? नैतदस्ति; एवं हयचामादिग्रहणम्, तेन यदि य्वौ विशिष्येते तदा वृद्धिरविशेषिता स्यात्। ततश्चेहापि वृद्धेः प्रतिषेधः स्यात् - द्वे अशीती भृतो भृतो भावी वा **प्राग्वतेष्ठञ्** (5.1.18) द्व्याशौतिक इति। अथ वृद्धिर्विशिष्यते - अचामादेरित्येवं वा वृद्धिः, ततो न भवत्येष दोषः। न ह्यत्राचामादेरित्येवं वृद्धिः, किं तर्हि? `संख्याया संवत्सरसंख्यस्य च` (7.3.15) इत्येवम्। किं तर्हि य्वौ न विशेषितौ स्याताम्? ततश्च दाध्यइआरित्यादावैचौ स्यातामेव। तस्मात्? तयोर्विषयव्यवस्थार्थं नेति वक्तव्यम्। `उत्तरपदवृद्धेरप्ययं प्रतिषेध इष्यते` इति। स चोत्तरपदाधिकारेऽस्यानुवर्तमानत्वाल्लभ्यते। `पूर्वत्रैयलिन्दे` इति। अत्र `विशोऽमद्राणाम्` (7.3.13) इत्युत्तरपदवृद्धौ प्राप्तायां प्रतिषेधः। यद्युत्तरपदवृद्धेरप्ययं प्रतिषेधः, तदा द्व्याशीतिक इत्यत्रापि **संख्यायाः संवत्सरसंख्यस्य च** (7.3.15) इति या वृद्धिरुत्तरपदस्य आप्तेत्यस्या अपि प्रतिषेधः स्यादित्यत आह - `यत्र तु` इत्यादि। कथं पुनरिष्यमाणोऽप्यत्र प्रतिषेधो न भवति? उत्तरपदस्याचामाद्येनाचा हि य्वोर्विशेषणत्वात्। उत्तरपदसम्बन्दी योऽचामादिरच्? तस्य स्थाने यो य्वौ ताभ्यामुत्तरपदस्य वृद्धिर्न भवति। न च द्व्याशीतिक इत्यत्रोत्तरपदस्याचामादेरचः स्थाने यकार इति नात्र वृद्धेः प्रतिषेधो भवतीति॥ Prakriyasarvasvam ----------------- पदान्ताभ्यां यकारवकाराभ्यां परस्याद्यचो वृद्धिर्न ताभ्यां पूर्वौ त्वैचावा- गमौ स्तः । व्याघ्र इत्यत्र वि इत्युपसर्गस्य सौ कृते पदत्वं, यणादेशेन यकारस्य पदान्तत्वं वैयाघ्रिः ॥