73002: केकयमित्त्रयुप्रलयानां यादेरियः

Padacheda: केकयमित्त्रयुप्रलयानाम् | S | 6 | 3 |

यादेः | S | 6 | 1 |

इयः | S | 1 | 1 |

Sutrartha


Vasu English Summary

Before a तद्धित affix having an indicatory ञ् , ण् or क् the वृद्धि is not substituted for the first vowel in a compound when it follows a word ending in य् or व् but ऐ and औ are respectively placed before the semi-vowels.

Vasu English Translation

Before a तद्धित affix having an indicatory ञ् , ण् or क् the वृद्धि is not substituted for the first vowel in a compound when it follows a word ending in य् or व् but ऐ and औ are respectively placed before the semi-vowels. As कैकेयः (= केकयस्यापत्यं), with the affix अञ् (4.1.168): similarly मैत्रेयिका formed with वुञ् (5.1.134) in the sentence मैत्रेयिकया श्लाघते ॥ The word Gotra in that sutra (5.1.134) means a Rishi name, for in ordinary parlance the name of a Rishi is called Gotra. Similarly प्रालेयम् (= प्रलयादागत). As प्रालेयमुदकं ॥

Kashika

केकय मित्रयु प्रलय इत्येतेषां यकारादेरिय इत्ययमादेशो भवति तद्धिते ञिति णिति किति च परतः। केकयस्यापत्यं कैकेयः। जनपदशब्दात् क्षत्रियादञ् (४.१.१६८) इत्यञ्प्रत्ययः। मित्रयुभावेन श्लाघते मैत्रेयिकया श्लाघते। गोत्रचरणाच्छ्लाघात्याकारतदवेतेषु (५.१.१३४) इति वुञ्। लौकिकं हि तत्र गोत्रं गृह्यते। लोके च ऋषिशब्दो गोत्रमित्यभिधीयते। प्रलय — प्रलयादागतं प्रालेयमुदकम्॥

Siddhanta Kaumudi

एषां यकारादेरियादेशः स्यात् । ञिति णिति किति च तद्धिते परे । इति यादेशे प्राप्ते ॥

Balamanorama

केकयमित्त्रयुप्रलयानां यादेरियः - केकयमित्रयु ।तद्धितेष्वचामादे॑रित्यतस्तद्दितग्रहणमनुवर्तते । ‘अचो ञ्णिति’किति चे॑त्यतो ञ्णितीति, कितीति च । तदाह — एषामिति । आदेशे यकारादकार उच्चारणार्थः । केकयस्यापत्यं स्त्री कैकेयी । ‘जनपदशब्दात्’ इत्यञ् । मैत्रेयिकया श्लाघते । मित्रयोर्भाव इत्यर्थेगोत्रचरणा॑दिति वुञ् । प्रलयादागतं प्रालेयम् । ण् । अत्र सर्वत्र यादेरियादेश इत्युदाहरणानि । प्राप्ते इति । मित्रयोरपत्ये ढञि एयादेशे मित्रयु-एय इति स्थिते ओर्गुणं बाधित्वा यु इत्यस्य इयादेशे सति आद्गुणे मैत्रेयेय इति प्राप्ते सतीत्यर्थः ।

Tattvabodhini

केकयमित्त्रयुप्रलयानां यादेरियः - केकय । केकयस्यापत्यं स्त्रीकैकेयी॑ ।जनपदशब्दात्क्षत्रियादञ् ।मैत्रेयिकया शर्लाध्यते॑ । मित्रयूनां भावेनेत्यर्थः ।गोत्रचरणाच्छ्लाघात्याकारे॑ति वुञ् । तत्र हि लौकिकं गोत्रं गृह्रते, लोके चऋषिशब्दो गोत्रमिति प्रसिद्ध॑मिति काशिका । एतच्च यदा मित्रयुशब्दोऽभेदोपचारात्तदपत्यसंताने वर्तते तदा बोध्यम्, अन्यथामित्र यूनामि॑ति बहुवचनान्तेन विग्रहो न स्यात् । प्रलयादागतंप्रालेयम् । इयादेशो वृदिंध न बाधते,अचामादेरचो वृद्धिः,॑यादिरियादेशः॑ इति भिन्नविषयत्वात्, अङ्गं तूभयोर्विशेषणं न तु कार्यीति हरदत्तः । आदिवृद्धेरपीदमेव सूत्रं विधायकमस्तु, किमनेन विषयभेदविचारेणेत्यन्ये ।

Padamanjari

लौकिकं हि तत्र गोत्रं गृह्यत इति । मित्रयु शब्दोऽभेधोपचारातदपत्यसन्ताने यदा वर्तते न परं प्रकृतावेव, तदेदमुच्यते । यदा तु गृष्ट।लदिभ्यष्ठञो यस्कादित्वाद् बहुषु लुक् क्रियते, तदा पारिभाषिकेऽपि गोत्रे न दोषः । अत्र यद्यपि वृद्धिप्रसङ्गेऽयमादेश उच्यते, तथापि वृद्धिर्न बाध्यते; विषयभेदात् - अचामादेर्वृद्धिः, यादेरियादेशः, अङ्गं तूभयोविशेषणम्, न कार्यि ॥

Nyaas

केकयमित्रयुप्रलयानामिति याद्यपेक्षयाऽवयवषष्ठी। यादेरित्येषापीत्यादेशापेक्षया स्थानषष्ठी-य आदिर्यस्य स यादिः। अकारसहितो यकार उकारसहितश्च। केकयादीनां योऽवयवो यादिस्तस्येयादेशो भवति। ननु च मित्रयुशब्दः परमप्रकृतिः, न गोत्रम्; अपत्यं पोत्रप्रभृति गोत्रम् (4.1.162) इत्यपत्यविशेषस्य गोत्रसंज्ञाविधानात्, तत्कथं गोत्रादुच्यमानः प्रत्ययः परमपरकृतेर्भवति? इत्यत आह - लौकिकं हि इत्यादि। किं पुनर्लौकिकं गोत्रम्? इत्यत आह - लोके च इत्यादि। इह लौकिकं गोत्रं गृह्रते। लोके च ऋषिशब्दः गोत्रम् इत्यभिधीयते। मित्रयुशब्दश्चायमुषिवचनः, तस्मात्? ततोऽपि गोत्रादुच्यमानः प्रत्ययो भवतीति। प्रालेयम् इति। अत आगतः (4.3.74) इत्यण्॥

Prakriyasarvasvam

एषां वृद्धिहेतुतद्धिते परे यादेर्भागस्य इय् स्यात् । केक इय् आद्गुणः । आदिवृद्धिः । कैकेयः ॥<!क्षत्रियसमानशब्दात् जनपदात् तस्य राजेत्यर्थेऽपत्यवत् प्रत्ययो वाच्यः!> (वा० ४-१-१६६) पञ्चालानां राजा पाञ्चालः । मागधः ॥

Sutra Prayogas

  • कैकेय्याः (रघुवंशम्): केकयमित्रयुप्रलयानां यादेरियः इतीयादेशः।

  • प्रालेय (शिशुपालवधम्): केकयमित्रयुप्रलयानां यादेरियः इति यशब्दस्येयादेशः।

  • प्राक्केकयी-तो (भट्टिकाव्यम्): केकयमित्रयुप्रलयानां यादेरियः इतीयादेशः।